॥ अथ षष्ठोऽङ्कः ॥
(ततः प्रविशति काञ्चुकीयः)
काञ्चुकीयः—क इह भोः ! काञ्चनतोरणद्वारमशून्यं कुरुते ।
(प्रविश्य)
प्रतीहारी—अय्य ! अहं विजआ । किं करीअदु । [आर्य ! अहं विजया । किं क्रियताम् ।]
काञ्चुकीयः—भवति ! निवेद्यतां निवेद्यतां वत्सराज्यलाभप्रवृद्धोदयायोदयनाय — एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः, तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च, प्रतीहारमुपस्थिताविति ।
प्रतीहारी—अय्य ! अदेसकालो पडिहारस्स । [आर्य ! अदेशकालः प्रतिहारस्य ।]
काञ्चुकीयः—कथमदेशकालो नाम ।
प्रतीहारी—सुणादु अय्यो । अज्ज भट्टिणो सुय्यामुहप्पासादगदेण केण वि वीणा वादिदा । तं च सुणिअ भट्टिणा भणिअं 'घोसवदीए सद्दो विअ सुणीअदि' त्ति । [शृणोत्वार्यः । अद्य भर्तुः सूर्यामुखप्रासादगतेन केनापि वीणा वादिता । तां च श्रुत्वा भर्त्रा भणितं 'घोषवत्याः शब्द इव श्रूयते' इति ।]
काञ्चुकीयः—ततस्ततः ।
प्रतीहारी—तदो तहिं गच्छिअ पुच्छिदो 'कदो इमाए वीणाए आगमो' त्ति । तेण भणिअं 'अह्मेहिं णम्मदातीरे कुय्यगुम्मलग्गा दिट्ठा । जइ प्पओअणं इमाए, उवणीअदु भट्ठिणो' त्ति । तं च उवणीदं अङ्के करिअ मोहं गदो भट्टा । तदो मोहप्पच्चागदेण बप्फपय्याउलेण मुहेण भट्टिणा भणिअं 'दिट्ठासि घोसवदि ! सा हु ण दिस्सदि' त्ति । अय्य ! ईदिसो अणवसरो, कहं णिवेदेमि । [ततस्तत्र गत्वा पृष्टः 'कुतोऽस्या वीणाया आगमः' इति । तेन भणितम् 'अस्माभिर्नर्मदातीरे कूर्चगुल्मलग्ना दृष्टा । यदि प्रयोजनमनया, उपनीयतां भर्त्रे' इति । तां चोपनीतामङ्के कृत्वा मोहं गतो भर्ता । ततो मोहप्रत्यागतेन बाष्पपर्याकुलेन मुखेन भर्त्रा भणितं 'दृष्टासि घोषवति ! सा खलु न दृश्यते' इति । आर्य ! ईदृशोऽनवसरः, कथं निवेदयामि ।]
काञ्चुकीयः—भवति ! निवेद्यताम् । इदमपि तदाश्रयमेव ।
प्रतीहारी—अय्य ! इअं णिवेदेमि । एसो भट्टा सुय्यामुहप्पासादादो ओदरइ । ता इह एव्व णिवेदइस्सं । [आर्य ! इयं निवेदयामि । एष भर्ता सूर्यामुखप्रासादादवतरति । तदिहैव निवेदयिष्यामि ।]
काञ्चुकीयः—भवति ! तथा ।
(उभौ निष्क्रान्तौ)
मिश्रविष्कम्भकः ।
(ततः प्रविशति राजा विदूषकश्च)
६.१
श्रुतिसुखनिनदे कथं नु देव्याः
स्तनयुगले जघनस्थले च सुप्ता ।
विहगगणरजोविकीर्णदण्डा
प्रतिभयमध्युषितास्यरण्यवासम् ॥
Summary AI O you of sweet sounds! How is it that after resting on the Queen's breasts and lap, you now endure a terrifying dwelling in this forest, your frame covered with the dust and droppings of birds?
सारांश AI हे मधुर स्वर वाली वीणा! तुम कभी देवी वासवदत्ता के वक्ष और गोद में विश्राम करती थी, किंतु अब पक्षियों की धूल से धूसरित होकर इस भयानक जंगल में कैसे रह रही हो?
