अहं पुरा शूद्रकस्य राज्ञः क्रीडासरसि कर्पूरकेलिनाम्नो राजहंसस्य पुत्र्या कर्पूरमञ्जर्या सहानुरागवान् अभवम् । वीरवरो नाम राजपुत्रः कुतश्चिद् देशाद् आगत्य राजद्वारम् उपगम्य प्रतीहारम् उवाचहं तावद् वर्तनार्थी राजपुत्रः । मां रजदर्शनं कारय । ततस्तेनासौ राजदर्शनं कारितो ब्रूतेदेव ! यदि मया सेवकेन प्रयोजनम् अस्ति, तदास्मद्वर्तनं क्रियताम् । शूद्रक उवाच्किं ते वर्तनम् वीरवरो ब्रूतेप्रत्यहं सुवर्णपञ्चशतानि देहि । राजाह्का ते सामग्री वीरवरो ब्रूतेद्वौ बाहू । तृतीयश्च खड्गः । राजाह्नैतच् छक्यम् । तच् छ्रुत्वा वीरवरः प्रणम्य चलितः । अथ मन्त्रिभिरुक्तम्देव ! दिनचतुष्टयस्य वर्तनं दत्त्वा ज्ञायताम् अस्य स्वरूपम् । किम् उपयुक्तोयम् एतावद् वर्तनं गृह्णाति अनुपयुक्तो वेति । ततो मन्त्रिवचनाद् आहुहूय वीरवराय ताम्बूलं दत्त्वा पञ्चशतानि सुवर्णानि दत्तानि । वर्तनविनियोगश्च राज्ञा सुनिभृतं निरूपितः । तद्अर्धं वीरवरेण देवेभ्यो ब्राह्मणेभ्यो दत्तम् । स्थितस्यार्धं दुःखितेभ्यः । तद् अवशिष्टं भोज्यविलासव्ययेन । एतत् सर्वं नित्यकृत्यं कृत्वा, राजद्वारम् अहर्निशं खड्गपाणिः सेवते । यदा च राजा स्वयं समादिशति तदा स्वगृहम् अपि याति । अथैकदा कृष्णचतुर्दश्यां रात्रौ स राजा सकरुणक्रन्दनध्वनिं शुश्राव । तत् श्रुत्वा राजा ब्रूतेकः कोत्र द्वारि तिष्ठति तदा तेनोक्तंदेव ! अहं वीरवरः । राजोवाच्क्रन्दनानुसरणं क्रियताम् । वीरवरोपियथाज्ञापयति देवः, इत्य् उक्त्वा चलितः । राज्ञा च चिन्तितम्यम् एकाकी राजपुत्रो मया सूचीभेद्ये तमसि प्रहितः । नैतद् उचितम् । तद् अहम् अपि गत्वा किम् एतद् इति निरूपयामि । ततो राजापि खड्गम् आदाय तद्अनुसरणक्रमेण नगराद् बहिर्निर्जगाम । गत्वा च वीरवरेण रुदती रुपयौवनसम्पन्ना सर्वालङ्कारभूषिता काचित् स्त्री दृष्टा, पृष्टा च्का त्वम् किम् अर्थं रोदिषि इति । स्त्रियोक्तम्हम् एतस्य शूद्रकस्य राजलक्ष्मीः । चिराद् एतस्य भुजच्छायायां महता सुखेन विश्रान्ता । इदानीम् अन्यत्र गमिष्यामि । वीरवरो ब्रूतेयतापायः सम्भवति, तत्रोपायोप्यस्ति । तत् कथं स्यात् पुनरिहावासो भवत्याः लक्ष्मीरुवाच्यदि त्वम् आत्मनः पुत्रं शक्तिधरं द्वात्रिंशल्लक्षणोपेतं भगवत्याः सर्वमङ्गलाया उपहारीकरोषि, तदाहं पुनरत्र सुचिरं निवसामि । इत्य् उक्त्वादृश्याभवत् । ततो वीरवरेण स्वगृहं गत्वा निद्रायमाणा स्ववधूः प्रबोधिता पुत्रश्च । तौ निद्रां परित्यज्योत्थायोपविष्टौ । वीरवरस्तत् सर्वं लक्ष्मीवचनम् उक्तवान् । तच् छ्रुत्वा सानन्दः शक्तिधरो ब्रूतेधन्योहम् एवम्भूतः । स्वामिराज्यरक्षार्थं यस्योपयोगः । तात ! तत् कोधुना विलम्बस्य हेतुः एवंविधे कर्मणि देहस्य विनियोगः श्लाघ्यः । यतः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.