अस्ति मन्दरनाम्नि पर्वते दुर्दान्तो नाम सिंहः । स च सर्वदा पशूनां वधं कुर्वन्न् आस्ते । ततः सर्वैः पशुभिर्मिलित्वा स सिंहो विज्ञप्तःमृगेन्द्र ! किम् अर्थम् एकदा बहुपशुघातः क्रियते । यदि प्रसादो भवति तदा वयम् एव भवद्आहाराय प्रत्यहम् एकैकं पशुम् उपढौकयामः । ततः सिंहेनोक्तम्यद्य् एतद् अभिमतं भवतां तर्हि भवतु तत् । ततःप्रभृत्य् एकैकं पशुम् उपकल्पितं भक्षयन्न् आस्ते । अथ कदाचिद् वृद्धशशकस्य वारः समायातः । सोचिन्तयत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.