राजा—अपि च, अस्निग्धासि घोषवति ! या तपस्विन्या न स्मरसि,
६.२
श्रोणीसमुद्वहनपार्श्वनिपीडितानि
खेदस्तनान्तरसुखान्युपगूहितानि ।
उद्दिश्य मां च विरहे परिदेवितानि
वाद्यान्तरेषु कथितानि च सस्मितानि ॥
Summary AI I remember the tight embraces when you were pressed against her hips, the comforts of resting between her breasts when she was weary, her laments for me during separation, and her smiling words during the pauses in her playing.
सारांश AI वीणा वादन के समय देवी की गोद का दबाव, स्तनों का सुखद स्पर्श, विरह में मेरे लिए उनका विलाप और गीतों के बीच उनकी मंद मुस्कान मुझे याद आ रही है।
विदूषकः—अलं दाणि भवं अदिमत्तं सन्तप्पिअ । [अलमिदानीं भवानतिमात्रं सन्तप्य ।]
राजा—वयस्य ! मा मैवं,
६.३
चिरप्रसुप्तः कामो मे वीणया प्रतिबोधितः ।
तां तु देवीं न पश्यामि यस्या घोषवती प्रिया ॥
Summary AI My long-dormant love has been awakened by this lute; but I do not see that Queen to whom Ghoṣavatī was so dear.
सारांश AI इस घोषवती वीणा ने मेरे हृदय में सोये हुए प्रेम को पुनः जगा दिया है, किंतु मैं उस देवी को नहीं देख पा रहा हूँ जिसे यह वीणा अत्यंत प्रिय थी।
राजा—वसन्तक ! शिल्पिजनसकाशान्नवयोगां घोषवतीं कृत्वा शीघ्रमानय ।
विदूषकः—जं भवं आणवेदि । (वीणां गृहीत्वा निष्क्रान्तः) [यद् भवानाज्ञापयति । (वीणां गृहीत्वा निष्क्रान्तः)]
(प्रविश्य)
प्रतीहारी—जेदु भट्टा । एसो खु महासेणस्स सआसादो रम्भसगोत्तो कञ्चुईओ देवीए अङ्गारवदीए पेसिदा अय्या वसुन्धरा णाम वासवदत्ताधत्ती अ पडिहारं उवट्ठिदा । [जयतु भर्ता । एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयो देव्याऽङ्गारवत्या प्रेषिता आर्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारमुपस्थितौ ।]
राजा—तेन हि पद्मावती तावदाहूयताम् ।
प्रतीहारी—जं भट्टा आणवेदि । (निष्क्रान्ता) [यद् भर्ताज्ञापयति । (निष्क्रान्ता)]
राजा—किन्नु खलु शीघ्रमिदानीमयं वृत्तान्तो महासेनेन विदितः ।
(ततः प्रविशति पद्मावती प्रतीहारी च)
प्रतीहारी—एदु एदु भट्टिदारिआ । [एत्वेतु भर्तृदारिका ।]
पद्मावती—जेदु अय्यउत्तो । [जयत्वार्यपुत्रः ।]
राजा—पद्मावति ! किं श्रुतं महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः, तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च, प्रतिहारमुपस्थिताविति ।
पद्मावती—अय्यउत्त ! पिअं मे ञादिकुलस्स कुसलवुत्तन्तं सोदुं । [आर्यपुत्र ! प्रियं मे ज्ञातिकुलस्य कुशलवृत्तान्तं श्रोतुम् ।]
राजा—अनुरूपमेतद् भवत्याभिहितं — 'वासवदत्तास्वजनो मे स्वजनः' इति । पद्मावति ! आस्यताम् । किमिदानीं नास्यते ।
पद्मावती—अय्यउत्त ! किं मए सह उवविट्ठो एदं जणं पेक्खिस्ससि । [आर्यपुत्र ! किं मया सहोपविष्ट एतं जनं प्रेक्षिष्यसे ।]
