९.३
स हि वेत्यनागतमतीतमपि
प्रियकृत्समस्तजगतोऽधिकृतः ।
निगमप्रवर्तनविधौ स कथं
तपसां निधिर्वितथसूत्रपदः ॥
प्रियकृत्समस्तजगतोऽधिकृतः ।
निगमप्रवर्तनविधौ स कथं
तपसां निधिर्वितथसूत्रपदः ॥
९.४
इति संदिहानमवदत्तमसौ
न हि जैमिनावपनयोऽस्ति मनाक् ।
प्रमिमीमहे न वयमेव मुने
र्हृदयं यथावदनभिज्ञतया ॥
न हि जैमिनावपनयोऽस्ति मनाक् ।
प्रमिमीमहे न वयमेव मुने
र्हृदयं यथावदनभिज्ञतया ॥
९.१८
अवदच्च शृष्विति स
भाष्यकृति मजेहाहि संशयमिमं सुमते ।
यदवोचदेष मम
सूत्रतते र्हृदयं तदेव मम नापरथा ॥
भाष्यकृति मजेहाहि संशयमिमं सुमते ।
यदवोचदेष मम
सूत्रतते र्हृदयं तदेव मम नापरथा ॥
९.५०
इति पृष्टभाविचरितः प्रसुवा
क्षणमात्रमीलितविलोचनकः ।
सकलं क्रमेण कथयन्निदम
प्यपरं जगाद सुरहस्यमपि ॥
क्षणमात्रमीलितविलोचनकः ।
सकलं क्रमेण कथयन्निदम
प्यपरं जगाद सुरहस्यमपि ॥
९.६१
अत एव गार्ग्यभिधया कलहं
सह याज्ञवल्क्यमुनिराडकरोत् ।
जनकस्तथा सुलभाऽबलया
किममी भवन्ति न यशोनिधयः ॥
सह याज्ञवल्क्यमुनिराडकरोत् ।
जनकस्तथा सुलभाऽबलया
किममी भवन्ति न यशोनिधयः ॥
॥ इति नवमः सर्गः (श्रीमदाचार्यसरस्वतीसंवादः) ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.