॥ अथ तृतीयोऽङ्कः ॥
(ततः प्रविशति सुधाकारः)
सुधाकारः—(सम्मार्जनादीनि कृत्वा) भोदु, दाणि किदं एत्थ कज्जं अय्यसम्भवअस्स आणत्तं । जाव मुहुत्तं सुविस्सं । (स्वपिति) [भवतु, इदानीं कृतमत्र कार्यमार्यसंभवकस्याज्ञप्तम् । यावन्मुहूर्तं स्वप्स्यामि ।]
भटः—(प्रविश्य चेटमुपगम्य ताडयित्वा) अंघो दासीएपुत्त ! किं दाणि कम्मं ण करेसि । (ताडयति) [अङ्घो दास्याः पुत्र किमिदानीं कर्म न करोषि ।]
सुधाकारः—(बुद्ध्वा) तालेहि मं तालेहि मं । [ताडय मां ताडय माम् ।]
भटः—ताडिदे तुवं किं करिस्ससि । [ताडिते त्वं किं करिष्यसि ।]
सुधाकारः—अहण्णस्स मम कत्तवीअस्स विअ बाहुसहस्सं णत्थि । [अधन्यस्य मम कार्तवीर्यस्येव बाहुसहस्रं नास्ति ।]
भटः—बाहुसहस्सेण किं कज्जं । [बाहुसहस्रेण किं कार्यम् ।]
सुधाकारः—तुवं हणिस्सं । [त्वां हनिष्यामि ।]
भटः—एहि दासीए पुत्त ! मुदे मुंचिस्सं । (पुनरपि ताडयति) [एहि दास्याः पुत्र मृते मोक्ष्यामि ।]
सुधाकारः—(रुदित्वा) सक्कं दाणि भट्टा मे अवराहं जाणिदुम् । [शक्यमिदानीं भर्तः मेऽपराधं ज्ञातुम् ।]
भटः—णत्थि किल अवराहो णत्थि । णं मए संदिट्ठो भट्टिदारअस्स रामस्स रज्जविब्भट्ठकिदसन्दावेण सग्गं गदस्स भट्टिणो दसरहस्स पडिमागेहं दट्ठुं अज्ज कोसल्लापुरोएहि सव्वेहि अन्तेउरेहि इह आगन्तव्वं त्ति । एत्थ दाणि तुए किं किदं । [नास्ति किलापराधो नास्ति । ननु मया सन्दिष्टः---भर्तृदारकस्य रामस्य राज्यविभ्रष्टकृतसन्तापेन स्वर्गे गतस्य भर्तुर्दशरथस्य प्रतिमागेहं द्रष्टुमद्य कौसल्यापुरोगैः सर्वैरन्तःपुरैरिहागन्तव्यमिति । अत्रेदानीं त्वया किं कृतम् ।]
सुधाकारः—पेक्खदु भट्टा । अवणीदकवोदसन्दाणअं दाव गब्भगिहं । सोहवण्णदत्तचन्दणपंचांगुला भित्तीओ । ओसत्तमल्लदामसोहीणि दुवाराणि । पइण्णा वालुआ । एत्थ दाणि मए किं ण किदं । [पश्यतु भर्ता । अपनीतकपोतसन्दानकं तावद् गर्भगृहम् । सौधवर्णकदत्तचन्दनपञ्चाङ्गुला भित्तयः । अवसक्तमाल्यदामशोभीनि द्वाराणि । प्रकीर्णा वालुकाः । अत्रेदानीं मया किं न कृतम् ।]
भटः—जइ एवं, विस्सत्थो गच्छ । जाव अहं वि सव्वं किदं त्ति अमच्चस्स णिवेदेमि । [यद्येवं, विश्वस्तो गच्छ । यावदहमपि सर्वं कृतमित्यमात्याय निवेदयामि ।]
(निष्क्रान्तौ)
इति प्रवेशकः ।
अथ तृतीयोऽङ्कः ।
(ततः प्रविशति भरतो रथेन सूतश्च)
भरतः—(सावेगम्) सूत ! चिरं मातुलपरिचयादविज्ञातवृत्तान्तोऽस्मि । श्रुतं मया दृढमकल्यशरीरो महाराज इति ।
३.१
तदुच्यतां पितुर्मे को व्याधिः
हृदयपरितापः खलु महान्
किमाहुस्तं वैद्याः
न खलु भिषजस्तत्र निपुणाः
किमाहारं भुङ्क्ते शयनमपि
भूमौ निरशनः
किमाशा स्याद्
दैवम्
स्फुरति हृदयं वाहय रथम्
Summary AI Bharata asks about his father's illness. The charioteer replies it is a great heartache beyond the skill of physicians. He eats nothing and sleeps on the ground. Hope lies only in fate. Distressed, Bharata urges the charioteer to drive the chariot faster.