राजा—कोऽत्र दोषः ।
पद्मावती—अय्यउत्तस्स अवरो परिग्गहो त्ति उदासीणं विअ होदि । [आर्यपुत्रस्यापरः परिग्रह इत्युदासीनमिव भवति ।]
राजा—कलत्रदर्शनार्हं जनं कलत्रदर्शनात् परिहरतीति बहुदोषमुत्पादयति । तस्मादास्यताम् ।
पद्मावती—जं अय्यउत्तो आणवेदि । (उपविश्य) अय्यउत्त ! तादो वा अम्बा वा किं णु खु भणिस्सदि त्ति आविग्गा विअ संवुत्ता । [यदार्यपुत्र आज्ञापयति । (उपविश्य) आर्यपुत्र ! तातो वाम्बा वा किं नु खलु भणिष्यतीत्यविग्नेव संवृत्ता ।]
राजा—पद्मावति ! एवमेतत् ।
६.४
किं वक्ष्यतीति हृदयं परिशङ्कितं मे
कन्या मयाप्यपहृता न च रक्षिता सा ।
भाग्यैश्चलैर्महदवाप्तगुणोपघातः
पुत्रः पितुर्जनितरोष इवास्मि भीतः ॥
Summary AI My heart is anxious, wondering what he will say; for I abducted his daughter but failed to protect her. Stripped of my great virtues by fickle fortune, I am as terrified as a son who has provoked his father's wrath.
सारांश AI मेरा हृदय आशंकित है कि महाराज महासेन क्या कहेंगे। मैंने उनकी पुत्री का अपहरण किया और उसकी रक्षा भी नहीं कर सका। मैं उस पुत्र के समान भयभीत हूँ जिसने पिता का क्रोध मोल लिया हो।
पद्मावती—ण किं सक्कं रक्खिदुं पत्तकाले । [न किं शक्यं रक्षितुं प्राप्तकाले ।]
प्रतीहारी—एसो कञ्चुईओ धत्ती अ पडिहारं उवट्ठिदा । [एष काञ्चुकीयो धात्री च प्रतिहारमुपस्थितौ ।]
राजा—शीघ्रं प्रवेश्यताम् ।
प्रतीहारी—जं भट्टा आणवेदि । (निष्क्रान्ता) [यद् भर्ताज्ञापयति । (निष्क्रान्ता)]
(ततः प्रविशति काञ्चुकीयो धात्री प्रतीहारी च)
काञ्चुकीयः—भोः !
६.५
सम्बन्धिराज्यमिदमेत्य महान् प्रहर्षः
स्मृत्वा पुनर्नृपसुतानिधनं विषादः ।
किं नाम दैव भवता न कृतं यदि स्याद्
राज्यं परैरपहृतं कुशलं च देव्याः ॥
Summary AI Arriving at this relative's kingdom brings great joy, yet remembering the princess's death brings sorrow. O Fate! If only the kingdom had been seized by enemies while the Queen remained safe, what would you not have accomplished?
सारांश AI शत्रु से राज्य वापस पाकर मुझे हर्ष है, किंतु वासवदत्ता की मृत्यु के स्मरण से गहरा विषाद है। हे भाग्य! यदि राज्य शत्रुओं के पास ही रहता और देवी सुरक्षित होती, तो वह श्रेष्ठ होता।
प्रतीहारी—एसो भट्टा, उवसप्पदु अय्यो । [एष भर्ता, उपसर्पत्वार्यः ।]
काञ्चुकीयः—(उपेत्य) जयत्वार्यपुत्रः ।
धात्री—जेदु भट्टा । [जयतु भर्ता ।]
राजा—(सबहुमानम्) आर्य !
६.६
पृथिव्यां राजवंश्यानामुदयास्तमयप्रभुः ।
अपि राजा स कुशली मया काङ्क्षितबान्धवः ॥
Summary AI Is that King well—he who controls the rise and fall of royal dynasties on this earth, and whose kinship I have desired?
