तद् अत्र भवता स्वगृहनिर्विशेषेण स्थीयताम् । तच् छ्रुत्वा मृगः सानन्दो भूत्वा कृतस्वेच्छाहारः पानीयं पीत्वा जलासन्नवटतरुच्छायायाम् उपविष्टः । अथ मन्थरो ब्रूतेसखे मृग ! केन त्रासितोसि अस्मिन् निर्जने वने कदाचित् किं व्याधाः सञ्चरन्ति मृगेणोक्तम्स्ति कलिङ्गविषये रुक्माङ्गदो नाम नृपतिः । स च दिग्विजयव्यापारक्रमेण आगत्य चन्द्रभागानदीतीरे समावेशितकटको वर्तते, प्रातश्च तेनात्रागत्य कर्पूरसरः समीपे भवितव्यम् इति व्याधानां मुखात् किंवदन्ती श्रूयते । तद् अत्रापि प्रातर्अवस्थानं भयहेतुकम् इत्य् आलोच्य यथा कार्यं तथा आरभ्यताम् । तच् छ्रुत्वा कूर्मः सभयम् आह्मित्र ! जलाशयान्तरं गच्छामि । काकमृगावपि उक्तवन्तौमित्र ! एवम् अस्तु ! हिरण्यको विमृश्याब्रवीत्पुनर्जलाशये प्राप्ते मन्थरस्य कुशलम् । स्थले गच्छतोस्य का विधा
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.