अथ
श्रृङ्गारप्रकाशे त्रयोदशः प्रकाशः
रतिप्रकाशनो नाम
तत्त्वज्ञानान्निश्श्रेयसाधिगतौ मोक्षः१। तमीहमानस्य गार्हस्थ्येऽपि तदधिगमयोग्य— ताभिमानो मोक्षश्रृङ्गारः।
धर्मश्रृङ्गारे भारती वृत्तिः, पौरस्त्या प्रवृत्तिः, पाञ्चाली रीतिः, स्वकीया नायिका, धीरोदात्तश्च नायकः, इति।
अर्थश्रृङ्गारे गौडीया रीतिः, औढ्रमागधी प्रवृत्तिः, आरभटी वृत्तिः, सर्वा नायिका, धीरोद्धतश्च नायक इति।
कामश्रङ्गारे वैदर्भी रीतिः, दाक्षिणात्या प्रवृत्तिः, कैशिकी वृत्तिः सर्वा नायिका, धीरललितश्च नायक इति।
मोक्षश्रृङ्गारे लाटीया रीतिः, आवन्त्या प्रवृत्तिः, सात्त्वती वृत्तिः, स्वकीया नायिका, धीरशान्तश्च 'नायकः इति।
एतेषामपि नायकविशेषाणां चतुर्णामपि च नायिकाविशेषाणां वक्ष्यमाणोत्तमादिस्वभेदोपभेदयोगिनां यथायोगमुत्पद्यते रत्यादिः, स च विभावानुभाव— व्यभिचारिसंयोगैरभिव्यज्यते॥ तत्र—
१. रतेरभीष्टजनोपवनवरमन्दिरादय आलम्बनविभावाः। ऋतुमाल्यविलेपनादयो—ऽनुभावाः। व्यभिचारिणस्तु सम्भोगे हर्षधृतिस्मृतिमतिस्वेदरोमाञ्चगद्गदहासादयः; विप्रलम्भे ग्लानिचिन्तौत्सुक्यावेगविस्मयदैन्यासूयादयो भवन्ति।
२. प्रीतेरभीष्टरूपरसगन्धस्पर्शशब्दपुत्रमित्रादय आलम्बनविभावाः। तदुपभोग— समागमसुखस्मरणादय उद्दीपनविभावाः। सर्वेन्द्रियाणां रोमाञ्चस्वेदस्वरभेदादयो व्यभिचारिणः॥
३. हर्षस्य मनोरथलाभेष्टजनसमागमदेवगुरुभर्तृराजप्रसादादय आलम्बनविभावाः। भोजनाच्छादनादय उद्दीपनविभावाः। नयनवदनप्रसादप्रियभाषणालिङ्गनललित— ताडनादयोऽनुभावाः। हासधृतिस्मृतिमतिगर्वौत्सुक्यावेगचपलतोत्साहजडतादयो व्यभिचारिणः॥
१. प्रकाश एष पदे पदे नष्टमातृकांश: राघवे। २. द्र. पृ. ६१४ एकादशप्रकाशारम्भः।
४. रोमाञ्चस्य स्पर्शभयशीतहर्षक्रोधरोगादयः आलम्बनविभावाः। प्रिया— लिङ्गनायादर्शनादयोऽभिषेकगुणकीर्तनोपकारस्मरणादय उद्दीपनविभावाः। प्रियागात्रस्पर्शनविलोकनादयोऽनुभावाः। हासत्रासविस्मयवितर्कावेगशङ्काऽबहित्थ— व्रीडास्तम्भस्वेदवेपथुस्वरभेदादयो व्यभिचारिणः॥
५. धृतेरष्टैश्वर्यकुलरूपयौवनविद्याबलादय आलम्बनविभावाः। श्रुतविज्ञान— शौचाचारदेवगुरुभक्त्यादयः उद्दीपनविभावाः। प्राप्तविषयोपभोगाप्राप्ताननुशोचना१— दयोऽनुभावः। तृप्तिहर्षादयो व्यभिचारिणः।