सारांश AI भरत पिता के स्वास्थ्य पर चिंतित हैं। उन्हें बताया गया कि राजा का हृदय संतप्त है, वैद्य असमर्थ हैं, वे निराहार भूमि पर लेटे हैं। केवल दैव ही सहारा है। भरत तीव्र गति से रथ चलाने को कहते हैं।
सूतः—यदाज्ञापयत्यायुष्मान् । (रथं वाहयति)
भरतः—(रथवेगं निरूप्य) अहो नु खलु रथवेगः । एते ते---
३.२
द्रुमा धावन्तीव द्रुतरथगतिक्षीणविषया
नदीवोद्वृत्ताम्बुनिपतति मही नेमिविवरे ।
अराव्यक्तिर्नष्टा स्थितमिव जवाच्चक्रवलयं
रजश्चाश्वोद्धूतं पतति पुरतो नानुपतति ॥
Summary AI Trees seem to run due to the chariot's speed, and the earth appears to fall into the wheel-rims like overflowing river water. The spokes are invisible; the spinning wheels seem stationary due to velocity. The dust raised by the horses falls ahead of them rather than following behind.
सारांश AI रथ की तीव्र गति से वृक्ष भागते हुए, धरती गर्त जैसी और पहियों के अरों की पहचान लुप्त लगती है। घोड़ों द्वारा उड़ाई गई धूल रथ के पीछे नहीं बल्कि वेग के कारण आगे गिर रही है।
सूतः—आयुष्मन् सोपस्नेहतया वृक्षाणामभितः खल्वयोध्यया भवितव्यम् ।
भरतः—अहो नु खलु स्वजनदर्शनोत्सुकस्य त्वरता मे मनसः । सम्प्रति हि,
३.३
पतितमिव शिरः पितुः पादयोः स्निह्यतेवास्मि राज्ञा समुत्थापितः त्वरितमुपगता इव भ्रातरः क्लेदयन्तीव मामश्रुभिर्मातरः । सदृश इति महानिति व्यायतश्चेति भृत्यैरिवाहं स्तुतः सेवया परिहसितमिवात्मनस्तत्र पश्यामि वेशं च भाषां च सौमित्रिणा ॥
Summary AI Bharata imagines falling at his father's feet and being raised with affection. He envisions his brothers approaching and his mothers drenching him with tears. He feels praised by servants for his resemblance and stature, yet feels his attire and speech might be mocked by Saumitri.
सारांश AI भरत पिता के चरणों में गिरने, भाइयों के मिलन और माताओं के अश्रुओं की कल्पना करते हैं, किंतु लक्ष्मण के वेश और भाषा के परिवर्तन की आशंका उन्हें उपहास जैसी प्रतीत होती है।
सूतः—(आत्मगतम्) भोः कष्टं यदयमविज्ञाय महाराजविनाशमुदर्के निष्फलामाशां परिवहन्नयोध्यां प्रवेक्ष्यति कुमारः । जानद्भिरप्यस्माभिर्न निवेद्यते । कुतः---
३.४
पितुः प्राणपरित्यागं मातुरैश्वर्यलुब्धताम् ।
ज्येष्ठभ्रातुः प्रवासं च त्रीन् दोषान् कोऽभिधास्यति ॥
Summary AI Bharata laments the heavy burden of news. Who will speak of these three calamities: the father’s death, the mother’s greed for power, and the eldest brother’s exile?
सारांश AI पिता की मृत्यु, माता का राज्य-लोभ और ज्येष्ठ भ्राता का वनवास—इन तीन भयंकर दोषों का वर्णन कौन करने का साहस करेगा?