सारांश AI पृथ्वी के राजवंशों के उत्थान और पतन के साक्षी, राजा महासेन कुशल तो हैं? मैंने सदैव उनसे पारिवारिक संबंध की इच्छा रखी है।
काञ्चुकीयः—अथ किम् । कुशली महासेनः । इहापि सर्वगतं कुशलं पृच्छति ।
राजा—(आसनादुत्थाय) किमाज्ञापयति महासेनः ।
काञ्चुकीयः—सदृशमेतद् वैदेहीपुत्रस्य । नन्वासनस्थेनैव भवता श्रोतव्यो महासेनस्य सन्देशः ।
राजा—यदाज्ञापयति महासेनः । (उपविशति)
काञ्चुकीयः—दिष्ट्या परैरपहृतं राज्यं पुनः प्रत्यानीतमिति । कुतः,
६.७
कातरा येऽप्यशक्ता वा नोत्साहस्तेषु जायते ।
प्रायेण हि नरेन्द्रश्रीः सोत्साहैरेव भुज्यते ॥
Summary AI Energy is never born in those who are cowardly or weak. Generally, the fortune of kings is enjoyed only by those possessed of vigor.
सारांश AI कायर और असमर्थ लोगों में उत्साह नहीं होता। राजलक्ष्मी का आनंद प्रायः साहसी और निरंतर प्रयत्नशील रहने वाले व्यक्ति ही प्राप्त करते हैं।
राजा—आर्य ! सर्वमेतन्महासेनस्य प्रभावः । कुतः,
६.८
अहमवजितः पूर्वं तावत् सुतैः सह लालितो
दृढमपहृता कन्या भूयो मया न च रक्षिता ।
निधनमपि च श्रुत्वा तस्यास्तथैव मयि स्वता
ननु यदुचितान् वत्सान् प्राप्तुं नृपोऽत्र हि कारणम् ॥
Summary AI Though I was defeated, he cherished me like his own sons. I abducted his daughter and failed to protect her; yet even after her death, his affection for me remains the same. Surely, the King is the reason I have regained my rightful Vatsa kingdom.
सारांश AI महाराज महासेन ने पराजित होने पर भी मुझे पुत्रवत पाला। मैंने उनकी पुत्री खो दी, फिर भी उन्होंने मुझे अपना माना। वत्सों का राज्य पुनः प्राप्त करने में वही मुख्य कारण हैं।
काञ्चुकीयः—एष महासेनस्य सन्देशः । देव्याः सन्देशमिहात्रभवती कथयिष्यति ।
राजा—हा अम्ब !
६.९
षोडशान्तःपुरज्येष्ठा पुण्या नगरदेवता ।
मम प्रवासदुःखार्ता माता कुशलिनी ननु ॥
Summary AI Is my mother well—she who is the eldest among the sixteen ladies of the inner court, the holy tutelary deity of the city, and who was pained by my exile?
सारांश AI अंतःपुर की रानियों में श्रेष्ठ, नगर की देवी के समान पवित्र और मेरे दुःख से दुखी होने वाली माता अंगारवती कुशल तो हैं?
धात्री—अरोआ भट्टिणी भट्टारं सव्वगदं कुसलं पुच्छदि । [अरोगा भर्त्री भर्तारं सर्वगतं कुशलं पृच्छति ।]
राजा—सर्वगतं कुशलमिति । अम्ब ! ईदृशं कुशलम् ।
धात्री—मा दाणिं भट्टा अदिमत्तं सन्तप्पिदुं । [मेदानीं भर्तातिमात्रं सन्तप्तुम् ।]
काञ्चुकीयः—धारयत्वार्यपुत्रः । उपरताप्यनुपरता महासेनपुत्री एवमनुकम्प्यमानार्यपुत्रेण । अथवा,
६.१०
कः कं शक्तो रक्षितुं मृत्युकाले
रज्जुच्छेदे के घटं धारयन्ति ।
एवं लोकस्तुल्यधर्मो वनानां
काले काले छिद्यते रुह्यते च ॥
Summary AI Who can protect whom when the time of death arrives? When the rope breaks, who can hold the water-pot? In this way, the world shares the nature of forests; it is cut down and it grows again in due time.