६. गर्वस्य२ ऐश्वर्यकुलरूपयौवनधनविद्याबलादय आलम्बनविभावाः। भर्तृसम्भावनोत्तमादरानुरूपनारीप्रार्थनागुणप्रशंसादय उद्दीपनविभावाः। . . . . . प्रश्नोत्तरादानाभाषणोपहसनवाक्पारुष्यधर्षणाधिक्षेपव्यतिक्रमादयोऽनुभावा:। हासोत्साहक्रोधचपलतामर्षादयो व्यभिचारिभावाः॥
७. हासस्य प्रतिज्ञासंप्रलापसौख्यधाष्टर्यकुहकपरचेष्टानुकरणपौरोभाग्यादय आलम्बनविभावाः। नायकसान्निध्यादय उद्दीपनविभावाः। भजनदर्शनसन्दर्शनास्य— रागपार्श्वग्रहणादयोऽनुभावाः। स्मितहसितविहसितोपहसितातिहसितापहसितादयोऽ— नुभावविशेषाः। प्रेमाश्रुचपलतादयो व्यभिचारिणः॥
८. मदस्य मद्योपभोगादय आलम्बनविभावाः। मनोरथावाप्तीष्टदर्शनगीतवाद्य— नृत्तवर्णनादय उद्दीपनविभावाः परुषाभिभाषणव्याकुलवचनमधुरमुखरागहृष्टतनुत्रास— सुकुमाराविष्ट/ललितस्खलितनयनघूर्णनादयोऽनुभावाः। अङ्गग्लान्यसूयाश्रममोहहर्ष— धृतिस्मृतिचपलताश्रुगर्वौत्सुक्यनिद्रामर्षस्तम्भवेपथुरोमाञ्चपुलकादयो व्यभिचारिणः॥
९. मोहस्य३ अवलोकनावस्थावधारणादय आलम्बनविभावाः। संस्कृ/स्तुतप्रदेश— दर्शनेष्टगुणाकर्णनर्तुमाल्यानुलेपनोपनतिप्रभृतय उद्दीपनविभावाः। गुणग्रहण— काकलीगीतादयोऽनुभावाः। निर्वेदग्लानिशङ्काऽऽवेगश्रमदैन्यचिन्तामतिस्मृति— चपलताव्रीडाऽवहित्थजडताविषादोन्मादादयो व्यभिचारिणः॥*
११. चिन्तायाः परद्रव्यापहारदारिद्रयेष्टजनवियोगादय आलम्बनविभावाः। प्रारब्धा— सिद्धिसमीहितानवाप्तिदेशभ्रमणादय उद्दीपनविभावाः। श्वसितसन्तापध्यानाधो— मुख्यतनुभावादयोऽनुभावाः। शोकभयविस्मयविषादनिद्रानिर्वेदग्लानिशङ्का— श्रमदैन्यमोहस्मृतिवैवर्ण्यादयो व्यभिचारिणः॥
१. ॰ननु॰ = ॰नु॰ रा.। २. गर्वस्य रा., स्वेदस्य जो.। ३. जोशेरसंस्करणे मोहो द्विर्निरूपितः। प्रथमं मदचिन्तयोर्मध्ये द्वितीयं वारं च वितर्कक्रोधयोर्मध्ये। द्र. पृ. ७९९। *१०. उत्कण्ठा नोपलभ्यते।
१२. स्मृतेः स्वास्थ्यापररात्रप्रबोधसमानदर्शनोदाहरणदैवादय आलम्बनविभावाः। पूर्वानुभूतविषयज्ञानादय उद्दीपनविभावाः। शिरःकम्पनभ्रूसमुन्नमनशून्यावलोकना— ङ्गुलिविभङ्गादयोऽनुभावाः। हासशोकक्रोधोत्साहभयजुगुप्साविषादौत्सुक्यासूयोग्रता— गर्वत्रासवितर्करतिस्तम्भस्वेदरोमाञ्च वेपथुवैवर्ण्याश्रुस्वरभेदादयो व्यभिचारिणः॥
१३. मतेः शास्त्रोपदेशमन्त्राद्यैरर्थनिर्धारणादय आलम्बनविभावाः। विद्यावृद्धसंयोगाध्ययना— ध्यापनतद्विद्यावित्सम्भाषणादय उद्दीपनविभावाः। तत्त्वाभिनिवेशदेशकाला— नुसारणादयोऽनुभावाः। ग्रहणशक्तिविकासादयः सर्वे व्यभिचारिणः॥
