॥ अथ पञ्चमोऽङ्कः ॥
(ततः प्रविशति पद्मिनिका)
पद्मिनिका—महुअरिए ! महुअरिए ! आअच्छ दाव सिग्घं । [मधुकरिके ! मधुकरिके ! आगच्छ तावच्छीघ्रम् ।]
(प्रविश्य)
मधुकरिका—हला ! इअह्मि । किं करीअदु । [हला ! इयमस्मि । किं क्रियताम् ।]
पद्मिनिका—हला ! किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुक्खाविदेत्ति । [हला ! किं न जानासि त्वं भर्तृदारिका पद्मावती शीर्षवेदनया दुःखितेति ।]
मधुकरिका—हद्धि । [हा धिक् ।]
पद्मिनिका—हला ! गच्छ सिग्घं, अय्यं आवन्तिअं सद्दावेहि । केवलं भट्टिदारिआए सीसवेदणं एव्व णिवेदेहि । तदो सअं एव्व आगमिस्सदि । [हला ! गच्छ शीघ्रम्, आर्यामवन्तिकां शब्दापय । केवलं भर्तृदारिकायाः शीर्षवेदनामेव निवेदय । ततः स्वयमेवागमिष्यति ।]
मधुकरिका—हला ! किं सा करिस्सदि । [हला ! किं सा करिष्यति ।]
पद्मिनिका—सा हु दाणिं महुराहि कहाहि भट्टिदारिआए सीसवेदणं विणोदेदि । [सा खल्विदानीं मधुराभिः कथाभिर्भर्तृदारिकायाः शीर्षवेदनां विनोदयति ।]
मधुकरिका—जुज्जइ । कहिं सअणीयं रइदं भट्टिदारिआए । [युज्यते । कुत्र शयनीयं रचितं भर्तृदारिकायाः ।]
पद्मिनिका—समुद्दगिहके किल सेज्जात्थिण्णा । गच्छ दाणि तुवं । अहं वि भट्टिणो णिवेदणत्थं अय्यवसन्तअं अण्णेसामि । [समुद्रगृहके किल शय्याऽस्तीर्णा । गच्छेदानीं त्वम् । अहमपि भर्त्रे निवेदनार्थमार्यवसन्तकमन्विष्यामि ।]
मधुकरिका—एव्वं होदु । (निष्क्रान्ता) [एवं भवतु । (निष्क्रान्ता)]
पद्मिनिका—कहिं दाणिं अय्यवसन्तअं पेक्खामि । [कुत्रेदानीमार्यवसन्तकं प्रेक्षे ।]
(ततः प्रविशति विदूषकः)
विदूषकः—अज्ज खु देवीविओअविहुरहिअअस्स तत्तहोदो वच्छराअस्स पदुमावदीपाणिग्गहणसमीरिअस्स अच्चन्तसुहावहे मङ्गलोसवे मदणग्गिदाहो अहिअदरं वड्ढइ । (पद्मिनिकां विलोक्य) अयि पदुमिणिआ । पदुमिणिए ! किं इह वत्तदि । [अद्य खलु देवीवियोगविधुरहृदयस्य तत्रभवतो वत्सराजस्य पद्मावतीपाणिग्रहणसमीर्यमाणस्याप्यत्यन्तसुखावहे मङ्गलोत्सवे मदनाग्निदाहोऽधिकतरं वर्धते । (पद्मिनिकां विलोक्य) अयि पद्मिनिके ! पद्मिनिके ! किमिह वर्तते ।]
पद्मिनिका—अय्य ! वसन्तअ ! किं ण जाणासि तुवं भट्टिदारिआ पदुमावदी सीसवेदणाए दुक्खाविदेत्ति । [आर्य ! वसन्तक ! किं न जानासि त्वं भर्तृदारिका पद्मावती शीर्षवेदनया दुःखितेति ।]
विदूषकः—भोदि ! सच्चं, ण जाणामि । [भवति ! सत्यं, न जानामि ।]
पद्मिनिका—तेण हि भट्टिणो णिवेदेहि णं । जाव अहं वि सीसाणुलेवणं तुवारेमि । [तेन हि भर्त्रे निवेदयैनाम् । यावदहमपि शीर्षानुलेपनं त्वरयामि ।]
विदूषकः—कहिं सअणीअं रइदं पदुमावदीए । [कुत्र शयनीयं रचितं पद्मावत्याः ।]
पद्मिनिका—समुद्दगिहके किल सेज्जात्थिण्णा । [समुद्रगृहके किल शय्याऽस्तीर्णा ।]
विदूषकः—गच्छदु भोदी । जाव अहं वि तत्तहोदो णिवेदइस्सं । [गच्छतु भवती । यावदहमपि तत्रभवते निवेदयिष्यामि ।]
(निष्क्रान्तौ)
प्रवेशकः ।