सारांश AI मृत्यु के समय कौन किसकी रक्षा कर सकता है? रस्सी टूट जाने पर घड़े को गिरने से कौन बचा सकता है? यह संसार वनों के समान है, जहाँ समय के साथ सब कुछ नष्ट होता है और पुनः उत्पन्न होता है।
राजा—आर्य ! मा मैवं,
६.११
महासेनस्य दुहिता शिष्या देवी च मे प्रिया ।
कथं सा न मया शक्या स्मर्तुं देहान्तरेष्वपि ॥
Summary AI She was Mahāsena's daughter, my pupil, and my beloved Queen. How could I ever fail to remember her, even in other lives?
सारांश AI राजा महासेन की पुत्री, मेरी प्रिय शिष्या और पत्नी वासवदत्ता को मैं अन्य जन्मों में भी भला कैसे भूल सकता हूँ?
धात्री—आह भट्टिणी 'उवरदा वासवदत्ता । मम वा महासेणस्स वा जादिसा गोवालअपालआ, तादिसो एव्व तुमं पुढमं एव्व अभिप्पेदो जामादुअ त्ति । एदण्णिमित्तं उज्जइणिं आणीदो । अणग्गिसक्खिअं वीणाववदेसेण दिण्णा । अत्तणो चवलदाए अणिव्वुत्तविवाहमङ्गलो एव्व गदो । अह अ अह्मेहिं तव अ वासवदत्ताए अ पडिकिदिं चित्तफलआए आलिहिअ विवाहो णिव्वुत्तो । एसा चित्तफलआ तव सआसं पेसिदा । एदं पेक्खिअ णिव्वुदो होहि' । [आह भर्त्री 'उपरता वासवदत्ता । मम वा महासेनस्य वा यादृशौ गोपालकपालकौ, तादृश एव त्वं प्रथममेवाभिप्रेतो जामातृक इति । एतन्निमित्तमुज्जयिनीमानीतः । अनग्निसाक्षिकं वीणाव्यपदेशेन दत्ता । आत्मनश्चपलतया अनिर्वृत्तविवाहमङ्गल एव गतः । अथ चावाभ्यां तव च वासवदत्तायाश्च प्रतिकृतिं चित्रफलकायामालिख्य विवाहो निर्वृत्तः । एषा चित्रफलका तव सकाशं प्रेषिता । एतां प्रेक्ष्य निर्वृतो भव' ।]
राजा—अहो अतिस्निग्धमनुरूपं चाभिहितं तत्रभवत्या ।
६.१२
वाक्यमेतत् प्रियतरं राज्यलाभशतादपि ।
अपराद्धेष्वपि स्नेहो यदस्मासु न विस्मृतः ॥
Summary AI This message is dearer than the gain of a hundred kingdoms—that his affection for me has not been forgotten even though I have offended him.
सारांश AI अपराध करने पर भी हमारे प्रति उनका स्नेह बना रहा, यह जानकर मुझे सौ राज्यों की प्राप्ति से भी अधिक प्रसन्नता हो रही है।
पद्मावती—अय्यउत्त ! चित्तगदं गुरुअणं पेक्खिअ अभिवादेदुं इच्छामि । [आर्यपुत्र ! चित्रगतं गुरुजनं प्रेक्ष्याभिवादयितुमिच्छामि ।]
धात्री—पेक्खदु पेक्खदु भट्टिदारिआ । (चित्रफलकां दर्शयति) [प्रेक्षतां प्रेक्षतां भर्तृदारिका । (चित्रफलकां दर्शयति)]
पद्मावती—(दृष्ट्वा आत्मगतम्) हं अदिसदिसी खु इअं अय्याए आवन्तिआए । (प्रकाशम्) अय्यउत्त ! सदिसी खु इअं अय्याए । [(दृष्ट्वा आत्मगतम्) हम्, अतिसदृशी खल्वियमार्याया आवन्तिकायाः । (प्रकाशम्) आर्यपुत्र ! सदृशी खल्वियमार्यायाः ।]
राजा—न सदृशी । सैवेति मन्ये । भोः ! कष्टम् ।
६.१३
अस्य स्निग्धस्य वर्णस्य विपत्तिर्दारुणा कथम् ।
इदं च मुखमाधुर्यं कथं दूषितमग्निना ॥
Summary AI How could such a terrible disaster befall this lovely complexion? And how could this sweetness of face be marred by fire?