१४. वितर्कस्य सन्देहविमर्शविप्रतियत्त्यादय आलम्बनविभावाः। समानानेक— धर्मोपपत्तिप्रतिपत्तिविशेषादय उद्दीपनविभावाः भ्रूविक्षेपमन्त्रसंग्रहणादयोऽनुभावाः। निर्वेदग्लानिशङ्काश्रमविषादविस्मयदैन्यचिन्तामोहस्मृतिमतिव्रीडाऽऽवेगजडतास्तम्भ— स्वेदादयो व्यभिचारिणः॥
१५. उत्साहस्य विस्मयासंमोहाविषादाध्यवसायविशयसाहसादय आलम्बनविभावाः। विनयबलपराक्रमदेशकालशक्तिसम्पत्प्रतापादय उद्दीपनविभावाः। गाम्भीर्यादयोऽ— नुभावाः। क्रोधासूयामर्षचिन्तास्मृतिगर्वावेगरोमाञ्चस्वेदोग्रतौत्सुक्यादयो व्यभिचारिणः॥
१६. क्रोधस्य आक्षेपानृतवचनोपघातवाक्पारुष्याभिद्रोहमात्सर्यादय आलम्बन— विभावाः। ताडनपीडनपाटनभेदच्छेद्यप्रहरणादय उद्दीपनविभावाः। नयनरागभ्रुकुटिदन्तोष्ठपीडनगण्डस्फुरणहस्तनिष्पेषादयोऽनुभावाः। संमोहोत्साहा— मर्षवेगचपलतागद्गदादयो व्यभिचारिणः॥
१७. अमर्षस्य विद्यैश्वर्यधनबलाधिकाराधिकैरधिक्षेपावमानादय आलम्बनविभावाः। स्वावस्थालोकनमधुरालापश्रवणकामिनीप्रोत्साहनादय उद्दीपनविभावाः। शिरःकम्पाधोमुख्यध्यानाध्यवसायोपायसहायान्वेषणादयोऽनुभावाः। क्रोधासूया— तापोग्रताऽऽवेगवैवर्ण्यास्रादयो व्यभिचारिणः॥
१८. असूयायाः परैश्वर्यसौभाग्यमेधाविद्यादय आलम्बनविभावाः। दोषख्यापनगुणो— पघाताच्चक्षुःप्रणिधानाधोमुख्यभ्रुकुटिक्रियादय उद्दीपनविभावाः। अवज्ञापराध— द्वेषवेषकुत्सनादयोऽनुभावाः। हास्यक्रोधाज्ञोपहसितस्वरभेदादयो व्यभिचारिणः॥
१९. ईर्ष्यायाः समानकुलशीलरूपविद्यावयोविभवबलपराक्रमेषु सपत्नीषु च क्रमेण प्रीतिप्रासादस्थानदानमानादय आलम्बनविभावाः। अमर्षादवलोकनादय उद्दीपन— विभावाः। मन्युव्यलीकविप्रियप्रणयकलहोपालम्भादयोऽनुभावाः। क्रोधोत्साह— विस्मयवितर्कदैन्यजुगुप्सामोहनिर्वेदासूयामर्षवेपथुवैवर्ण्याश्रुस्वेदगद्गदादयो व्यभिचारिणः॥
२०. उग्रतायाः चौर्याभिग्रहनृपापराधासम्बद्धप्रलापादय आलम्बनविभावाः। द्रव्यापहारभाराभिनिवेशाऽसहिष्णुतादय उद्दीपनविभावाः। ताडनपीडनवधबन्ध— भर्त्सनास्यरागादयोऽनुभावाः। क्रोधोत्साहविस्मयजुगुप्साऽसूयास्मृतिमतिमोह— चपलताहर्षामर्षमदावेगौत्सुक्यवैवर्ण्या श्रुगद्गदादयो व्यभिचारिणः॥
