राजा—हा क्वासौ सर्वजनहृदयनयनाभिरामो रामः, क्वासौ मयि गुर्वनुवृत्तिः, क्वासौ शोकार्तेष्वनुकम्पा, क्वासौ तृणवदगणितराज्यैश्वर्यः । पुत्र राम, वृद्धं पितरं मां परित्यज्य किमसम्बद्धेन धर्मेण ते कृत्यम् । हा धिक् । कष्टं भोः !
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.