सारांश AI चित्र में अंकित इस सुंदर रूप पर ऐसी भयानक विपत्ति कैसे आई? अग्नि ने इस कोमल और मधुर मुख को कैसे झुलसा दिया?
पद्मावती—अय्यउत्तस्स पडिकिदिं पेक्खिअ जाणामि इअं अय्याए सदिसी ण वेत्ति । [आर्यपुत्रस्य प्रतिकृतिं दृष्ट्वा जानामीयमार्यया सदृशी न वेति ।]
धात्री—पेक्खदु पेक्खदु भट्टिदारिआ । [प्रेक्षतां प्रेक्षतां भर्तृदारिका ।]
पद्मावती—(दृष्ट्वा) अय्यउत्तस्स पडिकिदीए सदिसदाए जाणामि इअं अय्याए सदिसि त्ति । [(दृष्ट्वा) आर्यपुत्रस्य प्रतिकृतेः सदृशतया जानामीयमार्यया सदृशीति ।]
राजा—देवि ! चित्रदर्शनात् प्रभृति प्रहृष्टोद्विग्नामिव त्वां पश्यामि । किमिदम् ।
पद्मावती—अय्यउत्त ! इमाए पडिकिदीए सदिसी इह एव्व पडिवसदि । [आर्यपुत्र ! अस्याः प्रतिकृतेः सदृशीहैव प्रतिवसति ।]
राजा—किं वासवदत्तायाः ।
पद्मावती—आम । [आम् ।]
राजा—तेन हि शीघ्रमानीयताम् ।
पद्मावती—अय्यउत्त ! मम कण्णाभावे केणवि ब्रह्मणेण मम भइणिअ त्ति ण्णासो णिक्खित्तो । पोसिदभत्तआ परपुरुसदंसणं परिहरदि । ता अय्यं मए सह आअदं पेक्खिअ जाणादु अय्यउत्तो । [आर्यपुत्र ! मम कन्याभावे केनापि ब्राह्मणेन मम भगिनिकेति न्यासो निक्षिप्तः । प्रोषितभर्तृका परपुरुषदर्शनं परिहरति । तदार्यां मया सहागतां प्रेक्ष्य जानात्वार्यपुत्रः ।]
६.१४
यदि विप्रस्य भगिनी व्यक्तमन्या भविष्यति ।
परस्परगता लोके दृश्यते रूपतुल्यता ॥
Summary AI If she is the Brahmana's sister, she must clearly be someone else. A resemblance in form is often seen between different people in this world.
सारांश AI यदि यह इस ब्राह्मण की बहन है, तो अवश्य ही कोई अन्य स्त्री होगी। संसार में प्रायः दो व्यक्तियों के रूप में समानता देखी जाती है।
(प्रविश्य)
प्रतीहारी—जेदु भट्टा । एसो उज्जइणीओ बह्मणो, भट्टिणीए हत्थे मम भइणिअ त्ति ण्णासो णिक्खित्तो, तं पडिगहिदुं पडिहारं उवट्ठिदो । [जयतु भर्ता । एष उज्जयिनीयो ब्राह्मणः, भर्त्र्या हस्ते मम भगिनिकेति न्यासो निक्षिप्तः, तं प्रतिग्रहीतुं प्रतीहारमुपस्थितः ।]
राजा—पद्मावति ! किन्नु स ब्राह्मणः ।
पद्मावती—होदव्वं । [भवितव्यम् ।]
राजा—शीघ्रं प्रवेश्यतामभ्यन्तरसमुदाचारेण स ब्राह्मणः ।
प्रतीहारी—जं भट्टा आणवेदि । (निष्क्रान्ता) [यद् भर्ताज्ञापयति । (निष्क्रान्ता)]
राजा—पद्मावति ! त्वमपि तामानय ।
पद्मावती—जं अय्यउत्तो आणवेदि । (निष्क्रान्ता) [यदार्यपुत्र आज्ञापयति । (निष्क्रान्ता)]
(ततः प्रविशति यौगन्धरायणः प्रतीहारी च)
यौगन्धरायणः—भोः ! (आत्मगतम्)
६.१५
प्रच्छाद्य राजमहिषीं नृपतेर्हितार्थं
कामं मया कृतमिदं हितमित्यवेक्ष्य ।
सिद्धेऽपि नाम मम कर्मणि पार्थिवोऽसौ
किं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥
Summary AI I concealed the Queen for the King's welfare, acting solely because I saw it as beneficial. Although my task is accomplished, my heart is anxious about what the King will say.