२१. जुगुप्सायाः सुहृद्यप्रियवाच्यानिष्टश्रवणदर्शनपरिकीर्तनादय आलम्बनविभावाः। तत्स्वरूपविकारक्रियाविपरिणामपरिणामादय उद्दीपनविभावाः। सर्वाङ्गसंहाराक्षि— सङ्कोचमुखविकूणनहृल्लेखनिष्ठीवनोद्वेजनादयोऽनुभावाः। विस्मयनिर्वेदभय— ग्लानिशङ्कामोहस्मृतिजडताऽऽवेगविषादापस्मारव्याधिरोमाञ्चमदवेपथुस्वरभेद— वैवर्ण्याश्रुमूर्च्छाप्रलापादयो व्यभिचारिणः॥
२२. विस्मयस्य असम्भाव्यमानकौतुकमाहेन्द्रजालमानुषकर्मचित्रपुस्तशिल्पविद्याति— शयादय आलम्बनविभावाः। दिव्यजनभाषणोपवनदेवकुलविहारदर्शनादय उद्दीपनविभावाः। नयनविस्तारानिमेषप्रेक्षणभ्रूविक्षेपसाधुवादप्रबन्धहाहाकाराङ्गुलि— भ्रमणादयोऽनुभावाः जडतामोहमूर्च्छादयो व्यभिचारिणः॥
२३. निद्राया दौर्बल्यमुदश्रमक्लमालस्यचिन्ताऽत्याहारस्वभावाभ्यासादय आलम्बन— विभावाः। मनस्सन्तोषनिश्चिन्तताविविक्तस्थानलाभानुकूलोपकरणप्राप्त्यादय उद्दीपनविभावाः। शिरोवेदनगौरवशरीरलोलननेत्रघूर्णनजृम्भणगात्रमर्दनिःश्वसितो— च्छ्वसितस्त्रस्तगात्रताक्षिनिमीलनसर्वाङ्गक्रियादयोऽनुभावाः। दैन्यमोहजडता—ऽपस्मारस्तम्भस्वेदस्वरभेदवेपथुवैवर्ण्यास्त्रादयो व्यभिचारिणः॥
२४. स्वप्नस्य(/सुप्तम्) निद्रादय आलम्बनविभावाः। निद्रादिकारणान्येवोद्दीपनविभावाः। अक्षिनिमीलनोत्स्वप्नायितादयोऽनुभावाः। प्रायेण तु सर्वे रत्यादयो व्यभिचारिणः॥
२५. प्रबोधस्य निद्राच्छेदाहारपरिणामस्वप्नान्ततीव्रशब्दस्पर्शादय आलम्बनविभावाः। प्राग्दृष्टपदार्थावलोकनारब्धस्मरणमित्रादिकार्यगौरवाचारपरिपालनादय उद्दीपन— विभावाः। जृम्भणोन्मेषनिमेषनिमेषाक्षिमर्दनशयनमोक्षाङ्गवलनादयोऽनुभावाः। उत्साहचिन्तास्मृतिमतिस्वरभेदास्त्रादयो व्यभिचारिणः॥
२६. चपलतायाः रागद्वेषमात्सर्येर्ष्यामर्षप्रातिकूल्यादय आलम्बनविभावाः। पदार्थरामणीयकमानोत्कर्षप्रोत्साहनापकारस्मरणादय उद्दीपनविभावाः। वाक्पारुष्य— दण्डपारुष्यार्थदूषणादयोऽनुभावाः। हासक्रोधोत्साहविस्मयजुगुप्साहर्षा— वेगविषादोग्रतात्रासारोमाञ्चवेपथुस्वेदस्वरभेदादयो व्यभिचारिणः॥
२७. आलस्यस्य गर्वमदमान्द्यनैराश्यश्रमक्लमगर्भस्वाभाव्यादय आलम्बनविभावाः। स्त्रस्तगात्रतादयोऽनुभावाः। निर्वेदश्रमविषादनिद्रादैन्यमोहजडताव्याधिस्वेदवेपथु— स्तम्भादयो व्यभिचारिणः॥
२८. भयस्य मतिव्रीडाविषादावहित्थत्रासवितर्करोमाञ्चस्वरभेदवेपथुवैवर्ण्यादयो व्यभिचारिणः॥*
३६. स्वेदस्य धर्मसम्पीडनादय आलम्बनविभावाः। क्रोधभयहर्षादिकारणान्येव उद्दीपनविभावाः। व्यजनग्रहणादयोऽनुभावाः।
