एकत्र वृक्षे काकवर्तुकौ सुखं निवसतः । एकदा भगवतो गरुडस्य यात्राप्रसङ्गेन सर्वे पक्षिणः समुद्रतीरं गताः । ततः काकेन सह वर्तकश्चलितः । अथ गच्छतो गोपालस्य मस्तकावस्थितदधिभाण्डाद् वारं वारं तेन काकेन दधि खाद्यते । ततो यावद् असौ दधिभाण्डं भूमौ निधायोर्ध्वम् अवलोकते, तावत् तेन काकवर्तकौ दृष्टौ । ततस्तेन दृष्टः काकः पलायितः । वर्तकः स्वभावनिरपराधो मन्दगतिस्तेन प्राप्तो व्यापादितः । अतोहं ब्रवीमिन गन्तव्यम् इत्य् आदि । ततो मयोक्तम्भ्रातः शुक ! किम् एवं ब्रवीषि मां प्रति यथा श्रीमद्देवपादास्तथा भवान् अपि । शुकेनोक्तम्स्त्व् एवम् । किन्तु,
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.