अथ
शृङ्गारप्रकाशे पञ्चदशः प्रकाशः
रत्यालम्बनविभावप्रकाशः
यदुक्तं१ 'तैः सविभावानुभावैः प्रकाशमानः शृङ्गारो विशेषतः स्वदते', तत्र प्रायेण रतिप्रीत्यै विभावादीन् उदाहरणतो वक्ष्यामः।
द्विविधो विभावः — आलम्बनविभाव उद्दीपनविभावश्च।
यमालम्ब्य रत्यादय उत्पद्यन्ते स आलम्बनविभावो नायकादिः। तत्र—
(१. नायकः)
नायकश्चतुर्धा धीरोदात्त—धीरोद्धत—धीरललित—धीरप्रशान्तभेदात्।
(धैर्यम्)
धैर्यं हि नाम नायकव्यपदेशहेतुरिन्द्रियाविकारकारणं चित्तधर्मः, येन सतां
सत्यपि गर्वादिहेतौ गुणसमूहे नोत्सेकादयो जायन्ते॥ १॥
(१. धीरोदात्तः)
तद्(धैर्यं) यत्र गुणसन्निवेशचारुत्वादुदात्तं स धीरोदात्तः। यथा—
कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतशालिनी॥ २॥
(पृ. १००५)
(२. धीरोद्धतः)
यत्र गुणानां हीनाधिकयोगादुपहतं (धैर्यं) स धीरोद्धतः। यथा— (उराच. ६.१९)
दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम्।
कौमारकेऽपि गिरिवद् गुरुतां दधानो वीरो रसः किमयमेत्युत दर्प एषः॥ ३॥
(३. धीरललितः)
यत्र तु सन्निवेशसौकुमार्याद् विलासमसृणं (धैर्यं) स धीरललितः। यथा—(कुसं.२.६४)
अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्ज्य कण्ठे।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमुखमुपतस्थे प्राञ्जलिः पुष्पधन्वा॥ ४॥
(४. धीरप्रशान्तः)
तत्र त्वमीषामेव शास्त्रार्थावगमपरिणत्या तदतिसत्त्वोत्तरं स धीरप्रशान्तः। यथा—
१. अत्रैव ६१६ पृष्ठे प्रथमपङ्क्तौ।
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः।
तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना॥ ५॥
(रघु. १.२३)
त एते गुणप्रकृतिप्रवृत्तिपरिग्रहभेदाद् यथासम्भवं द्वादशधा भवन्ति।
१. गुणतः उत्तमः, मध्यमः, कनिष्ठ इति।
२. प्रकृतेः सात्त्विको राजसस्तामस इति।
३. प्रवृत्तेरनुकूलो दक्षिणः शठो धृष्ट इति।
४. परिग्रहादसाधारणः साधारण इति। तेषु—
(१. गुणतः)
महाकुलीनतादिचतुर्विंशतिगुणयोगादुत्तमः; यथा—
रामोऽसौ जगतीह विक्रमगुणैर्यातः प्रसिद्धिं परा— मस्मद्भाग्यविपर्ययाद् यदि परं देवो न जानाति तम्।
वन्दीवैष यशांसि गायति मरुद् यस्यैकबाणाहति— श्रेणीभूतविशालसालविवरोद्गीर्णैः स्वरैः सप्तभिः॥ ६॥
पादोनगुणसम्पद्योगान्मध्यमः यथा—(वेसं. ५.२७)
सकलरिपुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः।
रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वा मध्यमः पाण्डवोऽयम्॥ ७॥
अर्धगुणसम्पद्योगात् कनिष्ठः; यथा—
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः॥ ८॥
(६४४)
(२. प्रकृतेः)
सत्त्वोत्कर्षात् सात्त्विकः; यथा—(उरा. ६.१३)
शक्त्या वक्षसि मग्नया सह मया मूढे प्लवङ्गाधिपे विद्राणेषु च विद्रवत्सु कपिषु प्राप्तावकाशो द्विषि।
मा भैष्टेति निरुन्धतः कपिबलान्यस्योद्भटभ्रूस्थिते— र्मर्मच्छेदविंसस्थुलाक्षरपदा वाचस्त्वया न श्रुताः॥ ९॥
रजउत्कर्षाद् राजसः; यथा—(रघु. १९.१३)
अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे।
॥ इति रत्यालम्बनविभावप्रकाशः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.