(ततः प्रविशति राजा)
५.१
श्लाघ्यामवन्तिनृपतेः सदृशीं तनूजां
कालक्रमेण पुनरागतदारभारः ।
लावाणके हुतवहेन हृताङ्गयष्टिं
तां पद्मिनीं हिमहतामिव चिन्तयामि ॥
Summary AI Having regained the responsibility of a wife in due course of time, I think of the King of Avanti's praiseworthy and worthy daughter, whose slender body was consumed by fire in Lāvāṇaka, like a lotus plant destroyed by frost.
सारांश AI मैं अवन्ति नरेश की उस प्रशंसनीय पुत्री का चिंतन कर रहा हूँ जिसकी सुकुमार देह लावाणक की अग्नि में नष्ट हो गई। अब पुनर्विवाहित होने पर भी मुझे पाले से मारी हुई कमलिनी के समान उसी वासवदत्ता की स्मृति सता रही है।
(प्रविश्य)
विदूषकः—तुवरदु तुवरदु दाव भवं । [त्वरतां त्वरतां तावद् भवान् ।]
राजा—किमर्थम् ।
विदूषकः—तत्तहोदी पदुमावदी सीसवेदणाए दुक्खाविदा । [तत्रभवती पद्मावती शीर्षवेदनया दुःखिता ।]
राजा—कैवमाह ।
विदूषकः—पदुमिनिआए कहिदं । [पद्मिनिकया कथितम् ।]
राजा—भोः ! कष्टम् ।
५.२
रूपश्रिया समुदितां गुणतश्च युक्तां
लब्ध्वा प्रियां मम तु मन्द इवाद्य शोकः ।
पूर्वाभिघातसरुजोऽप्यनुभूतदुःखः
पद्मावतीमपि तथैव समर्थयामि ॥
Summary AI Having obtained a beloved wife endowed with beauty and virtue, my grief feels diminished today. Yet, though still aching from previous blows and having experienced sorrow, I regard Padmāvatī in that same light.
सारांश AI रूपवती और गुणवती पद्मावती को पत्नी रूप में पाकर मेरा पुराना दुख कुछ कम तो हुआ है, किन्तु फिर भी पुराने घाव की पीड़ा की तरह मैं पद्मावती के विषय में भी वैसा ही दुख अनुभव करता हूँ।
राजा—अथ कस्मिन् प्रदेशे वर्तते पद्मावती ।
विदूषकः—समुद्दगिहके किल सेज्जात्थिण्णा । [समुद्रगृहके किल शय्याऽस्तीर्णा ।]
राजा—तेन हि तस्य मार्गमादेशय ।
विदूषकः—एदु एदु भवं । (उभौ परिक्रामतः) [एत्वेतु भवान् । (उभौ परिक्रामतः)]
विदूषकः—इदं समुद्दगिहकं । पविसदु भवं । [इदं समुद्रगृहकम् । प्रविशतु भवान् ।]
राजा—पूर्वं प्रविश ।
विदूषकः—भो ! तह । (प्रविश्य) अविहा, चिट्ठदु चिट्ठदु दाव भवं । [भोः ! तथा । (प्रविश्य) अविधा, तिष्ठतु तिष्ठतु तावद् भवान् ।]
राजा—किमर्थम् ।
विदूषकः—एसो खु दीवप्पभावसूइदरूवो वसुधातले परिवत्तमाणो अअं काओदरो । [एष खलु दीपप्रभावसूचितरूपो वसुधातले परिवर्तमानोऽयं काकोदरः ।]
राजा—(प्रविश्यावलोक्य सस्मितम्) अहो सर्पव्यक्तिर्वैधेयस्य ।
५.३
ऋज्वायतां हि मुखतोरणलोलमालां
भ्रष्टां क्षितौ त्वमवगच्छसि मूर्ख सर्पम् ।
मन्दानिलेन निशि या परिवर्तमाना
किञ्चित् करोति भुजगस्य विचेष्टितानि ॥
Summary AI Fool! You mistake this long, straight garland fallen from the archway for a snake. Swaying in the gentle night breeze, it slightly mimics the movements of a serpent.
