कौसल्या—(उत्सङ्गे गृहीत्वा । चिबुकमुन्नमय्य निरूप्य सबाष्पाकूतम्) जात! इतोऽपि तावदेहि । 'अहो! न केवलं दरविस्पष्टकुवलयमांसलोज्ज्वलेन देहबन्धनेन, कवलितारविन्दकेसरकषायकण्ठकलहंसघोषघर्घरानुनादिना स्वरेण च रामभद्रमनुसरति । ननु कठोरकमलगर्भपक्ष्मलशरीरस्पर्शोऽपि तादृश एव । जात! पश्यामि ते मुखपुण्डरीकम् । राजर्षे । किं न पश्यसि । निपुणं निरूप्यमाणो वत्साया मे वध्वा मुखचन्द्रेणापि संवदत्येव ।
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.