अथ
शृङ्गारप्रकाशे द्वादशः प्रकाशः
प्रबन्धाङ्गचतुष्षष्टिचतुष्टयो नाम
तत्र च—(काव्याद. १.१५)
इतिहासकथोद्भूतमितरद् वा सदाश्रयम्।
चतुर्वर्गफलोपेतं चतुरोदात्तनायकम्॥ १॥
पञ्चावस्थाभिनिष्पन्नैः पञ्चभिः सन्धिभिर्युतम्।
वृत्तिवृत्त्यङ्गसंपन्नं पञ्चार्थप्रकृतिक्षमम्॥ २॥
महारसं महाभोगमुदात्तवचनान्वितम्।
महापुरुषसञ्चारं साध्वाचारजनप्रियम्॥ ३॥
सुश्लिष्टसन्धिसंयोगं सुप्रयोगं सुखाश्रयम्।
मृदुशब्दाभिधानञ्च गुणालङ्कारभूषितम्॥ ४॥
सन्ध्यन्तरैकविंशत्या चतुष्षष्ट्यङ्गसंयुतम्।
लक्षणैश्च चतुष्षष्ट्या युक्तं कुर्वीत नाटकम्॥ ५॥
इति यदुक्तं १(नाशा. १९.२७) तत्र यथा काव्यादेः प्रबन्धस्य—
१. (१) शरीराणि पञ्च, (२) आरम्भविधयः पञ्च, (३) अर्थप्रकृतयः पञ्च, (४) अवस्थाः पञ्च, (५) संस्थाः पञ्च, (६) समवस्थाः पञ्च, (७) सन्धयः पञ्च, (८) वृत्तयः पञ्च, (९) चतुर्विंशतिः प्रवृत्तयः इत्येका चतुष्षष्टिः।
२. (१) दश लास्याङ्गनि, (२) त्रयोदश वीथ्यङ्गानि, (३) षोडश वृत्त्यङ्गानि, (४)एकविंशतिः सन्ध्यन्तराणि, (५)चत्वारि पताकास्थानानि इति द्वितीया चतुष्षष्टिः,
३. सन्ध्यङ्गानि चतुष्षष्टिः इति तृतीया,
४. काव्यलक्षणानि १चतुष्षष्टिरिति चतुर्थी।
इमाश्चतस्त्रोऽपि चतुष्षष्टयः क्रमेण क्रियन्ते। तत्र—
१. अत्र द्रष्टव्यमस्मत्संपादिते नाट्यशास्त्रे १९.१२७, बड़ौदासंस्करणे १९.१३९। आभिरेव कारिका— भिर्महाकाव्यसर्गबन्धादिलक्षणमपि भरतोक्तं फलति।
(१. प्रथमा चतुष्षष्टिः)
(१. प्रबन्धशरीराणि—५)
प्रथमचतुष्षष्टौ—
इतिहासाश्रयम्, कथाश्रयम्, उत्पाद्येतिवृत्तम्, अनुत्पाद्येतिवृत्तम्, प्रतिसंस्कार्येतिवृत्तमिति पञ्च प्रबन्धशरीराणि,
१.(१.१) इतिहासाश्रयमित्यनेन वृत्तदेवादिचरितसंश्रिता। शंसितामाह, यथा कुमारसम्भव—हयग्रीववधादयो महादेवादीनामैतिहासिकं चरितमावेदयन्ति।
२.(१.२) कथाश्रयमित्यनेन बृहत्कथादिप्रतिपन्नप्रख्यातोदात्तनायकचरितविषयतामपि महाकाव्यादेः प्रबन्धस्याभिधत्ते, यथा बृहत्कथायां कथामुख—प्रतिपन्न— वत्सेश्वरचरितम् उदयनोदये।
३.(१.३) उत्पाद्येतिवृत्तमित्यनेन कविमनीषाप्रकल्पितचतुर्वर्गावबोधहेतुदिव्यादित्वं ब्रूते, यथा चन्द्रापीडपुण्डरीकादिचरितवर्णनं कादम्बर्याम्।
४.(१.४) अनुत्पाद्येतिवृत्तमित्यनेन यथावगतवर्तमानातीतमहाराजादिवृत्तवर्णन— विषयतामस्याचष्टे, यथा हर्षवर्धनराज्यवर्धनादीनां च वर्णनं हर्षचरिते।
