शम्बूकः—जयतु जयतु देवः । देव! भगवानगस्त्यो मत्तः श्रुतभवत्सन्निधानस्त्वामाह । परिकल्पितविमानावतरणमङ्गला प्रतीक्षते वत्सला लोपामुद्रा सर्वे च महर्षयः । तदेहि सम्भावयास्मान् । अथ प्रजविना पुष्पकेण स्वदेशमुपगम्याश्वमेधाय सज्जो भविष्यसीति ।
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.