३७. व्याधेः उभयानुरागादिकारणसमानी (?) कोपनिपातसन्निपातवातपित्तश्लेष्म— प्रकोपादय उद्दीपनविभावाः। वेपनालस्यप्रभृतयोऽनुभावाः। ग्लानिशङ्कानि— र्वेदमदश्रमदैन्यमोहचिन्ताऽऽवेगजडतावैवर्ण्याश्रुप्रलयादयो व्यभिचारिणः॥
३८. उन्मादस्य इष्टजनवियोगविभवनाशव्यसनाभिघातालाभापथ्यसेवनादय उद्दीपनविभावाः। अनिमित्तहसितरुदितोत्क्रुष्टप्रलयगर्वरत्यादयो व्यभिचारिणः॥
३९. श्रमस्य अतिव्यायामातिभारोत्क्षेपणादय आलम्बनविभावाः। जृम्भणाङ्गमर्दन— मन्दपदोत्क्षेपणालस्यादयोऽनुभावाः१। निर्वेदग्लानिदैन्यचिन्ता व्यभिचारिणः॥
४०. शोकस्य शापक्लेशविनिपातेष्टजनवियोगविभवनाशवधबन्धनदुःखानुभव— विद्रवोपद्रवादय आलम्बनविभावाः। अश्रुपातालस्यविलपितस्त्रस्तगात्रताभूमि— पाताक्रन्दितवेष्टितदीर्घनिःश्वसितमुखशोषमदादयोऽनुभावाः। स्तम्भवेपथुवैवर्ण्या— श्रुस्वरभेदादयो व्यभिचारिणः॥
४१. विषादस्य आरम्भानिस्तरणो उपायचिन्तनोत्साहविघातवैमनस्यालस्यादयो—ऽनुभावाः। स्तम्भस्वेदगद्गदवैवर्ण्यवेपथुप्रभृतयो व्यभिचारिणः॥
४२. वेवर्ण्यस्य शीतक्रोधादय आलम्बनविभावाः। ॰॰कारणान्येवोद्दीपनविभावाः। नयनमुखरागवृत्ति वैमनस्यालस्यादयोऽनुभावाः। ॰॰व्यभिचारिणः॥
४३. दैन्यस्य मनस्तापदौर्गत्यादय आलम्बनविभावाः। सर्वोपायभ्रंशोपभेदजुगुप्सानिर्वेद— ग्लानिचिन्तामोहजडताविषादनिद्रास्तम्भगद्गदवेपथुवैवर्ण्याश्रुप्रभृतयो व्यभिचारिणः॥
१. ॰लस्या॰ = ॰लब्धा(?)॰ रा.। *२९. 'शङ्का, ३०. त्रासः, ३१. वेपथुः, ३२. व्रीडा, ३३. अबहित्था, ३४ स्तम्भः, ३५. ग्लानिः' इत्येतेषां विभावादीनां वर्णनं मातृकासु त्रुटितम्।
४४. स्वरभेदस्य कारणान्येवोद्दीपनविभावाः। तारमन्द्रमध्यघर्घरगद्गदविस्वर— स्वनादयोऽनुभावाः। हा . . .(व्यभिचारिणः)॥
४५. आवेगस्य विद्युदुल्कानिर्घातपतनचन्द्रसूर्योपरागकेतुदर्शनभ्रमणवातवर्षा— निकुञ्जरोद्भ्रमणप्रियाप्रियश्रवणदुस्स्वप्नदुर्निमित्तदर्शनव्यसनाभिघातादय आलम्बन— विभावाः। उक्तविषयकीर्तनानुभवनसम्प्रधारणादय उद्दीपनविभावाः।
सर्वाङ्गस्रस्ततावकुण्ठनाक्षिमर्दनत्वरितगमनाङ्गपीडनप्रधावनच्छन्नाश्रयणधूमा— कुलनेत्रताङ्गविधूननत्वरितापसरणपश्चादवलोकनाभ्युत्थानालिङ्गनभूमिशयन— परिदेवितविलापाक्रन्दितदेवतानुस्मरणादयोऽनुभावाः। शोकभयविस्मयशङ्का— श्रमचिन्तामोहवितर्कस्तम्भस्वेदवेपथुवैवर्ण्याश्रुप्रलयादयो व्यभिचारिणः॥
॥ इति रतिप्रकाशनः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.