सारांश AI हे मूर्ख! द्वार के तोरण पर लटकी हुई इस लम्बी सीधी माला को तुम सर्प समझ रहे हो। रात्रि की मंद वायु से हिलती हुई यह माला केवल सर्प की चेष्टाओं का अनुकरण कर रही है।
विदूषकः—(निरूप्य) सुट्ठु भवं भणादि । ण हु अअं काओदरो । (प्रविश्यावलोक्य) तत्तहोदी पदुमावदी इह आअच्छिअ णिग्गदा भवे । [(निरूप्य) सुष्ठु भवान् भणति । न खल्वयं काकोदरः । (प्रविश्यावलोक्य) तत्रभवती पद्मावतीहागत्य निर्गता भवेत् ।]
राजा—वयस्य ! अनागतया भवितव्यम् ।
विदूषकः—कहं भवं जाणादि । [कथं भवान् जानाति ।]
राजा—किमत्र ज्ञेयम् । पश्य,
५.४
शय्या नावनता तथास्तृतसमा न व्याकुलप्रच्छदा
न क्लिष्टं हि शिरोपधानममलं शीर्षाभिघातौषधैः ।
रोगे दृष्टिविलोभनं जनयितुं शोभा न काचित् कृता
प्राणी प्राप्य रुजा पुनर्न शयनं शीघ्रं स्वयं मुञ्चति ॥
Summary AI The bed is not depressed, the coverings are smooth, and the clean pillow is unstained by medicines for a head injury. No decorations exist to please the eyes during illness. One does not leave their bed so quickly after being unwell.
सारांश AI यह बिस्तर कहीं से दबा हुआ नहीं है और इसकी चादर भी व्यवस्थित है। सिर के उपचार के लिए प्रयुक्त औषधियों से सिरहाना भी मैला नहीं हुआ है। यहाँ रोगी का मन बहलाने वाली कोई शोभा भी नहीं है, अतः लगता है कि रोगी यहाँ अधिक समय नहीं रहा।
विदूषकः—तेण हि इमस्सिं सय्याए मुहुत्तअं उवविसिअ तत्तहोदिं पडिवालेदु भवं । [तेन ह्यस्यां शय्यायां मुहूर्तकमुपविश्य तत्रभवतीं प्रतिपालयतु भवान् ।]
राजा—बाढम् । (उपविश्य) वयस्य ! निद्रा मां बाधते । कथ्यतां काचित् कथा ।
विदूषकः—अहं कहइस्सं । ह्ॐ त्ति करेदु अत्तभवं । [अहं कथयिष्यामि । हुमिति करोत्वत्रभवान् ।]
राजा—बाढम् ।
विदूषकः—अत्थि णअरी उज्जइणी णाम । तहिं अहिअरमणीआणि उदअह्णाणाणि वत्तन्ति किल । [अस्ति नगरी उज्जयिनी नाम । तत्राधिकरमणीयान्युदकस्नानानि वर्तन्ते किल ।]
राजा—कथमुज्जयिनी नाम ।
विदूषकः—जइ अणभिप्पेदा एसा कहा, अण्णं कहइस्सं । [यद्यनभिप्रेतैषा कथा, अन्यां कथयिष्यामि ।]
राजा—वयस्य ! न खलु नाभिप्रेतैषा कथा । किन्तु,
५.५
स्मराम्यवन्त्याधिपतेः सुतायाः
प्रस्थानकाले स्वजनं स्मरन्त्याः ।
बाष्पं प्रवृत्तं नयनान्तलग्नं
स्नेहान्ममैवोरसि पातयन्त्याः ॥
Summary AI I remember the daughter of the King of Avanti, who, thinking of her kin at her departure, let fall the tears from the corners of her eyes onto my chest out of affection.