सारांश AI राजा के हित के लिए रानी को छिपाकर मैंने यह कार्य किया। यद्यपि उद्देश्य सिद्ध हो गया है, फिर भी मेरा मन डरा हुआ है कि महाराज इस सत्य को जानकर क्या कहेंगे।
प्रतीहारी—एसो भट्टा । उपसप्पदु अय्यो । [एष भर्ता । उपसर्पत्वार्यः ।]
यौगन्धरायणः—(उपसृत्य) जयतु भवान् जयतु ।
राजा—श्रुतपूर्व इव स्वरः । भो ब्राह्मण ! किं भवतः स्वसा पद्मावत्या हस्ते न्यास इति निक्षिप्ता ।
यौगन्धरायणः—अथ किम् ।
राजा—तेन हि त्वर्यतां त्वर्यतामस्य भगिनिका ।
प्रतीहारी—जं भट्टा आणवेदि । (निष्क्रान्ता) [यद् भर्ताज्ञापयति । (निष्क्रान्ता)]
(ततः प्रविशति पद्मावती आवन्तिका प्रतीहारी च)
पद्मावती—एदु एदु अय्या । पिअं दे णिवेदेमि । [एत्वेत्वार्या । प्रियं ते निवेदयामि ।]
आवन्तिका—किं किं । [किं किम् ।]
पद्मावती—भादा दे आअदो । [भ्राता ते आगतः ।]
आवन्तिका—दिट्ठिआ इदाणिं पि सुमरदि । [दिष्ट्येदानीमपि स्मरति ।]
पद्मावती—(उपसृत्य) जेदु अय्यउत्तो । एसो णासो । [(उपसृत्य) जयत्वार्यपुत्रः । एषो न्यासः ।]
राजा—निर्यातय पद्मावति ! साक्षिमन्न्यासो निर्यातयितव्यः । इहात्रभवान् रैभ्यः, अत्रभवती चाधिकरणं भविष्यतः ।
पद्मावती—अय्य ! णीअदां दाणिं अय्या । [आर्य ! नीयतामिदानीमार्या ।]
धात्री—(अवन्तिकां निर्वर्ण्य) अम्मो भट्टिदारिआ वासवदत्ता । [(अवन्तिकां निर्वर्ण्य) अम्मो भर्तृदारिका वासवदत्ता ।]
राजा—कथं महासेनपुत्री । देवि ! प्रविश त्वमभ्यन्तरं पद्मावत्या सह ।
यौगन्धरायणः—न खलु न खलु प्रवेष्टव्यम् । मम भगिनी खल्वेषा ।
राजा—किं भवानाह । महासेनपुत्री खल्वेषा ।
यौगन्धरायणः—भो राजन् !
६.१६
भारतानां कुले जातो विनीतो ज्ञानवाञ्छुचिः ।
तन्नार्हसि बलाद्धर्तुं राजधर्मस्य देशिकः ॥
Summary AI Born in the family of the Bharatas, disciplined, wise, pure, and a teacher of kingly duty—you should not seek to take her by force.
