अस्ति हस्तिनापुरे विलासो नाम रजकः । तस्य गर्दभोतिभारवहनाद् दुर्बलो मुमूर्षुरिवाभवत् । ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यकसमीपे सस्यक्षेत्रे विमुक्तः । ततो दूरात् तम् अवलोक्य व्याघ्रबुद्ध्या क्षेत्रपतयः सत्वरं पलायन्ते । अथैकदा केनापि सस्यरक्षकेण धूसरकम्बलकृततनुत्राणेन धनुष्काण्डं सज्जीकृत्यानतकायेनैकान्ते स्थितम् । तं च दूराद् दृष्ट्वा गर्दभः पुष्टाङ्गो येथेष्टसस्यभक्षणजातबलो गर्दभोयम् इति मत्वोच्चैः शब्दं कुर्वाणस्तद्अभिमुखं धावितः । ततस्तेन सस्यरक्षकेण चीत्कारशब्दाद् गर्दभोयम् इति निश्चित्य, लीलयैव व्यापादितः । अतोहं ब्रवीमिसुचिरं हि चरन् नित्यम् इत्य् आदि । दीर्घमुखो ब्रूतेततः पश्चात् तैः पक्षिभिरुक्तम्रे पापा दुष्टबक ! अस्माकं भूमौ चरन्न् अस्माकं स्वामिनम् अधिक्षिपसि । तन् न क्षन्तव्यम् इदानीम् । इत्य् उक्त्वा सर्वे मां चञ्चुभिर्हत्वा, सकोपा ऊचुःपश्य रे मूर्ख ! स हंसस्तव राजा सर्वथा मृदुः । तस्य राज्याधिकारो नास्ति । यत एकान्तमृदुः करतलस्थम् अप्यर्थं रक्षितुम् अक्षमः । स कथं पृथिवीं शास्ति राज्यं वा तस्य किम् त्वं च कूपमण्डूकः । तेन तद्आश्रयम् उपदिशसि । शृणु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.