सीता—सखि वासन्ति! किं त्वया कृतमार्यपुत्रस्य मम चैतद् दर्शयन्त्या । हा धिक्! हा धिक्! स एवार्यपुत्रः, सैव प्रियसखी वासन्ती, त एव विविधविस्त्रम्भसाक्षिणो गोदावरीकाननोद्देशाः, त एव जातनिर्विशेषा मृगपक्षिपादपाः, सैव चाहम् । मम पुनर्मन्दभाग्याया दृश्यमानमपि सर्वमेवैतन्नास्तीति । तदीदृशो जीवलोकस्य परिवर्तः ।
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.