(प्रविश्य)
भटः—जयतु कुमारः ।
भरतः—भद्र ! किं शत्रुघ्नो मामभिगतः ।
भटः—अभिगतः खलु वर्तते कुमारः । उपाध्यायास्तु भवन्तमाहुः---
भरतः—किमिति किमिति ।
भटः—एकनाडिकावशेषः कृत्तिकाविषयः । तस्मात् प्रतिपन्नायामेव रोहिण्यामयोध्यां प्रवेक्ष्यति कुमारः ।
भरतः—बाढमेवम् । न मया गुरुवचनमतिक्रान्तपूर्वम् । गच्छ त्वम् ।
भटः—यदाज्ञापयति कुमारः । (निष्क्रान्तः)
भरतः—अथ कस्मिन् प्रदेशे विश्रमिष्ये । भवतु, दृष्टम् । एतस्मिन् वृक्षान्तराविष्कृते देवकुले मुहूर्तं विश्रमिष्ये । तदुभयं भविष्यति---दैवतपूजा विश्रमश्च । अथ च उपोपविश्य प्रवेष्टव्यानि नगराणीति सत्समुदाचारः । तस्मात् स्थाप्यतां रथः ।
सूतः—यदाज्ञापयत्यायुष्मान् । (रथं स्थापयति)
भरतः—(रथादवतीर्य) सूत ! एकान्ते विश्रामयाश्वान् ।
सूतः—यदाज्ञापयत्यायुष्मान् । (निष्क्रान्तः)
भरतः—(किञ्चिद् गत्वावलोक्य) साधुमुक्तपुष्पलाजाविष्कृता बलयः, दत्तचन्दनपञ्चाङ्गुला भित्तयः, अवसक्तमाल्यदामशोभीनि द्वाराणि, प्रकीर्णा वालुकाः । किं नु खलु पार्वणोऽयं विशेषः, अथवा आह्निकमास्तिक्यम् । कस्य नु खलु दैवतस्य स्थानं भविष्यति । नेह किञ्चित् प्रहरणं ध्वजो वा बहिश्चिह्नं दृश्यते । भवतु, प्रविश्य ज्ञास्ये । (प्रविश्यावलोक्य) अहो क्रियामाधुर्यं पाषाणानाम् । अहो भावगतिराकृतीनाम् । दैवतोद्दिष्टानामपि मानुषविश्वासतासां प्रतिमानाम् । किं नु खलु चतुर्दैवतोऽयं स्तोमः । अथवा यानि तानि भवन्तु । अस्ति तावन्मे मनसि प्रहर्षः ।
३.५
कामं दैवतमित्येव युक्तं नमयितुं शिरः ।
वार्षलस्तु प्रणामः स्यादमन्त्रार्चितदैवतः ॥
Summary AI It is indeed appropriate to bow one's head before a deity. However, a salutation offered to a deity that has not been properly consecrated with sacred mantras is considered low or unworthy.
सारांश AI देवताओं को नमन करना उचित है, किंतु मंत्रों के बिना किया गया यह प्रणाम किसी साधारण व्यक्ति की शुष्क पूजा के समान होगा।
(प्रविश्य)
देवकुलिकः—भो ! नैत्यकावसानप्राणिधर्ममनुतिष्ठति मयि को नु खल्वयमासां प्रतिमानामल्पान्तराकृतिरिव प्रतिमागृहं प्रविष्टः । भवतु, प्रविश्य ज्ञास्ये । (प्रविशति)
भरतः—नमोऽस्तु ।
देवकुलिकः—न खलु न खलु प्रणामः कार्यः ।
भरतः—मा तावद् भोः !
३.६
वक्तव्यं किञ्चिदस्मासु विशिष्टः प्रतिपाल्यते ।
किंकृतः प्रतिषेधोऽयं नियमप्रभविष्णुता ॥
Summary AI Something needs to be said; we are waiting for a distinguished person. Why is there a prohibition against entry? It is due to the authority of a religious observance.
सारांश AI भरत पूछते हैं कि हमें यहाँ क्यों रोका जा रहा है? किसकी प्रतीक्षा की जा रही है? यह प्रवेश का निषेध किसी नियम की शक्ति के कारण है या कुछ और?
