अस्ति ब्रह्मारण्ये कर्प्ूरतिलको नाम हस्ती । तम् अवलोक्य सर्वे शृगालाश्चिन्तयन्ति स्म । यद्य् अयं केनाप्य् उपायेन मिर्यते, तदास्माकम् एतेन देहेन मासचतुष्टयस्य स्वेच्छाभोजनं भवेत् । ततस्तन्मध्याद् एकेन वृद्धशृगालेन प्रतिज्ञा कृता । मया बुद्धिप्रभावाद् अस्य मरणं साधयितव्यम् । अनन्तरं स वञ्चकः कर्पूरतिलकसमीपं गत्वा साष्टाङ्गपातं प्रणम्योवाच्देव ! दृष्टिप्रसादं कुरु । हस्ती ब्रूतेकस्त्वम् कुतः समायातः सोऽवदत्जम्बुकोहं सर्वैर्वनवासिभिः पशुभिर्मिलित्वा भवत्सकाशं प्रस्थापितः । यद् विना राज्ञा स्थातुं न युक्तम् । तद् अत्राटवीराज्येभिषेक्तुं भवान् सर्वस्वामिगुणोपेतो निरूपितः । यतः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.