॥ अथ प्रथमोऽङ्कः ॥
(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
१.१
सीताभवः पातु सुमन्त्रतुष्टः
सुग्रीवरामः सहलक्ष्मणश्च ।
यो रावणार्यप्रतिमश्च देव्या
विभीषणात्मा भरतोऽनुसर्गम् ॥
Summary AI May that Lord protect you, who is delighted by good counsel, who was born from the furrow, who is the beautiful-necked Rāma accompanied by Lakṣmaṇa, who is like the enemy of Rāvaṇa, who possesses a formidable soul for the Goddess, and who supports the creation. This verse also alludes to the characters Sumantra, Sītā, Sugrīva, Rāma, Lakṣmaṇa, Rāvaṇa, Vibhīṣaṇa, and Bharata.
सारांश AI सीता के पति, सुमन्त्र को हर्षित करने वाले, लक्ष्मण और सुग्रीव के साथ रहने वाले, रावण के शत्रु के समान तेजस्वी, विभीषण के प्रिय और भरत के अनुगामी भगवान श्री राम सबकी रक्षा करें।
सूत्रधारः—(नेपथ्याभिमुखमवलोक्य) आर्ये, इतस्तावत् ।
(प्रविश्य)
नटी—अय्य इअम्हि । [आर्ये, इयमस्मि ।]
सूत्रधारः—आर्ये, इममेवेदानीं शरत्कालमधिकृत्य गीयतां तावत् ।
नटी—अय्य, तह । (गायति) [आर्य, तथा ।]
सूत्रधारः—अस्मिन् हि काले---
(नेपथ्ये)
अय्य अय्य । [आर्य, आर्य ।]
(आकर्ण्य)
सूत्रधारः—भवतु विज्ञातम्---
१.२
चरति पुलिनेषु हंसी काशांशुकवासिनी सुसंहृष्टा ।
मुदिता नरेन्द्रभवने त्वरिता प्रतिहाररक्षीव ॥
Summary AI A joyful and delighted swan, wearing a garment of Kāśa flowers, moves along the riverbanks with speed, resembling an enthusiastic female door-keeper in the palace of a king.
सारांश AI हंसिनी रेतीले तटों पर काश के सफेद वस्त्रों जैसी शोभा पाकर अत्यन्त प्रसन्नता से विचरण कर रही है, जैसे राजभवन में कोई द्वारपालिका तेजी से घूम रही हो।
(निष्क्रान्तौ)
इति स्थापना ।
अथ विष्कम्भकः ।
(प्रविश्य)
प्रतिहारी—अय्य को इह कंचुईआणं संणिहिदो । [आर्य क इह कञ्चुकीयानां संनिहितः ।]
(प्रविश्य)
कञ्चुकीयः—भवति, अयमस्मि । किं क्रियताम् ।
प्रतिहारी—अय्य ! महाराजो देवासुरसंग्रामेषु अप्पडिहदमाहरही दसरहो आणवेदि---सिग्घं भट्टिदारअस्स रामस्य रज्जप्पहावसंजोअकारआ अहिसेअसम्भारा आणीअन्तु त्ति । [आर्य, महाराजो देवासुरसंग्रामेष्वप्रतिहतमहारथो दशरथ आज्ञापयति---शीघ्रं भर्तृदारकस्य रामस्य राज्यप्रभावसंयोगकारका अभिषेकसंभारा आनीयन्तामिति ।]
कञ्चुकीयः—भवति, यदाज्ञप्तं महाराजेन, तत् सर्वमुपस्थापितम् । पश्य---
१.३
छत्रं सव्यजनं सनन्दिपटहं भद्रासनं कल्पितं
न्यस्ता हेममयाः सदर्भकुसुमास्तीर्थाम्बुपूर्णा घटाः ।
युक्तः पुष्यरथश्च मन्त्रिसहिताः पौराः समभ्यागताः
सर्वस्यास्य हि मङ्गलं स भगवान् वेद्यां वसिष्ठः स्थितः ॥
Summary AI The ceremonial umbrella with fans, the auspicious drum, and the throne are ready. Golden jars filled with holy water and adorned with Darbha grass and flowers are placed. The Puṣya chariot is harnessed, and the citizens have gathered with the ministers. For the auspiciousness of all this, the venerable Vasiṣṭha is seated upon the altar.
सारांश AI चँवर, छत्र, नगाड़े और भद्रासन तैयार हैं; कुश और पुष्पों युक्त तीर्थ जल के स्वर्ण कलश रखे हैं। मंत्रियों के साथ नगरवासी उपस्थित हैं और वेदी पर मंगल हेतु वसिष्ठ विराजमान हैं।
प्रतिहारी—जई एव्वं, सोहणं किदं । [यद्येवं, शोभनं कृतम् ।]
कञ्चुकीयः—हन्त भोः---
१.४
इदानीं भूमिपालेन कृतकृत्याः कृताः प्रजाः ।
रामाभिधानं मेदिन्यां शशाङ्कमभिषिञ्चता ॥
Summary AI By consecrating the moon named Rāma upon the earth, the King has now fulfilled the desires of his subjects.
