ततः कृच्छ्रेण स्वामिवचनात्मा तत्रैव प्रसूता । एतत् सर्वं श्रुत्वा समुद्रेणापि यच् छक्तिज्ञानार्थं तद्अण्डान्य् अवहृतानि । ततष् टिट्टिभी शोकार्ता भर्तारम् आह्नाथ ! कष्टम् आपतितम् । तान्य् अण्डानि मे नष्टानि । टिट्टिभोवदत्प्रिये ! मा भैषीः इत्य् उक्त्वा पक्षिणां मेलकं कृत्वा पक्षिस्वामिनो गरुडस्य समीपं गतः । तत्र गत्वा सकलवृत्तान्तं टिट्टिभेन भगवतो गरुडस्य पुरतो निवेदितम्देव, समुद्रेणाहं स्वगृहावस्थितो विनापराधनेनैव निगृहीतः । ततस्तद्वचनम् आकर्ण्य गरुत्मना प्रभुर्भगवान् नारायणः सृष्टिस्थितिप्रलयहेतुर्विज्ञप्तः । स समुद्रम् अण्डदानायादिदेश । ततो भगवद्आज्ञां मौलौ निधाय समुद्रेण तान्य् अण्डानि टिट्टिभाय समर्पितानि । अतोहं ब्रवीमिङ्गाङ्गिभावम् अज्ञात्वा इत्य् आदि । राजाह्कथम् असौ ज्ञातव्यो द्रोहबुद्धिरिति । दमनको ब्रूतेयदासौ सदर्पः शृङ्गाग्रप्रहरणाभिमुखश्चकितम् इवागच्छति तदा ज्ञास्यति स्वामी । एवम् उक्त्वा संजीवकसमीपं गतः । तत्र गतश्च मन्दं मन्दम् उपसर्पन् विस्मितम् इवात्मानम् अदर्शयत् । संजीवकेन सादरम् उक्तम्भद्र ! कुशलं ते । दमनको ब्रूतेनुजीविनां कुतः कुशलम् । यतः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.