अस्ति वाराणस्यां कर्पूरपटको नाम रजकः । स रात्रौ गाढनिद्रायां प्रसुप्तः । तद्अनन्तरं तद्गृहद्रव्याणि हर्तुं चौरः प्रविष्टः । तस्य प्राङ्गणे गर्दभो बद्धस्तिष्ठति । कुक्कुरश्चोपविष्टोस्ति । अथ गर्दभः श्वानम् आह्सखे ! भवतस्तावद् अयं व्यापारः । तत् किम् इति त्वम् उच्चैः शब्दं कृत्वा स्वामिनं न जागरयसि । कुक्कुरो ब्रूतेभद्र ! मम नियोगस्य चर्चा त्वया न कर्तव्या । त्वम् एव किं न जानासि यथा तस्याहर्निशं गृहरक्षां करोमि । यतोयं चिरान् निर्वृतो ममोपयोगं न जानाति । तेनाधुनापि ममाहारदाने मन्दादरः । यतो विना विधुरदर्शनं स्वामिन उपजीविषु मन्दादरा भवन्ति । गर्दभो ब्रूतेशृणु रे बर्बर !
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.