सारांश AI महाराज ने आज पृथ्वी पर राम रूपी चन्द्रमा का अभिषेक करने का निश्चय करके प्रजा को पूर्णतः कृतार्थ कर दिया है।
प्रतिहारी—तुवरदु तुवरदु दाणि अय्यो । [त्वरतां त्वरतामिदानीमार्यः ।]
कञ्चुकीयः—भवति ! इदं त्वर्यते ।
(निष्क्रान्तः)
प्रतिहारी—(परिक्रम्यावलोक्य) अय्य ! संभवअ ! संभवअ ! गच्छ तुवं पि महाराअवअणेण अय्यपुरोहिदं जहोपआरेण तुवारेहि । (अन्यतो गत्वा) सारसिए ! सारसिए ! संगीदसालं गच्छिअ नाडईआणं विण्णवेहि---कालसंवादिणा णाडएण सज्जा होह त्ति । जाव अहं वि सव्वं किदं त्ति महाराअस्स णिवेदेमि । [आर्य ! सम्भवक ! सम्भवक ! गच्छ, त्वमपि महाराजवचनेनार्यपुरोहितं यथोपचारेण त्वरय । (अन्यतो गत्वा) सारसिके ! सारसिके ! सङ्गीतशालां गत्वा नाटकीयानां विज्ञापय---कालसंवादिना नाटकेन सज्जा भवतेति । यावदहमपि सर्वं कृतमिति महाराजाय निवेदयामि ।]
(निष्क्रान्ता)
(ततः प्रविशत्यवदातिका वल्कलं गृहीत्वा)
अवदातिका—अहो अच्चाहिदं । परिहासेण वि इदं वक्कलं उवणअन्तीए मम एत्तिअं भअं आसी, किं पुण लोभेण परधणं हरन्तस्स । हसिदुं विअ इच्छामि । ण खु एआइणीए हसिदव्वं । [अहो अत्याहितम् । परिहासेनापीमं वल्कलमुपनयन्त्या ममैतावद् भयमासीत्, किं पुनर्लोभेन परधनं हरतः । हसितुमिवेच्छामि । न खल्वेकाकिन्या हसितव्यम् ।]
इति विष्कम्भकः ।
अथ प्रथमोऽङ्कः ।
(ततः प्रविशति सीता सपरिवारा)
सीता—हंजे, ओददिआ परिसंकिदवण्णा विअ दिस्सइ । किं णु हु विअ एदं । [हञ्जे, अवदातिका परिशङ्कितवर्णेव दृश्यते । किं नु खल्विवैतत् ।]
चेटी—भट्टिणि ! सुलहावराहो परिअणो णाम । अवरज्झा भविस्सदि । [भर्त्रि ! सुलभापराधः परिजनो नाम । अपराद्धा भविष्यति ।]
सीता—णहि णहि । हसिदुं विअ इच्छदि । [नहि नहि, हसितुमिवेच्छति ।]
अवदातिका—(उपसृप्य) जैदु भट्टिणी ! भट्टिणि ण खु अहं अवरज्झा । [जयतु भर्त्री ! भर्त्रि न खल्वहमपराद्धा ।]
सीता—का तुमं पुच्छदि । ओदादिए ! किं एदं वामहत्थपरिगहिदं । [का त्वां पृच्छति । अवदातिके ! किमेतद् वामहस्तपरिगृहीतम् ।]
अवदातिका—भट्टिनि ! इदं वल्कलं । [भर्त्रि ! इदं वल्कलम् ।]
सीता—वक्कलं किस्स आणीदं । [वल्कलं कस्मादानीतम् ।]
अवदातिका—सुणादु भट्टिणी । णोवच्छपालिणी अय्यरेवा णिव्वुत्तरङ्गप्पओअणं असोअरुक्खस्स एक्कं किसलअं अम्हेहि जाइदा आसि । ण अ ताए दिण्णं । तदो अरिहदि अवराहो त्ति इदं गहिदं । [शृणोतु भर्त्रि ! नेपथ्यपालिन्यार्यरेवा निवृत्तरङ्गप्रयोजनमशोकवृक्षस्यैकं किसलयमस्माभिर्याचितासीत् । न च तया दत्तम् । ततोऽर्हत्यपराध इतीदं गृहीतम् ।]
सीता—पावअं किदं । गच्छ, णिय्यादेहि । [पापकं कृतम् । गच्छ, निर्यातय ।]
अवदातिका—भट्टिणि ! परिहासणिमित्तं खु मए एदं आणीदं । [भर्त्रि ! परिहासनिमित्तं खलु मयैतदानीतम् ।]
सीता—उम्मत्तिए ! एवं दोसो वड्ढइ । गच्छ णिय्यादेहि, णिय्यादेहि । [उन्मत्तिके ! एवं दोषो वर्धते । गच्छ, निर्यातय, निर्यातय ।]