सारांश AI मुझे अवन्तिराज की पुत्री वासवदत्ता की याद आ रही है, जिसने विदा होते समय अपने परिजनों को याद कर आँखों में आए आँसुओं को प्रेम के कारण मेरे ही वक्ष पर गिरा दिया था।
राजा—अपि च,
५.६
बहुशोऽप्युपदेशेषु यया मामीक्षमाणया ।
हस्तेन स्रस्तकोणेन कृतमाकाशवादितम् ॥
Summary AI During her lessons, even as she gazed at me, her hand, with its plectrum slipped, continued to play music in the air.
सारांश AI वीणा सीखते समय मुझे एकटक देखते रहने के कारण वासवदत्ता के हाथ से वीणा बजाने का कोना गिर जाता था और वह अनजाने में ही केवल हवा में हाथ चलाकर वीणा बजाने का अभिनय करती रहती थी।
विदूषकः—भोदु, अण्णं कहइस्सं । अत्थि णअरं बह्मदत्तं णाम । तहिं किल राआ कम्पिल्लो णाम । [भवतु, अन्यां कथयिष्यामि । अस्ति नगरं ब्रह्मदत्तं नाम । तत्र किल राजा काम्पिल्यो नाम ।]
राजा—किमिति किमिति ।
विदूषकः—(पुनस्तदेव पठति)
राजा—मूर्ख ! राजा ब्रह्मदत्तः, नगरं काम्पिल्यमित्यभिधीयताम् ।
विदूषकः—किं राआ बह्मदत्तो, णअरं कम्पिल्लं । [किं राजा ब्रह्मदत्तः, नगरं काम्पिल्यम् ।]
राजा—एवमेतत् ।
विदूषकः—तेण हि मुहुत्तअं पडिवालेदु भवं, जाव ओट्ठगअं करिस्सं । राआ बह्मदत्तो, णअरं कम्पिल्लं । (इति बहुशस्तदेव पठित्वा) इदाणिं सुणादु भवं । अयि सुत्तो अत्तभवं । अदिसीदला इअं वेला । अत्तणो पावरअं गह्णिअ आअमिस्सं । (निष्क्रान्तः) [तेन हि मुहूर्तकं प्रतिपालयतु भवान्, यावदोष्ठगतं करिष्यामि । राजा ब्रह्मदत्तः, नगरं काम्पिल्यम् । (इति बहुशस्तदेव पठित्वा) इदानीं शृणोतु भवान् । अयि सुप्तोऽत्रभवान् । अतिशीतलेयं वेला । आत्मनः प्रावारकं गृहीत्वाऽगमिष्यामि । (निष्क्रान्तः)]
(ततः प्रविशति वासवदत्ता आवन्तिकावेषेण, चेटी च)
चेटी—एदु एदु अय्या । दिढं खु भट्टिदारिआ सीसवेदणाए दुक्खाविदा । [एत्वेत्वार्या । दृढं खलु भर्तृदारिका शीर्षवेदनया दुःखिता ।]
वासवदत्ता—हद्धि, कहिं सअणीअं रइदं पदुमावदीए । [हा धिक्, कुत्र शयनीयं रचितं पद्मावत्याः ।]
चेटी—समुद्दगिहके किल सेज्जात्थिण्णा । [समुद्रगृहके किल शय्याऽस्तीर्णा ।]
वासवदत्ता—तेण हि अग्गदो याहि । [तेन ह्यग्रतो याहि ।]
(उभे परिक्रामतः)
चेटी—इदं समुद्दगिहकं । पविसदु अय्या । जाव अहं वि सीसाणुलेवणं तुवारेमि । (निष्क्रान्ता) [इदं समुद्रगृहकम् । प्रविशत्वार्या । यावदहमपि शीर्षानुलेपनं त्वरयामि । (निष्क्रान्ता)]
