अस्ति मगधदेशे चम्पकवती नाम अरण्यानी । तस्यां चिरात् महता स्नेहेन मृगकाकौ निवसतः । स च मृगः स्वेच्छया भ्राम्यन् हृष्टपुष्टाङ्गः केनचित् शृगालेनावलोकितः । तं दृष्ट्वा शृगालोचिन्तयत् ! कथम् एतन्मांसं सुललितं भक्षयामि भवतु, विश्वासं तावद् उत्पादयामि इत्य् आलोच्य उपसृत्याब्रवीत्मित्र ! कुशलं ते मृगेणोक्तम्कस्त्वम् स ब्रूतेक्षुद्रबुद्धिनामा जम्बुकोहम् । अत्रारण्ये बन्धुहीनो मृतवत् एकाकी निवसामि । इदानीं त्वां मित्रम् आसाद्य पुनः सबन्धुर्जीवलोकं प्रविष्टोस्मि । अधुना तवानुचरेण मया सर्वथा भवितव्यम् इति । मृगेणोक्तमेवम् अस्तु । ततः पश्चाद् अस्तं गते सवितरि भगवति मरीचिमालिनि तौ मृगस्य वासभूमिं गतौ । तत्र चम्पकवृक्षशाखायां सुबुद्धिनामा काको मृगस्य चिरमित्रं निवसति । तौ दृष्ट्वा काकोवदत्सखे चित्राङ्ग ! कोयं द्वितीयः मृगो ब्रूतेमित्र ! अकस्माद् आगन्तुना सह मैत्री न युक्ता । तन् न भद्रम् आचरितम् । तथा चोक्तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.