वायसोऽवदत्सखे ! मन्थर ! सविशेषपूजाम् असमि विधेहि, यतोयं पुण्यकर्मणां धुरीणः कारुण्यरत्नाकरो हिरण्यकनामा मूषिकराजः । एतस्य गुणस्तुतिं जिह्वासहस्रद्वयेनापि यदि सर्पराजः कदाचित् कर्तुं समर्थः स्यात् इत्य् उक्त्वा चित्रग्रीवोपाख्यानं वर्णितवान् । ततो मन्थरः सादरं हिरण्यकं सम्पूज्याह्भद्र ! आत्मनो निर्जनवनागमनकारणम् आख्यातुम् अर्हसि हिरण्यकोवदत्कथयामि, श्रूयताम् ।
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.