॥ अथ रत्युद्दीपनविभावप्रकाशः ॥
अथ
श्रृङ्गरप्रकाशे षोडशः प्रकाशः
रत्युद्दीपनविभावप्रकाशः
इदानीमुद्दीपनविभावान् व्याख्यास्यामः। तत्र रत्यादि(कम्) उत्पन्नानुत्पन्न— (उत्पन्नानुत्पन्नविभावा)दि त्रिविधम्। तत्र—
(उद्दीपनविभावाः—१२)
रत्यादेः उद्दीपनविभावाः—ऋतूपकरणेतिहासश्रवण—देश—काल—कलाविचार— वयो—वयस्योपदेश—सन्देशोपचार—दैवसम्पदुपकार—स्मरणादयः। तत्र—
(१. ऋतुः)
ऋतुः षोढा वसन्तो, ग्रीष्मो, वर्षाः, शरत्, हेमन्तः, शिशिर इति। ते च प्रत्येकतश्चतुर्धा सन्धिरुत्पत्तिः प्रौढिरवसितिश्चेति। तत्र—
(१.१ वसन्तः) शिशिरवसन्तसन्धिर्यथा—
यत् पत्रं श्लथमूलनालमनवं पातोन्मुखं वर्तते यद् भङ्गाङ्कुरजन्मभिः क्षितिरुहां स्निग्धोन्नता ग्रन्थयः।
यच्छेदं हलिनीकुचोष्मसु हिमं स्वादु प्रवृत्तं ततः शीतार्तोश्च मधोश्च (कञ्चन मिथःसन्धिः परावर्त्तते)॥ १॥
यथा वा—
च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा मनसि च गिरं ग्रन्थन्तीमे किरन्ति न कोकिलाः।
अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम्॥ २॥
वसन्तोत्पत्तिर्यथा—(विक्र. २. ७)
अग्रे स्त्रीनखपाटलं कुरवकं श्‍यमां द्वयोर्भागयोर् बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति।
ईषद्‍बद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे! मध्ये मधुश्रीः स्थिता॥ ३॥
यथा वा—(विसा. १. ३२)
गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः।
किंच त्रीणि जगन्ति जिष्णु दिवसैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्‍यं धनु॥ ४॥
वसन्तप्रौढिर्यथा—(विसा. १. २५)
साम्यं संप्रति सेवते विचकिलं षाण्मासिकैर्मौक्तिकैः कान्तिं कर्षति काञ्चनारकुसुमं माञ्जिष्ठधौतात् पटात्।
हूणीनां कुरुते मधूककुसुमं लावण्यलुण्टाकतां लाटीनाभिनिभं चकास्ति च पतद्‌व‌ृन्ताग्रतः केसरम्॥ ५॥
यथा वा—(बारा. ५. ४०)
सूते/साम्यं संप्रति दुग्धमुग्धसुभगं पुष्पोद्गमं मल्लिका बाह्लीकीदशनव्रणारुणदलैः पुष्पै/पत्रैरशोकोऽञ्चितः/ऽर्चितः।
भृङी्गलङ्घितकोटिकिंशुकमिदं किञ्चिद् विवृन्तायते माञ्जिष्ठैर्मुकुलैश्च पाटलितरोरन्यैव काचिल्लिपिः॥ ६॥
वसन्तावसितिर्यथा—
उपसरति वसन्तस्यावसानं मधूकद्रुमकुसुमकडारच्छायविश्रान्तकान्तम्।
ददति मुदमिदानीं भूमयः पामराणामविरलखलधानक्षोदकोलाहलिन्यः॥
यथा—(रघु. १६. ५०)
स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्त—सायन्तनमल्लिकेषु।
कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे पदमङ्गनानाम्॥ ८॥
(१. २ ग्रीष्मः)
वसन्तग्रीष्मसन्धिर्यथा—
(ग्लाना रात्रिर्निदाघे बत विरच)१—यति द्राघिमानं दिनानां२ वध्नन्त्यस्थि प्रगल्भं विफलसुमनसः संप्रतीमे मधूकाः।
किञ्चान्यत् पान्थयूनां हृदयधृतिमुषो भग्नकर्पूरगौरा राजन्ते लूनसस्याः सपदि कृषिभुवां सम्पदो नालशोषाः॥ ९॥
१. पूर्तिरस्मत्कृता २. द्राघिमा नन्दिनीनां जो॰ रा॰
यथा वा—(कामी. पृ. ११० दसं.)
गेहे वाहीकयूनां वहति दमनको मञ्जरीकर्णपूरा— न‍ुन्मादः पामरीणां मरुति मरुवकामोदिनि व्यक्तिमेति।
सद्योभङ्गनुसारस्त्रुतसुरभिसिराशीकरः साहकारः सर्पन्नम्भश्शरावे रचयति च रसो रेचकीचन्द्रकाणि१॥ १०॥
ग्रीष्मोत्पत्तिर्यथा—
कर्णोत्तंसः शिशुशुकवधूपिञ्छनीलं शिरीषं सान्तस्सूत्राः परिमलमुचो मल्लिकानां च हाराः।
मुक्तागौरैर्वलयरचना कन्दलाग्रौर्विसानां ग्रीष्मारम्भे रमयति नवं मण्डनं कामिनीनाम्॥ ११॥
यथा वा—(सूमु. २२)
सा/सौहित्य—स्तिमितैरुदञ्चेदलसग्रीवाभिरामं मुहु— र्मध्येऽह्नः स्फुरदर्ककर्कशरुचि—प्रान्तस्थलीवर्तिभिः।
दत्ताः सिन्धुषु माहिषैः क्रमकृशस्त्रोतस्सु पङ्कोदरे निद्रामीलितपक्ष्मपत्रविवरव्यक्तारुणा दृष्टयः॥ १२॥
ग्रीष्मे प्रौढिर्यथा—
अपां मूले लीनं मृदु परिचितं चन्दनरसे मृणालीहारादौ कृतलघुपदं चन्द्रमसि च।
मुहूर्तं विश्रान्तं सरसकदलीकाननतले प्रियागाढाश्लेषे निवसति परं शैत्यमधुना॥ १३॥
यथा वा—
॥ इति रत्युद्दीपनविभावप्रकाशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.