देवकुलिकः—न खल्वेतैः कारणैः प्रतिषेधयामि भवन्तम् । किन्तु दैवतशङ्कया ब्राह्मणजनस्य प्रणामं परिहरामि । क्षत्रिया ह्यत्रभवन्तः ।
भरतः—एवम् । क्षत्रिया ह्यत्रभवन्तः । अथ के नामात्रभवन्तः ।
देवकुलिकः—इक्ष्वाकवः ।
भरतः—(सहर्षम्) इक्ष्वाकव इति । एते तेऽयोध्याभर्तारः ।
३.७
एते ते दैवतानामसुरपुरवधे गच्छन्त्यभिसरी-
मेते ते शक्रलोके सपुरजनपदा यान्ति स्वसुकृतैः ।
एते ते प्राप्नुवन्तः स्वभुजबलजितां कृत्स्नां वसुमती-
मेते ते मृत्युना ये चिरमनवसिताश्छन्दं मृगयता ॥
Summary AI These are the kings who aided gods in destroying demon cities and ascended to Indra's realm with their subjects through merit. These conquered the entire earth with their own prowess and were long spared by Death, who waited for their consent.
सारांश AI ये उन इक्ष्वाकु राजाओं की प्रतिमाएँ हैं जिन्होंने असुरों के विरुद्ध देवताओं की सहायता की, पुण्य कर्मों से स्वर्ग प्राप्त किया, पूरी पृथ्वी को जीता और अंततः काल के अधीन हुए।
भरतः—भोः ! यदृच्छया खलु मया महत् फलमासादितम् । अभिधीयतां कस्तावदत्रभवान् ।
देवकुलिकः—अयं खलु तावत् सन्निहितसर्वरत्नस्य विश्वजितो यज्ञस्य प्रवर्तयिता प्रज्वलितधर्मप्रदीपो दिलीपः ।
भरतः—नमोऽस्तु धर्मपरायणाय । अभिधीयतां कस्तावदत्रभवान् ।
देवकुलिकः—अयं खलु तावत् संवेशनोत्थापनयोरनेकब्राह्मणजनसहस्रप्रयुक्तपुण्याहशब्दरवो रघुः ।
भरतः—अहो बलवान् मृत्युरेतामपि रक्षामतिक्रान्तः । नमोऽस्तु ब्राह्मणजनविदितराज्यफलाय । अभिधीयतां कस्तावदत्रभवान् ।
देवकुलिकः—अयं खलु तावत् प्रियावियोगनिर्वेदपरित्यक्तराज्यभारो नित्यावभृथस्नानप्रशान्तरजा अजः ।
भरतः—नमोऽस्तु श्लाघनीयपश्चात्तापाय । (दशरथस्य प्रतिमामवलोकयन् पर्याकुलो भूत्वा) भोः ! बहुमानव्याक्षिप्तेन मनसा सुव्यक्तं नावधारितम् । अभिधीयतां कस्तावदत्रभवान् ।
देवकुलिकः—अयं दिलीपः ।
भरतः—पितृपितामहो महाराजस्य । ततस्ततः ।
देवकुलिकः—अत्रभवान् रघुः ।
भरतः—पितामहो महाराजस्य । ततस्ततः ।
देवकुलिकः—अत्रभवानजः ।
भरतः—पिता तातस्य । किमिति किमिति ।
देवकुलिकः—अयं दिलीपः, अयं रघुः, अयमजः ।
भरतः—भवन्तं किञ्चित् पृच्छामि । धरमाणानामपि प्रतिमाः स्थाप्यन्ते ।
देवकुलिकः—न खलु, अतिक्रान्तानामेव ।
भरतः—तेन ह्यापृच्छे भवन्तम् ।
देवकुलिकः—तिष्ठ ।
३.८
येन प्राणाश्च राज्यं च स्त्रीशुल्कार्थे विसर्जिताः ।
इमां दशरथस्य त्वं प्रतिमां किं न पृच्छसे ॥
Summary AI Why do you not inquire about this statue of Daśaratha, the one who sacrificed both his life and his kingdom for the sake of a woman’s marriage-portion?
सारांश AI देवकुलिक भरत से पूछता है कि वह दशरथ की इस प्रतिमा के बारे में क्यों नहीं पूछते, जिन्होंने अपनी पत्नी के शुल्क के लिए अपने प्राण और राज्य त्याग दिए?
भरतः—हा तात । (मूर्च्छितः पतति । पुनः प्रत्यागत्य)
३.९
हृदय भव सकामं यत्कृते शङ्कसे त्वं
शृणु पितृनिधनं तद् गच्छ धैर्यं च तावत् ।
स्पृशति तु यदि नीचो मामयं शुल्कशब्द-
स्त्वथ च भवति सत्यं तत्र देहो विशोध्यः ॥
Summary AI O heart, let your fears be fulfilled! Hear of my father's death and find courage. If this base word 'bride-price' touches me and proves true, then this body must be purified or relinquished.
