॥ अथ सम्भोग-विप्रलम्भप्रकाशः ॥
अथ
शृङ्गारप्रकाशे त्रयोविंशः प्रकाशः
सम्भोग—विप्रलम्भप्रकाशः
१सोऽवस्थाद्वितयभेदाद् द्विप्रकारः — १. सम्भोगशृङ्गारः, २. विप्रलम्भशृङ्गारश्च।
१. अभिलषणीयालिङ्गनादीनामवाप्‍तौ सम्भोगः। स चतुर्धा—
१.१. प्रथमानुरागानन्तरः
१.२. मानानन्तरः
१.३. प्रवासानन्तरः
१.४. करुणानन्तरः, इति।
२. तेषामेवानवाप्‍तौ विप्रलम्भः। सोऽपि चतुर्धा—
२.१. प्रथमानुरागः
२.२. मानः
२.३. प्रवासः
२.४. करुणः, इति। तत्र—
२.१. स्त्रीपुंसयोः परस्परमपूर्वादिदर्शनश्रवणजन्मा रुपगुणवयस्सम्पदुकारोपेक्षः तदनपेक्षो वा मनःपक्षपातविशेषः प्रथीयान् प्रथमानुरागो विप्रलम्भः।
१.१. सति चैतस्मिन् तयोरेव प्रथमसङ्गमादौ अभिलषणीयालिङ्गनादिलाभः प्रथमानुरागानन्तरः सम्भोगः।
(१.२, २.२ लुप्‍ताविव)
२.३. सत्यनुरागे देवदुर्विपाकादिजन्मा तयोः विदूरदेशवासो विप्रलम्भः।
१.३. तदभिवृद्धौ प्रवृद्धोत्कण्ठयोरेव भूयस्समागमे अभिलाषादिनिष्पत्तिः प्रवासा— नन्तरः सम्भोगः।
२.४. प्ररूढस्‍नेहयोरेकविनिपाते अन्यस्य दुःखातिरेको हृदयदारुणः करुणः विप्रलम्भः।
१.४. तयोरेवादृष्टविशेषादिसम्पदा तदुन्मज्जनजन्मा मनःप्रमोदातिशयो विशेषवान् करुणानन्तरः सम्भोगः, इति।
१. कामशृङ्गारः द्र. पृ. १०५२।
प्रथमानुरागादीनां विप्रलम्भानां तदनन्तराणां च सम्भोगानां पृथक्पृथक् चतुर्णाँ समवाये पूर्वः पूर्वो विचित्रः, परः परो रागवर्धनः, इति।
वैचिञ्ये रागवर्धनत्वे वाऽपि विप्रलम्भः सम्भोगात् सर्वतः सर्वो बलीयान् इति।
एवं नित्यान् नैमित्तिकः, सामान्याद् विशेषः, प्रकाशात् प्रच्छन्नः, कृत्रिमादकृत्रिमः,रावर्धनत्वे;
वैचिञ्ये तु अकृत्रिमात् कृत्रिमः, प्रच्छन्नात् प्रकाशः, विशेषात् सामान्यः, नित्यान्नैमित्तिको बलीयान् इति (द्र. पृ. ११६१)।
नित्यसामान्यप्रकाशकृत्रिमाणां पूर्वः रागवर्धनः, परः परो विचित्रः इति।
नैमित्तिकविशेषप्रच्छन्नाकृत्रिमाणां पूर्वः पूर्वो विचित्रः, परः परो रागवर्धनः इति।
एवं मृदोश्चाटुः, समीचोऽतिशायी, वासन्ताद् वार्षिकः, प्रासादिकान्मदजः, समयजन्मनः सम्बन्धजन्मा, (सामान्याद्) गुणगोचरः, साधारणादसाधारणः,सांसर्गिका— न्नैसर्गिकः, प्रौढाविषयाद् नवोढाविषयः, प्रोषितपतिकाविषयाद् विरहोत्कण्ठिताविषयः, स्वाङ्गनाविषयात् पराङ्गनाविषयः, सुलभाद् दुर्लभः, आहार्याद् विस्त्रम्भजः, नित्यानुकारिणो नैमित्तिकानुकारी, प्रकाशानुकारिणः, प्रच्छन्नानुतारी बलीयान् इत्यादिप्रभेदेषु क्रमेण रागवर्धनत्वेऽपि, अतिक्रमेण तु वैचिञ्ये इत्यत्रापि यथायथं योजनीयामिति।
प्राक्‍प्रपञ्चितानुरागानुरूपाश्च प्रथमानुरागमानप्रवासकरुणविप्रलम्भाः। तदानन्तर्यानुकारिणश्च तदनन्तराः सम्भोगाः, भावजन्मानुबन्धप्रकर्षानुरूपास्तदवस्थाः समृद्धयः, नायकप्रकृत्यनुरूपास्तदनुभावसम्पदः१, उत्तमत्वमुग्धत्वाद्यनुरूपाणि तेषां रामणीयकादीनि२, बलाबलानुरूपाः सम्पर्कानुगमभक्तयः३, संविधानकानुरूपास्तेषां संविदः४, सन्निकर्षविप्रकर्षप्रकर्षापकर्षवत्यो व्यतिकरप्रक्लृप्‍तयः५ इति। तत्र सम्भोगः—
(१. सम्भोगः)
१. स्वाङ्गनाविषयः ५. मध्यमाविषयः ९. प्रगल्भाविषयः
२. पराङ्गनाविषयः ६. कनिष्ठाविषयः १०. सर्व/र्वाविषयः
३. सामान्याविषयः ७. मुग्धाविषयः ११. सर्वकालविषयः
४. उत्तमाविषयः ८. मध्याविषयः १२. सर्वर्तुचर्याविषयः
इत्येवमादिरनेकप्रकारः। तत्प्रत्यनीकतया विप्रलम्भोऽपि तावत्प्रकार एव। केवलमस्य प्रथमानुरागादिषु पूर्वकालभाविता, सम्भोगस्य तु अनन्तरकालभावितेति विशेषः।
१. द्र. पृ. ११६३, २. द्र. पृ. ११६५, ३. द्र. पृ. ११६७, ४. द्र. पृ. ११६८, ५. द्र. पृ. ११७१
१.१. तत्र सम्भोगः स्वाङ्गनाविषयो यथा—(गास. १.२३)
आणासआइँ देंती, तुह सुरए हरिस-विअसिअ-कवोला।
गोसे वि ओणअमुही, अह! सेत्ति पिआं ण सद्धहिमो॥ १॥
(आज्ञाशतानि ददती तथा सुरते हर्षविकसितकपोला।
गोसर्गे/ प्रभातेऽप्यवनतमुखी अहो! सेति प्रियां न श्रद्दध्मः॥)
१.२. पराङ्गनाविषयो यथा—(गास. ४.३३)
मुह-विज्झविअ-पईवं ऊससिअ-णिरुद्ध-संकिउल्लावं।
सवह-सअ-रक्खिओ चोरिअरमिअं सुहावेइ॥ २॥
(मुखविध्मापितप्रदीपं उच्छसितनिरुद्धशङ्कितोल्लापम्।
शपथशतरक्षितोष्ठं चौरीरतं सुखयति॥)
१.३. सामान्याविषयो यथा—(किराता. ८.२)
यथायथं ताः सहिता नभश्चरैः प्रभाभिरुद्धासितशौलवीरुधः।
वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुरेकरूपताम्॥ ३॥
॥ इति सम्भोग-विप्रलम्भप्रकाशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.