वासवदत्ता—अहो अकरुणा खु इस्सरा मे । विरहपय्युस्सुअस्स अय्यउत्तस्स विस्समत्थाणभूदा इअं पि णाम पदुमावदी अस्सत्था जादा । जाव पविसामि । (प्रविश्यावलोक्य) अहो परिजणस्स पमादो । अस्सत्थं पदुमावदिं केवलं दीवसहाअं करिअ परित्तजदि । इअं पदुमावदी ओसुत्ता । जाव उवविसामि । अहवा अञ्ञासणपरिग्गहेण अप्पो विअ सिणेहो पडिभादि । ता इमस्सिं सय्याए उवविसामि । (उपविश्य) किं णु खु एदाए सह उवविसन्तीए अज्ज पहलादिदं विअ मे हिअअं । दिट्ठिआ अविच्छिण्णसुहणिस्सासा । णिव्वुत्तरोआए होदव्वं । अहव एअदेससंविभाअदाए सअणीअस्स सूएदि मं आलिङ्गेहि त्ति । जाव सइस्सं । (शयनं नाटयति) [अहो अकरुणाः खल्वीश्वरा मे । विरहपर्युत्सुकस्यार्यपुत्रस्य विश्रमस्थानभूतेयमपि नाम पद्मावत्यस्वस्था जाता । यावत् प्रविशामि । (प्रविश्यावलोक्य) अहो परिजनस्य प्रमादः । अस्वस्थां पद्मावतीं केवलं दीपसहायां कृत्वा परित्यजति । इयं पद्मावत्यवसुप्ता । यावदुपविशामि । अथवान्यासनपरिग्रहेणाल्प इव स्नेहः प्रतिभाति । तदस्यां शय्यायामुपविशामि । (उपविश्य) किं नु खल्वेतया सहोपविशन्त्या अद्य प्रह्लादितमिव मे हृदयम् । दिष्ट्याविच्छिन्नसुखनिःश्वासा । निवृत्तरोगया भवितव्यम् । अथवैकदेशसंविभागतया शयनीयस्य सूचयति मामालिङ्गेति । यावच्छयिष्ये । (शयनं नाटयति)]
राजा—(स्वप्नायते) हा वासवदत्ते ।
वासवदत्ता—(सहसोत्थाय) हं अय्यउत्तो, ण हु पदुमावदी । किं णु खु दिट्ठह्मि । महन्तो खु अय्यजोअन्धराअणस्स पडिण्णाहारो मम दंसणेण णिप्फलो संवुत्तो । [(सहसोत्थाय) हम्, आर्यपुत्रः, न खलु पद्मावती । किं नु खलु दृष्टास्मि । महान् खल्वार्ययौगन्धरायणस्य प्रतिज्ञाभारो मम दर्शनेन निष्फलः संवृत्तः ।]
राजा—हा अवन्तिराजपुत्रि ।
वासवदत्ता—दिट्ठिआ सिविणाअदि खु अय्यउत्तो । ण एत्थ कोच्चि जणो । जाव मुहुत्तअं चिट्ठिअ दिट्ठिं हिअअं च तोसेमि । [दिष्ट्या स्वप्नायते खल्वार्यपुत्रः । नात्र कश्चिज्जनः । यावन्मुहूर्तकं स्थित्वा दृष्टिं हृदयं च तोषयामि ।]
राजा—हा प्रिये ! हा प्रियशिष्ये ! देहि मे प्रतिवचनम् ।
वासवदत्ता—आलवामि भट्टा ! आलवामि । [आलपामि भर्तः ! आलपामि ।]
राजा—किं कुपितासि ।
वासवदत्ता—णहि ण हि, दुक्खिदह्मि । [न हि न हि, दुःखितास्मि ।]
राजा—यद्यकुपिता, किमर्थं नालङ्कृतासि ।
वासवदत्ता—इदो वरं किं । [इतः परं किम् ।]
राजा—किं विरचिकां स्मरसि ।