सारांश AI भरत अपने हृदय को समझाते हैं कि जिस अनिष्ट की शंका थी, वही हुआ। पिता के निधन का समाचार सुनकर धैर्य रखो। यदि इस कलंक का कारण मैं हूँ, तो मुझे प्रायश्चित करना होगा।
भरतः—आर्य !
देवकुलिकः—आर्येति इक्ष्वाकुकुलालापः खल्वयम् । कच्चित् कैकेयीपुत्रो भरतो भवान् ननु ।
भरतः—अथ किमथ किम् । दशरथपुत्रो भरतोऽस्मि न कैकेय्याः ।
देवकुलिकः—तेन ह्यापृच्छे भवन्तम् ।
भरतः—तिष्ठ । शेषमभिधीयताम् ।
देवकुलिकः—का गतिः । श्रूयताम् । उपरतस्तत्रभवान् दशरथः । सीतालक्ष्मणसहायस्य रामस्य वनगमनप्रयोजनं न जाने ।
भरतः—कथं कथम्, आर्योऽपि वनं गतः । (द्विगुणं मोहमुपगतः)
देवकुलिकः—कुमार ! समाश्वसिहि समाश्वसिहि ।
भरतः—(समाश्वस्य)
३.१०
अयोध्यामटवीभूतां पित्रा भ्रात्रा च वर्जिताम् ।
पिपासार्तोऽनुधावामि क्षीणतोयां नदीमिव ॥
Summary AI I run toward Ayodhyā, which has become like a wilderness bereft of my father and brother, just as a thirsty man runs toward a river that has run dry.
सारांश AI पिता और भाई के बिना अयोध्या अब एक निर्जन वन के समान है। मैं प्यास से व्याकुल मनुष्य की तरह उस सूखी हुई नदी की ओर दौड़ रहा हूँ जहाँ अब जल नहीं बचा।
भरतः—आर्य ! विस्तरश्रवणं मे मनसः स्थैर्यमुत्पादयति । तत् सर्वमनवशेषमभिधीयताम् ।
देवकुलिकः—श्रूयतां, तत्रभवता राज्ञाभिषिच्यमाने तत्रभवति रामे भवतो जनन्याभिहितं किल ।
भरतः—तिष्ठ ।
३.११
तं स्मृत्वा शुल्कदोषं भवतु मम सुतो राजेत्यभिहितं
तद्धैर्येणाश्वसत्या व्रज सुत वनमित्यार्योऽप्यभिहितः ।
तं दृष्ट्वा बद्धचीरं निधनमसदृशं राजा ननु गतः
पात्यन्ते धिक्प्रलापा ननु मयि सदृशाः शेषाः प्रकृतिभिः ॥
Summary AI Recalling the demand of the bride-price—'Let my son be king'—the noble one was told to go to the forest by one who could not bear it even with courage. Seeing him clad in bark, the King met an unworthy death. Reproaches are hurled at me, while others are deemed fit by the subjects.
सारांश AI भरत विलाप करते हैं कि शुल्क के लोभ में राजा ने मुझे राज्य दिया और राम वन चले गए। राम को वल्कल में देख पिता ने प्राण त्याग दिए। अब प्रजा का धिक्कार मुझ पर ही गिरेगा।
(मोहमुपगतः)
(नेपथ्ये)
उस्सरह अय्या ! उस्सरह । [उत्सरतार्याः ! उत्सरत ।]
देवकुलिकः—(विलोक्य) अये,
३.१२
काले खल्वागता देव्यः पुत्रे मोहमुपागते ।
हस्तस्पर्शो हि मातॄणामजलस्य जलाञ्जलिः ॥
Summary AI The queens have indeed arrived at the right time, as the son has fallen into a swoon. Truly, the touch of mothers' hands is like a libation of water offered to one who lacks it.
सारांश AI पुत्र के मूर्छित होने पर माताओं का आगमन सही समय पर हुआ है। माताओं के हाथों का स्पर्श प्यासे के लिए शीतल जल की अंजलि के समान शांतिदायक और जीवन देने वाला होता है।
(ततः प्रविशन्ति देव्यः सुमन्त्रश्च)
सुमन्त्रः—इत इतो भवत्यः ।
३.१३
इदं गृहं तत् प्रतिमानृपस्य नः
समुच्छ्रयो यस्य स हर्म्यदुर्लभः ।
अयन्त्रितैरप्रतिहारिकागतै-
र्विना प्रणामं पथिकैरुपास्यते ॥
Summary AI This is the house of our statue-king, whose height is rarely seen in palaces. It is visited by travelers who enter unrestrained without doorkeepers and offer no formal salutation.