५.(१.५) प्रतिसंस्कार्येतिवृत्तमित्यनेनेतिहासेषु यथास्थितवृत्तोपनिबन्धने न्यायप्रवृत्तेरप्य— फलत्वमनिष्टावाप्तिफलत्वं च दृश्यते, अन्यथा प्रवृत्तेरपि फलयोगोऽ— वधार्यते, तत्र तथा प्रतिसंस्कारो विधेयः, यथा न्यायप्रवृत्तेरेव फलयोगाभिनिर्वृतिः, विपरीतस्य निष्फलत्वानिष्टावाप्ती भवत इति व्युत्पादयति।
ते च धर्मशृङ्गारार्थशृङ्गारकामशृङ्गारमोक्षशृङ्गाराधिकारिणः धीरोदात्तधीरललित— धीरोद्धतधीरप्रशान्तसात्त्विक—राजस—तामसोत्तममध्यमकनिष्ठसाधारणानुकूलदक्षिण— शठधृष्टादिभेदभिन्ना नायकानुनायकोपनायकप्रतिनायका अग्रतः प्रबन्धेन प्रतिपादयिष्यन्त इति नेह प्रतन्यते।
(२. आरम्भविधय :—५)
प्रमाणं, प्रमेयं, विमर्शः, निर्णयः, प्रवृत्तिः इत्येताः पञ्चारम्भविधयः(धाः)।
ताश्च प्रत्येकं पञ्चप्रकारत्वात् पञ्चविंशतिर्भवन्ति। तत्र—
१. लक्षणानि भरतशास्त्रे षट्त्रिंशदेव। तेषामेव नामपरम्पराद्वयम्, ययोरष्टादश नूतनानि (१८+१८+१८=५४) इत्येवं वर्धिष्णौ संख्यायां गुप्तपादानामानन्त्यं परायणं भोजस्य पुनश्चतुष्षष्टित्वम्।
६.(२.१) युक्तिरुक्तिर्दृष्टं निदर्शनमर्थापत्तिरिति प्रमाणानि।
७.(२.२) धर्मोऽर्थः कामो लोको लोकयात्रेति प्रमेयाणि।
८.(२.३) कर्मणामारम्भोपायः, पुरुषद्रव्यसंपद्, देशकालविभागः, विनिपातप्रतीकारः, कार्यसिद्धिश्चेति विमर्शाः।
९.(२.४) अनुपलब्धस्य ज्ञानम्, उपलब्धस्य निश्चयबलाधानम्, अद्वैधस्य संशयोच्छेदन(अर्थ)म्, एकदेशदृष्टस्य शेषोपलब्धिः, विपर्ययचिकित्सा चेति निर्णयाः।
१०.(२.५) अलब्धलाभार्था, लब्धपरिरक्षार्था, रक्षिताभिवृद्धयर्था, वर्धितोपयोगार्था, उपयोगपर्याप्त्यर्था चेति प्रवृत्तयः। प्रमाणेन प्रमेयमुपलभ्य विमृश्यावधार्य उपेक्षा(प्रेक्षा)पूर्वकारिणो अभीष्टकर्माणि प्रारभन्ते।
ता इमाः पञ्चविंशतिरारम्भविधयः कथ्यन्ते।
(३. अर्थप्रकृतयः — ५)
अथैतासु कथाशरीरोपादानकारणभूताः पञ्चार्थप्रकृतयो भवन्ति। चतसृषु हि विधासु तत्त्वं परिसमाप्यते— 'कर्ता कर्म करणं क्रिये'ति। ताश्च प्रकृतिपञ्चकोपलक्षणेन प्रतिपाद्यन्ते। तद्यथा—
बीजं बिन्दुः पताका च प्रकरी कार्यमेव च।
अर्थप्रकृतयः पञ्च कथादेहस्य हेतवः॥ ६॥
(नाशा. १९.२०)
११.(३.१) (बीजम्)
कथाशरीरव्यापिनि नायके कर्तरि कर्मणि वावतिष्ठमान आरम्भो बीजमित्युच्यते, यथा रामचरितं शिशुपालवध इति। एतेन नायिका अपि व्याख्याताः, यथा लक्ष्मीस्वयंवरः, सुभद्राहरणमिति। उक्तं च—(नाशा. १९.२१)
अल्पमात्रमुपक्षिप्तं बहुधा यद् विसर्पति।
फलावसानं यच्च स्यात् तद् बीजमिति संज्ञितम्॥ ७॥
॥ इति प्रबन्धाङ्गचतुष्षष्टिचतुष्टयः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.