सारांश AI भरतवंश में उत्पन्न, विनम्र और ज्ञानी होने के नाते आपको शोभा नहीं देता कि आप राजधर्म के विरुद्ध किसी पराई स्त्री का बलपूर्वक हरण करें।
राजा—भवतु, पश्यामस्तावद् रूपसादृश्यम् । सङ्क्षिप्यतां यवनिका ।
यौगन्धरायणः—जयतु स्वामी ।
वासवदत्ता—जेदु अय्यउत्तो । [जयत्वार्यपुत्रः ।]
राजा—अये ! असौ यौगन्धरायणः, इयं महासेनपुत्री ।
६.१७
किन्नु सत्यमिदं स्वप्नः स भूयो दृश्यते मया ।
अनयाप्येवमेवाहं दृष्ट्या वञ्चितस्तदा ॥
Summary AI Is this real, or am I seeing that dream once again? Just like this, I was deceived by my own sight back then.
सारांश AI क्या यह सत्य है या मैं पुनः स्वप्न देख रहा हूँ? पहले भी मेरी आँखों ने इसी प्रकार मुझे भ्रमित किया था।
यौगन्धरायणः—स्वामिन् ! देव्यपनयेन कृतापराधः खल्वहम् । तत् क्षन्तुमर्हति स्वामी । (इति पादयोः पतति)
राजा—(उत्थाप्य) यौगन्धरायणो भवान् ननु ।
६.१८
मिथ्योन्मादैश्च युद्धैश्च शास्त्रदृष्टैश्च मन्त्रितैः ।
भवद्यत्नैः खलु वयं मज्जमानाः समुद्धृताः ॥
Summary AI Through feigned madness, battles, and counsels guided by the scriptures, we who were sinking have surely been rescued by your efforts.
सारांश AI झूठे उन्माद, कूटनीतिक युद्धों और शास्त्रों के अनुसार बनाई गई योजनाओं के माध्यम से आप मंत्रियों ने ही हमें विपत्ति के सागर से उबारा है।
यौगन्धरायणः—स्वामिभाग्यानामनुगन्तारो वयम् ।
पद्मावती—अम्महे अय्या खु इअं । अय्ये ! सहीजणसमुदाआरेण अजाणन्तीए अदिक्कन्दो समुदाआरो । ता सीसेण पसादेमि । [अहो आर्या खल्वियम् । आर्ये ! सखीजनसमुदाचारेणाजानन्त्यातिक्रान्तः समुदाचारः । तच्छीर्षेण प्रसादयामि ।]
वासवदत्ता—(पद्मावतीमुत्थाप्य) उट्ठेहि उट्ठेहि अविहवे ! उट्ठेहि । अत्थित्तं णाम सरीरं अवरद्धइ । [(पद्मावतीमुत्थाप्य) उत्तिष्ठ उत्तिष्ठाविधवे ! उत्तिष्ठ । अर्थित्वं नाम शरीरमपराध्यति ।]
पद्मावती—अणुग्गहिदह्मि । [अनुगृहीतास्मि ।]
राजा—वयस्य यौगन्धरायण ! देव्यपनये का कृता ते बुद्धिः ।
यौगन्धरायणः—कौशाम्बीमात्रं परिपालयामीति ।
राजा—अथ पद्मावत्या हस्ते किं न्यासकारणम् ।
यौगन्धरायणः—पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति ।
राजा—इदमपि रुमण्वता ज्ञातम् ।
यौगन्धरायणः—स्वामिन् ! सर्वैरेव ज्ञातम् ।
राजा—अहो शठः खलु रुमण्वान् ।
यौगन्धरायणः—स्वामिन् ! देव्याः कुशलनिवेदनार्थमद्यैव प्रतिनिवर्ततामत्रभवान् रैभ्योऽत्रभवती च ।
राजा—न, न । सर्व एव वयं यास्यामो देव्या पद्मावत्या सह ।
यौगन्धरायणः—यदाज्ञापयति स्वामी ।
(भरतवाक्यम्)
६.१९
इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।
महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥
Summary AI May our lion-like King rule over this earth, bounded by the oceans, adorned with the Himavat and Vindhya mountains as ear-rings, and marked by a single royal umbrella.
सारांश AI समुद्र तक फैली हुई, हिमालय और विंध्य पर्वत रूपी कुण्डलों से सुशोभित इस पृथ्वी पर हमारे राजा का एकछत्र शासन सदैव बना रहे।
(निष्क्रान्ताः सर्वे)
॥ इति षष्ठोऽङ्कः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.