सारांश AI यह हमारे राजाओं का भव्य प्रतिमा-गृह है। यहाँ बिना किसी रोक-टोक या द्वारपाल के, साधारण यात्री भी आ सकते हैं और बिना औपचारिक प्रणाम किए दिवंगत राजाओं के दर्शन कर सकते हैं।
सुमन्त्रः—(प्रविश्यावलोक्य) भवत्यः ! न खलु न खलु प्रवेष्टव्यम् ।
३.१४
अयं हि पतितः कोऽपि वयस्थ इव पार्थिवः ।
परशङ्कामलं कर्तुं गृह्यतां भरतो ह्ययम् ॥
Summary AI Here is someone fallen who looks like a young king. To dispel the doubts of others, let this indeed be recognized as Bharata.
सारांश AI भूमि पर गिरे हुए इस युवक का तेज किसी राजा के समान है। संदेह दूर करने के लिए इसे भरत ही समझना चाहिए, जो शोकवश संज्ञाहीन पड़े हैं।
(निष्क्रान्तः)
देव्यः—(सहसोपगम्य) हा जाद ! भरद ! [हा जात ! भरत !]
भरतः—(किञ्चित्समाश्वस्य) आर्य---
सुमन्त्रः—जयतु महा--- (इत्यर्धोक्ते सविषादम्) अहो स्वरसादृश्यम् । मन्ये प्रतिमास्थो महाराजो व्याहरतीति ।
भरतः—अथ मातॄणामिदानीं कावस्था ।
देव्यः—जाद ! एसा णो अवत्था । (अवगुण्ठनमपनयन्ति) [जात ! एषा नोऽवस्था ।]
सुमन्त्रः—भवत्यः ! निगृह्यतामुत्कण्ठा ।
भरतः—(सुमन्त्रं विलोक्य) सर्वसमुदाचारसन्निकर्षस्तु मां सूचयति । कच्चित् तात ! सुमन्त्रो भवान् ननु ।
सुमन्त्रः—कुमार ! अथ किम् । सुमन्त्रोऽस्मि ।
३.१५
अन्वास्यमानश्चिरजीवदोषैः
कृतघ्नभावेन विडम्ब्यमानः ।
अहं हि तस्मिन् नृपतौ विपन्ने
जीवामि शून्यस्य रथस्य सूतः ॥
Summary AI Beset by the curse of long life and mocked by the feeling of ingratitude, I live on after that King has perished, like the charioteer of an empty chariot.
सारांश AI सुमंत्र कहते हैं कि राजा के न रहने पर मैं अभागा और कृतघ्न बनकर अब भी जीवित हूँ। मेरी स्थिति एक खाली रथ को हाँकने वाले उस सारथी जैसी है जिसका स्वामी चला गया हो।
भरतः—हा तात ! (उत्थाय) तात ! अभिवादनक्रममुपदेष्टुमिच्छामि मातॄणाम् ।
सुमन्त्रः—बाढम् । इयं तत्रभवतो रामस्य जननी देवी कौसल्या ।
भरतः—अम्ब अनपराद्धोऽहमभिवादये ।
कौसल्या—जाद । णिस्संदावो होहि । [जात ! निःसंतापो भव ।]
भरतः—(आत्मगतम्) आक्रुष्ट इवास्म्यनेन । (प्रकाशम्) अनुगृहीतोऽस्मि । ततस्ततः ।
सुमन्त्रः—इयं तत्रभवतो लक्ष्मणस्य जननी देवी सुमित्रा ।
भरतः—अम्ब ! लक्ष्मणेन अतिसन्धितोऽहमभिवादये ।
सुमित्रा—जाद ! जसोभाई होहि । [जात ! यशोभागी भव ।]
भरतः—अम्ब ! इदं प्रयतिष्ये । अनुगृहीतोऽस्मि । ततस्ततः ।
सुमन्त्रः—इयं ते जननी ।
भरतः—(सरोषमुत्थाय) आः पापे !
