तन्मन्दं मन्दं गच्छामि । ततः सिंहोपि क्षुधापीडितः कोपात् तम् उवाच्कुतस्त्वं विलम्ब्य समागतोसि । शशकोब्रवीत्देव ! नाहम् अपराधी । आगच्छन् पथि सिंहान्तरेण बलाद् धृतः । तस्याग्रे पुनरागमनाय शपथं कृत्वा स्वामिनं निवेदयितुम् अत्रागतोसिम् । सिंहः सकोपम् आह्सत्वरं गत्वा दुरात्मानं दर्शय । क्व स दुरात्मा तिष्ठति । ततः शशकस्तं गृहीत्वा गभीरकूपं दर्शयितुं गतः । तत्रागत्य स्वयम् एव पश्यतु स्वामीत्य् उक्त्वा तस्मिन् कूपजले तस्य सिंहस्यैव प्रतिबिम्बं दर्शितवान् । ततोसौ क्रोधाध्मातो दर्पात् तस्योपर्य् आत्मानं निक्षिप्य पञ्चत्वं गतः । अतोहं ब्रवीमि बुद्धिर्यस्य इत्य् आदि । वायस्य् आह्श्रुतं मया सर्वम् । सम्प्रति यथा कर्तव्यं ब्रूहि । वायसोऽवदत्त्रासन्ने सरसि राजपुत्रः प्रत्यहम् आगत्य स्नाति । स्नानसमये मद्अङ्गाद् अवतारितं तीर्थशिलानिहितं कनकसूत्रं चञ्च्वा विधृत्यानीयास्मिन् कोटरे धारयिष्यसि । अथ कदाचित् स्नातुं जलं प्रविष्टे राजपुत्रे वायस्या तद्अनुष्ठितम् । अथ कनकसूत्रानुसरणप्रवृत्तै राजपुरुषैस्तत्र तरुकोटरे कृष्णसर्पो दृष्टो व्यापादितश्च । अतोहं ब्रवीमिुपायेन हि यच् छक्यम् इतेन हि यच् छक्यम् इत्य् आदि । करटको ब्रूतेयद्य् एवं तर्हि गच्छ । शिवास्ते सन्तु पन्थानः । ततो दमनकः पिङ्गलकसमीपं गत्वा प्रणम्योवाच्देव ! आत्यन्तिकं किम् अपि महाभयकारि कार्यं मन्यमानः समागतोस्मि । यतः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.