॥ अथ अनुरागस्थापनप्रकाशः ॥
अथ
श्रृङ्गारप्रकाशे द्वाविंशः प्रकाशः
अनुरागस्थापनप्रकाशः
इह खलु सकलसत्त्वोपकारक्षमद्वितीयाश्रमनिवासिभिश्चतुर्भिरपि वर्णैर्ब्राह्मणा— दिभिरुभयलोकसिद्धये सेव्यमानो धर्मार्थकामलक्षणस्त्रिवर्णः पुरुषार्थः।
एवमर्थं च कामं च धर्मं चाप्याचरन् नरः।
इहामुत्र च निश्शल्यमत्यन्तसुखमश्‍नुते॥ १॥
(कामसू. १.२.४९)
यथा च—
यस्य त्रिवर्गशून्यानि दिनान्यायान्ति यान्ति च।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति॥ २॥
तत्रापि धर्मार्थश्रृङ्गारयोर्हेतुभूतत्वात् कामश्रृङ्गार एव फलभूतत्वात् प्रधानम्। कामस्तु सामान्यरूपो विशेषरूपो वा सुखमेवाभिधीयते, इत्युक्तं १पुरस्तात्, इह तु उपचारात्—
सङ्कल्परमणीयस्य प्रीतिसम्भोगशोभिनः।
कुमारस्या/रुचिरस्याभिलाषस्य नाम काम इति स्मृतम्॥ ३॥
अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति॥ ४॥
(उराच. २.१७)
उक्तं च— (उराच. ६.१२, मामा. १.२७)
व्यतिषजति पदार्थानान्तरः कोऽपि हेतु— र्न खलु बहिरुपाधीन् प्रीतयः संश्रयन्ते।
विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्‍गते चन्द्रकान्तः॥ ५॥
तं च अनुराग इत्याचक्षते। ततश्च—(उराच. २.१९, ६.५)
अकिञ्चिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति।
तत् तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः॥ ६॥
१. द्र. अत्रैव पृ. १०४९
यदेव रोचते मह्यं तदेव कुरुते प्रिया।
इति वेत्ति न जानाति तत् प्रियं यत् करोति सा॥ ७॥
शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः।
विप्रलम्भोऽपि लाभाय सति प्रियसमागमे॥ ८॥
(किराता. ११.२७)
तदा रम्याण्यरम्याणि प्रियाः शल्यं तदाऽसवः।
तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा॥ ९॥
(किराता. ११.२८)
(अनुरागः –६४)
तमभिलाषादिभेदात् चतुष्षष्टिप्रकारं व्याहरन्ति। तद् यथा—
१. अभिलाषः १७. आशा ३३. मोहः ४९. दाक्षिण्यम्
२. आकाङ्क्षा १८. आशीः ३४. आकूतम् ५०. अनुग्रहः
३. अपेक्षा १९. आशंसा ३५. कुतूहलम् ५१. वात्सल्यम्
४. उत्कण्ठा २०. मनोरथः ३६. विस्मयः ५२. अनुक्रोशः
५. ईप्सा २१. आस्था ३७. रागः ५३. विश्वासः
६. लिप्सा २२. अभिनिवेशः ३८. वेगः ५४. विस्त्रम्भः
७. इच्छा २३. अनुबन्धः ३९. अध्यवसायः ५५. वशीकारः
८. वाञ्छा २४. आग्रहः ४०. व्यवसायः ५६. प्रणयः
९. तृष्णा २५. विमर्शः ४१. कामना ५७. प्राप्‍तिः
१०. लालसा २६. मनीषा ४२. वासना ५८. पर्याप्‍तिः
११. स्पृहा २७. अभिप्रायः ४३. स्मरणम् ५९. समाप्‍तिः
१२. लौल्यम् २८. पक्षपातः ४४. सङ्कल्पः ६०. अभिमानाप्‍तिः
१३. गर्धः २९. लोभः ४५. भावः ६१. स्नेहः
१४. श्रद्धा ३०. आसङ्गः ४६. हासः ६२. प्रेमा/प्रेम
१५. रुचिः ३१. अभिष्वङ्गः ४७. रतिः ६३. आह्लादः
१६. दोहदम् ३२. सक्तिः ४८. प्रीतिः ६४. निर्वृतिः, इति।
एते भेदाश्चतुष्षष्टिरनुरागस्य नामतः।
॥ इति अनुरागस्थापनप्रकाशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.