३.१६
मम मातुश्च मातुश्च मध्यस्था त्वं न शोभसे ।
गङ्गायमुनयोर्मध्ये कुनदीव प्रवेशिता ॥
Summary AI Standing between my mother and my other mother, you do not look beautiful; you are like a foul stream forced between the Gaṅgā and the Yamunā.
सारांश AI भरत कैकेयी को धिक्कारते हुए कहते हैं कि कौशल्या और सुमित्रा जैसी पवित्र माताओं के बीच तुम वैसी ही अशोभनीय लगती हो, जैसे गंगा-यमुना के पवित्र संगम में कोई दूषित नदी मिला दी गई हो।
कैकेयी—जाद । किं मए किदं । [जात ! किं मया कृतम् ।]
भरतः—किं कृतमिति वदसि ।
३.१७
वयमयशसा चीरेणार्यो नृपो गृहमृत्युना
प्रततरुदितैः कृत्स्नायोध्या मृगैः सह लक्ष्मणः ।
दयिततनयाः शोकेनाम्बाः स्नुषाध्वपरिश्रमै-
र्धिगिति वचसा चोग्रेणात्मा त्वया ननु योजिता ॥
Summary AI You have joined us with infamy, the noble Rāma with bark garments, the King with death at home, all Ayodhyā with constant weeping, Lakṣmaṇa with wild beasts, the mothers with grief for beloved sons, the daughter-in-law with the toil of the road, and yourself with the harsh word 'Fie!'
सारांश AI भरत कहते हैं कि तुमने सबको दुख दिया—हमें अपयश, राम को वनवास, राजा को मृत्यु, अयोध्या को शोक, लक्ष्मण को कष्ट और माताओं को रुदन। तुमने स्वयं को केवल धिक्कार का पात्र बनाया है।
कौसल्या—जाद ! सव्वसमुदाआरमज्झत्थो किं ण वन्दसि मादरं । [जात ! सर्वसमुदाचारमध्यस्थः किं न वन्दसे मातरम् ।]
भरतः—मातरमिति । अम्ब ! त्वमेव मे माता । अम्ब ! अभिवादये ।
कौसल्या—णहि णहि ! इअं दे जणणी । [नहि नहि । इयं ते जननी ।]
भरतः—आसीत् पुरा । न त्विदानीम् । पश्यतु भवती,
३.१८
त्यक्त्वा स्नेहं शीलसंक्रान्तदोषैः
पुत्रास्तावन्नन्वपुत्राः क्रियन्ते ।
लोकेऽपूर्वं स्थापयाम्येष धर्मं
भर्तृद्रोहादस्तु माताप्यमाता ॥
Summary AI By abandoning affection through flaws transferred to their character, sons are indeed made non-sons. I establish this unprecedented law in the world: due to treachery against her husband, even a mother shall be considered a non-mother.
सारांश AI स्नेह का त्याग कर पुत्रों को अपुत्र बनाने वाली माता के प्रति मैं नया धर्म स्थापित करता हूँ कि पति के साथ द्रोह करने वाली स्त्री माता कहलाने के योग्य नहीं रहती।
कैकेयी—जाद ! महाराअस्स सच्चवअणं रक्खन्तीए मए तह उत्तं । [जात ! महाराजस्य सत्यवचनं रक्षन्त्या मया तथोक्तम् ।]
भरतः—किमिति किमिति ।
कैकेयी—पुत्तओ मे राजा होदु त्ति । [पुत्रको मे राजा भवत्विति ।]
भरतः—अथ स इदानीमार्योऽपि भवत्याः कः ।
३.१९
पितुर्मे नौरसः पुत्रो न क्रमेणाभिषिच्यते ।
दयिता भ्रातरो न स्युः प्रकृतीनां न रोचते ॥
Summary AI He is not my father's legitimate son; he is not consecrated in the proper order. Let him not have beloved brothers. This is not pleasing to the subjects.
सारांश AI पिता का ज्येष्ठ पुत्र क्रमानुसार राजा नहीं बना, प्रिय भाई साथ नहीं हैं और प्रजा भी इस व्यवस्था से अप्रसन्न है। यह सब नियम विरुद्ध और अन्यायपूर्ण हुआ है।
कैकेयी—जाद ! सुक्कलुद्धा णणु पुच्छिदव्वा । [जात ! शुल्कलुब्धा ननु प्रष्टव्या ।]
३.२०
वल्कलैर्हृतराज्यश्रीः पदातिः सह भार्यया ।
वनवासं त्वयाज्ञप्तः शुल्केऽप्येतदुदाहृतम् ॥
Summary AI The noble one, his royal glory stripped away by bark garments, was ordered by you to go into forest exile on foot with his wife. Was this also stipulated in the marriage-portion?