वासवदत्ता—(सरोषम्) आ अवेहि, इहावि विरचिआ । [(सरोषम्) आ अपेहि, इहापि विरचिका ।]
राजा—तेन हि विरचिकार्थं भवतीं प्रसादयामि । (हस्तौ प्रसारयति)
वासवदत्ता—चिरं ठिदह्मि । को वि मं पेक्खे । ता गमिस्सं । अहव, सय्यापलम्बिअं अय्यउत्तस्स हत्थं सअणीए आरोविअ गमिस्सं । (तथा कृत्वा निष्क्रान्ता) [चिरं स्थितास्मि । कोऽपि मां प्रेक्षेत । तद् गमिष्यामि । अथवा, शय्याप्रलम्बितमार्यपुत्रस्य हस्तं शयनीये आरोप्य गमिष्यामि । (तथा कृत्वा निष्क्रान्ता)]
राजा—(सहसोत्थाय) वासवदत्ते ! तिष्ठ तिष्ठ । हा धिक् ।
५.७
निष्क्रामन् सम्भ्रमेणाहं द्वारपक्षेण ताडितः ।
ततो व्यक्तं न जानामि भूतार्थोऽयं मनोरथः ॥
Summary AI Rushing out in confusion, I was struck by the door-wing. Thus, I cannot clearly discern if this was reality or merely a wishful fantasy.
सारांश AI घबराहट में बाहर निकलते समय मैं द्वार के पल्ले से टकरा गया। अब मैं यह नहीं समझ पा रहा हूँ कि जो मैंने देखा वह वास्तविकता थी या केवल मेरा कोई प्रिय मनोरथ।
(प्रविश्य)
विदूषकः—अइ ! पडिबुद्धो अत्तभवं । [अयि ! प्रतिबुद्धोऽत्रभवान् ।]
राजा—वयस्य ! प्रियमावेदये, धरते खलु वासवदत्ता ।
विदूषकः—अविहा वासवदत्ता । कहिं वासवदत्ता । चिरा खु उवरदा वासवदत्ता । [अविधा वासवदत्ता । कुत्र वासवदत्ता । चिरात् खलूपरता वासवदत्ता ।]
राजा—वयस्य ! मा मैवं,
५.८
शय्यायामवसुप्तं मां बोधयित्वा सखे गता ।
दग्धेति ब्रुवता पूर्वं वञ्चितोऽस्मि रुमण्वता ॥
Summary AI Friend, she departed after waking me as I slept on the bed. I was previously deceived by Rumaṇvat, who told me she had been burnt.
सारांश AI हे मित्र! रुमण्वान् ने मुझे यह कहकर धोखा दिया कि वासवदत्ता जल मरी है, जबकि उसने आज शय्या पर सोए हुए मुझे जगाया और फिर चली गई।
विदूषकः—अविहा असम्भावणीअं एदं । आ ! उदअह्णाणसङ्कित्तणेण तत्तहोदिं चिन्तअन्तेण सा सिविणे दिट्ठा भवे । [अविधा असम्भावनीयमेतत् । आः ! उदकस्नानसङ्कीर्तनेन तत्रभवतीं चिन्तयता सा स्वप्ने दृष्टा भवेत् ।]
राजा—एवम् । मया स्वप्नो दृष्टः ।
५.९
यदि तावदयं स्वप्नो धन्यमप्रतिबोधनम् ।
अथायं विभ्रमो वा स्याद् विभ्रमो ह्यस्तु मे चिरम् ॥
Summary AI If this be a dream, then let me never wake. If this be an illusion, let it stay with me forever.
