२०.१३
इन्दुसुन्दरतरद्विजच्छदा
पीनवृत्तकुचमण्डलस्थया ।
कान्तदन्तशिखरैर्निबद्धया
सा रराज मणिमालया भृशम् ॥
पीनवृत्तकुचमण्डलस्थया ।
कान्तदन्तशिखरैर्निबद्धया
सा रराज मणिमालया भृशम् ॥
२०.२४
कम्पितस्फुरदरण्यराजयः
केतकीकुसुमगन्धबन्धवः ।
कीर्णमेघननववारिशीकराः
बभ्रमुर्दिशि दिशि प्रभञ्जनाः ॥
केतकीकुसुमगन्धबन्धवः ।
कीर्णमेघननववारिशीकराः
बभ्रमुर्दिशि दिशि प्रभञ्जनाः ॥
२०.३९
मेघमुक्तसततोदकच्छटा-
सात्कृतश्रवणतर्पितश्रवौ ।
तौ रतिश्रमवशान्निदद्रतु-
र्वासरेषु च विभावरीषु च ॥
सात्कृतश्रवणतर्पितश्रवौ ।
तौ रतिश्रमवशान्निदद्रतु-
र्वासरेषु च विभावरीषु च ॥
२०.५४
लङ्घिताभ्रककुदाग्रमुन्मदं
लम्बमानगलकम्बलं बभौ ।
वप्रपङ्कचितशृङ्गमण्डलं
वारितप्रतिमहोक्षमौक्षकम् ॥
लम्बमानगलकम्बलं बभौ ।
वप्रपङ्कचितशृङ्गमण्डलं
वारितप्रतिमहोक्षमौक्षकम् ॥
२०.५९
उत्पतिष्णुकुचनर्तितहारं
तायमानरशनामणिनादम् ।
उल्लसत्कनककुण्डलघृष्ट-
स्वेदबिन्दुकणिकार्द्रकपोलम् ॥
तायमानरशनामणिनादम् ।
उल्लसत्कनककुण्डलघृष्ट-
स्वेदबिन्दुकणिकार्द्रकपोलम् ॥
२०.६६
वाससा विगलताऽथ निर्दयं
सस्वजे हरिसुतं हरिस्वसा ।
आपपौ च मृदिताधरं मुखं
चुम्बितं करगृहीतकुन्तलम् ॥
सस्वजे हरिसुतं हरिस्वसा ।
आपपौ च मृदिताधरं मुखं
चुम्बितं करगृहीतकुन्तलम् ॥
२०.६७
तत्र हस्तमृदितोन्नतस्तनी-
मामृशञ्जघनमन्थपाणिना ।
स्रंसमानवसनाङ्कवर्तिनीं
माधवीमिति जगाद पाण्डवः ॥
मामृशञ्जघनमन्थपाणिना ।
स्रंसमानवसनाङ्कवर्तिनीं
माधवीमिति जगाद पाण्डवः ॥
२०.७२
मञ्जुभाषिणि मरुत्वतो दिशि
प्रोतमेचकमणीव लक्ष्मणा ।
पुण्डरीकपरिपन्थिनोऽधुना
मण्डलं कनककुण्डलायते ॥
प्रोतमेचकमणीव लक्ष्मणा ।
पुण्डरीकपरिपन्थिनोऽधुना
मण्डलं कनककुण्डलायते ॥
॥ इति विंशस्सर्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.