सारांश AI राम की राजलक्ष्मी छीनकर उन्हें पत्नी सहित पैदल ही वनवास भेज दिया गया। तुमने उस शुल्क के नाम पर ही उन्हें वल्कल धारण करने और वन जाने को विवश किया।
कैकेयी—जाद ! देसकाले णिवेदेमि । [जात ! देशकाले निवेदयामि ।]
३.२१
अयशसि यदि लोभः कीर्तयित्वा किमस्मान्
किमु नृपफलतर्षः किं नरेन्द्रो न दद्यात् अथ ।
तु नृपतिमातेत्येष शब्दस्तवेष्टो वद्-
अतु भवति सत्यं किं तवार्यो न पुत्रः ॥
Summary AI If you desire infamy, why involve us by naming us? If you craved the fruits of kingship, would the King not have granted them? But if the title 'Mother of the King' is what you desire, then tell the truth: is the noble Rāma not your son?
सारांश AI यदि आपको अपयश का ही लोभ था, तो हमें कलंकित क्यों किया? यदि राज्य का लोभ था, तो क्या राजा दशरथ उसे नहीं देते? और यदि आपको 'राजा की माता' कहलाना प्रिय था, तो सच बताइए, क्या आर्य राम आपके पुत्र नहीं हैं?
भरतः—कष्टं कृतं भवत्या---
३.२२
त्वया राज्यैषिण्या नृपतिरसुभिर्नैव गणितः
सुतं ज्येष्ठं च त्वं व्रज वनमिति प्रेषितवती ।
न शीर्णं यद् दृष्ट्वा जनकतनयां वल्कलवती-
महो धात्रा सृष्टं भवति हृदयं वज्रकठिनम् ॥
Summary AI Desiring the kingdom, you disregarded the King's life and sent your eldest son to the forest. Since it did not shatter upon seeing the daughter of Janaka clad in bark garments, alas, the Creator must have fashioned your heart as hard as a diamond.
सारांश AI राज्य की इच्छा में आपने महाराज के प्राणों की चिंता नहीं की और ज्येष्ठ पुत्र को वन भेज दिया। वल्कल वस्त्र पहने सीता को देखकर भी जो विदीर्ण नहीं हुआ, वह आपका हृदय विधाता ने निश्चित ही वज्र के समान कठोर बनाया है।
सुमन्त्रः—कुमार ! एतौ वसिष्ठवामदेवौ सह प्रकृतिभिरभिषेकं पुरस्कृत्य भवन्तं प्रत्युद्गतौ विज्ञापयतः ।
३.२३
गोपहीना यथा गावो विलयं यान्त्यपालिताः ।
एवं नृपतिहीना हि विलयं यान्ति वै प्रजाः ॥
Summary AI Just as unprotected cows perish when they are without a cowherd, so do the subjects certainly perish when they are without a king.
सारांश AI जिस प्रकार चरवाहे के बिना गाएँ रक्षित न होने के कारण नष्ट हो जाती हैं, उसी प्रकार राजा के बिना प्रजा विनाश को प्राप्त हो जाती है।
भरतः—अनुगच्छन्तु मां प्रकृतयः ।
सुमन्त्रः—अभिषेकं विसृज्य क्व भवान् यास्यति ।
भरतः—अभिषेकमिति । इहात्रभवत्यै प्रदीयताम् ।
सुमन्त्रः—क्व भवान् यास्यति ।
३.२४
तत्र यास्यामि यत्रासौ वर्तते लक्ष्मणप्रियः ।
नायोध्या तं विनायोध्या सायोध्या यत्र राघवः ॥
Summary AI I shall go where that beloved of Lakṣmaṇa resides. Without him, Ayodhyā is no longer Ayodhyā; wherever the descendant of Raghu dwells, that indeed is Ayodhyā.
सारांश AI मैं वहीं जाऊँगा जहाँ लक्ष्मण के प्रिय श्री राम विराजमान हैं। उनके बिना अयोध्या, अयोध्या नहीं है; जहाँ राघव हैं, वास्तव में वही अयोध्या है।
(निष्क्रान्ताः सर्वे)
इति तृतीयोऽङ्कः ।
॥ इति तृतीयोऽङ्कः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.