सारांश AI यदि यह केवल एक स्वप्न था, तो मैं कभी न जागूँ यही श्रेयस्कर है। और यदि यह मेरा कोई भ्रम है, तो यह भ्रम सदा बना रहे।
विदूषकः—भो ! वअस्स ! एदस्सिं णअरे अवन्तिसुन्दरी णाम जक्खिणी पडिवसदि । सा तुए दिट्ठा भवे । [भोः ! वयस्य ! एतस्मिन् नगरेऽवन्तिसुन्दरी नाम यक्षिणी प्रतिवसति । सा त्वया दृष्टा भवेत् ।]
राजा—न न,
५.१०
स्वप्नस्यान्ते विबुद्धेन नेत्रविप्रोषिताञ्जनम् ।
चारित्रमपि रक्षन्त्या दृष्टं दीर्घालकं मुखम् ॥
Summary AI Waking as the dream ended, I saw her face with its long tresses and eyes without collyrium, as she continued to preserve her virtuous character.
सारांश AI स्वप्न के अंत में जब मैं जागा, तो मैंने वासवदत्ता का वह मुख देखा जिसकी आँखों में अंजन नहीं था और जो लंबे केशों से युक्त था। वह अपने सतीत्व की रक्षा करती हुई विरहिणी लग रही थी।
राजा—अपि च वयस्य ! पश्य पश्य,
५.११
योऽयं सन्त्रस्तया देव्या तया बाहुर्निपीडितः ।
स्वप्नेऽप्युत्पन्नसंस्पर्शो रोमहर्षं न मुञ्चति ॥
Summary AI This arm, which was pressed by the frightened Queen, still retains the sensation of her touch from the dream and does not lose its horripilation.
सारांश AI स्वप्न में डरी हुई देवी वासवदत्ता ने मेरे जिस हाथ को जोर से पकड़ा था, उस स्पर्श से उत्पन्न रोमांच अब भी शांत नहीं हो रहा है।
विदूषकः—मा दाणिं भवं अणत्थं चिन्तिअ । एदु एदु भवं । चउस्सालं पविसामो । [मेदानीं भवाननर्थं चिन्तयित्वा । एत्वेतु भवान् । चतुःशालं प्रविशावः ।]
(प्रविश्य)
काञ्चुकीयः—जयत्वार्यपुत्रः । अस्माकं महाराजो दर्शको भवन्तमाह — एष खलु भवतोऽमात्यो रुमण्वान् महता बलसमुदयेनोपयातः खल्वारुणिमभिघातयितुम् । तथा हस्त्यश्वरथपदातीनि मामकानि विजयाङ्गानि सन्नद्धानि । तदुत्तिष्ठतु भवान् । अपि च,
५.१२
भिन्नास्ते रिपवो भवद्गुणरताः पौराः समाश्वासिताः
पार्ष्णिं यापि भवत्प्रयाणसमये तस्या विधानं कृतम् ।
यद्यत् साध्यमरिप्रमाथजननं तत्तन्मयानुष्ठितं
तीर्णा चापि बलैर्नदी त्रिपथगा वत्साश्च हस्ते तव ॥
Summary AI Your enemies are divided, and the citizens, devoted to your virtues, are consoled. The rear-guard is secured. All necessary steps to crush the enemy have been taken. The forces have crossed the Gaṅgā, and the Vatsa kingdom is now in your hands.
सारांश AI आपके शत्रु छिन्न-भिन्न हो गए हैं और प्रजा आपके पक्ष में है। युद्ध की सभी तैयारियाँ पूर्ण हैं और सेना ने गंगा पार कर ली है। अब वत्स राज्य आपके हाथ में है।
राजा—(उत्थाय) बाढम् । अयमिदानीम्,
५.१३
उपेत्य नागेन्द्रतुरङ्गकीर्णे
तमारुणिं दारुणकर्मदक्षम् ।
विकीर्णबाणोग्रतरङ्गभङ्गे
महार्णवाभे युधि नाशयामि ॥
Summary AI In a battle resembling a vast ocean, filled with great elephants and horses where the flight of arrows forms fierce waves, I shall approach and destroy that Āruṇi, who is expert in cruel deeds.
सारांश AI हाथियों, घोड़ों और बाणों की लहरों से युक्त समुद्र के समान भीषण युद्धभूमि में जाकर मैं उस क्रूर आरुणि का समूल विनाश कर दूँगा।
(निष्क्रान्ताः सर्वे)
॥ इति पञ्चमोऽङ्कः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.