५.२
परिचरञ्जननीं निगमं पठ
न्नपि हुताशरवी सवनद्वयम् ।
मनुवरैर्नियतं परिपूजय
ञ्छिशुरवर्तत संस्तरणिर्यथा ॥
न्नपि हुताशरवी सवनद्वयम् ।
मनुवरैर्नियतं परिपूजय
ञ्छिशुरवर्तत संस्तरणिर्यथा ॥
५.२८
नो हिताय मम हाटकमेत
द्देहि नस्तु गृहवासिजनाय ।
ईहितं तव भविष्यति शीघ्रं
याहि पूर्णमनसेत्यवदत्तम् ॥
द्देहि नस्तु गृहवासिजनाय ।
ईहितं तव भविष्यति शीघ्रं
याहि पूर्णमनसेत्यवदत्तम् ॥
५.४२
करुणार्द्रदृशाऽनुगृह्यते
स्वयमागत्य भवद्भिरप्ययम् ।
वदतास्य पुराकृतं तपः
क्षममाकर्णयितुं मया यदि ॥
स्वयमागत्य भवद्भिरप्ययम् ।
वदतास्य पुराकृतं तपः
क्षममाकर्णयितुं मया यदि ॥
५.४९
इति वादिनि भाविनीं कथा
मृषिमुख्ये घटजे निवार्य तम् ।
ऋषयः सह तेन शंकरं
समुपामंत्र्य ययुर्यथागतम् ॥
मृषिमुख्ये घटजे निवार्य तम् ।
ऋषयः सह तेन शंकरं
समुपामंत्र्य ययुर्यथागतम् ॥
५.८६
विजनतावनितापरितोषितो
विधिवितीर्णकृतात्मतनुस्थितिः ।
परिहरन्ममतां गृहगोचरां
हृदयगेन शिवेन समं ययौ ॥
विधिवितीर्णकृतात्मतनुस्थितिः ।
परिहरन्ममतां गृहगोचरां
हृदयगेन शिवेन समं ययौ ॥
५.१२३
आववुः कुटजकन्दलबाणा
स्फीतरेणुकलिता वनवात्याः ।
सत्त्वमध्यमतमोगुणमिश्रा
मायिका इव जगत्सु विलासाः ॥
स्फीतरेणुकलिता वनवात्याः ।
सत्त्वमध्यमतमोगुणमिश्रा
मायिका इव जगत्सु विलासाः ॥
५.१३२
चातकावलिरनल्पपिपासा
प्राप तृप्तिमदकस्य चिराय ।
प्राप्नुयादमृतमप्यभिवाञ्छ
न्कालतो बत घनाक्षयकारी ॥
प्राप तृप्तिमदकस्य चिराय ।
प्राप्नुयादमृतमप्यभिवाञ्छ
न्कालतो बत घनाक्षयकारी ॥
५.१५४
संसदि श्रुतिशिरोर्थमुदारं
शंसति स्म स पराशरसूतुः ।
इत्यपृच्छमहमत्रभवन्तं
सत्यवाचमभियुक्ततमं तम् ॥
शंसति स्म स पराशरसूतुः ।
इत्यपृच्छमहमत्रभवन्तं
सत्यवाचमभियुक्ततमं तम् ॥
॥ इति पञ्चमः सर्गः (संन्यासग्रहणम्) ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.