अवदातिका—जं भट्टिणी आणवेदि । (प्रस्थातुमिच्छति) [यद् भर्त्र्याज्ञापयति ।]
सीता—हला ! एहि दाव । [हला ! एहि तावत् ।]
अवदातिका—भट्टिणि ! इअम्हि । [भर्त्रि ! इयमस्मि ।]
सीता—हला ! किं णु हु मम वि दाव सोहदि । [हला ! किं नु खलु ममापि तावद् शोभते ।]
अवदातिका—भट्टिणि ! सव्वसोहणीअं सुरुवं णाम । अलङ्करोदु भट्टिणी । [भर्त्रि ! सर्वशोभनीयं सुरूपं नाम ! अलङ्करोतु भर्त्री ।]
सीता—आणेहि दाव । (गृहीत्वालंकृत्य) हला ! पेक्ख, किं दाणि सोहदि । [आनय तावत् । हला ! प्रेक्षस्व, किमिदानीं शोभते ।]
अवदातिका—तव खु सोहदि णाम । सोवण्णिअं विअ वक्कलं संवुत्तं । [तव खलु शोभते नाम । सौवर्णिकमिव वल्कलं संवृत्तम् ।]
सीता—हंजे ! तुवं किञ्चि ण भणासि । [हञ्जे ! त्वं किञ्चिन्न भणसि ।]
चेटी—णत्थि वाआए पओअणं । इमे पहरिसिदा तणूरुहा मन्तेन्ति । (पुलकं दर्शयति) [नास्ति वाचा प्रयोजनम् । इमानि प्रहर्षितानि तनूरुहाणि मन्त्रयन्ते ।]
सीता—हंजे आदंसअं दाव आणेहि । [हञ्जे ! आदर्शं तावदानय ।]
चेटी—जं भट्टिणी आणवेदि । (निष्क्रम्य प्रविश्य) भट्टिणि ! अअं आदंसओ । [यद् भर्त्र्याज्ञापयति । भर्त्रि ! अयमादर्शः ।]
सीता—(चेटीमुखं विलोक्य) चिट्ठदु दाव आदंसओ । तुवं किं वि वत्तुकामा विअ । [तिष्ठतु तावदादर्शः । त्वं किमपि वक्तुकामेव ।]
चेटी—भट्टिणि, एवं मए सुदं । अय्यबालाई कञ्चुई भणादि---अहिसेओ अहिसेओ त्ति । [भर्त्रि ! एवं मया श्रुतम् । आर्यबालाकिः कञ्चुकी भणति---अभिषेकोऽभिषेक इति ।]
सीता—कोऽपि भर्ता राज्ये भविष्यति ।
(प्रविश्यापरा)
चेटी—भट्टिणि ! पिअक्खाणिअं पिअक्खाणिअं । [भर्त्रि, प्रियाख्यानिकं प्रियाख्यानिकम् ।]
सीता—किं किं पडिच्छिअ मन्तेसि । [किं किं प्रतीष्य मन्त्रयसे ।]
चेटी—भट्टिदारओ किल अहिसिञ्चीअदि । [भर्तृदारकः किलाभिषिच्यते ।]
सीता—अवि तादो कुसली । [अपि तातः कुशली ।]
चेटी—महाराएण एव्व अहिसिञ्चीअदि । [महाराजेनैवाभिषिच्यते ।]
सीता—जइ एवं, दुदीअं मे पिअं सुदं । विसालदरं उच्छङ्गं करेहि । [यद्येवं, द्वितीयं मे प्रियं श्रुतम् । विशालतरमुत्सङ्गं कुरु ।]
चेटी—भट्टिणि । तह । (तथा करोति) [भर्त्रि ! तथा ।]
(सीता आभरणान्यवमुच्य ददाति)
चेटी—भट्टिणि ! पटहसद्दो विअ । [भर्त्रि ! पटहशब्द इव ।]
सीता—सो एव्व । [स एव ।]
चेटी—एक्कपदे ओघट्टीअ तुण्हीओ पटहसद्दो संवुत्तो । [एकपदे अवघट्टिततूष्णीकः पटहशब्दः संवृत्तः ।]
सीता—को णु खु उग्घादो अहिसेअस्स । अहव बहुवुत्तन्ताणि राअउलाणि णाम । [को नु खलूद्धातोऽभिषेकस्य । अथवा बहुवृत्तान्तानि राजकुलानि नाम ।]
चेटी—भट्टिणि ! एवं मए सुदं---भट्टिदारअं अहिसिंचिअ महाराओ वणं गमिस्सदि त्ति । [भर्त्रि ! एवं मया श्रुतम्---भर्तृदारकमभिषिच्य महाराजो वनं गमिष्यतीति ।]
सीता—जइ एव्वं, ण सो अहिसेओदओ, मुहोदअं णाम । [यद्येवं, न तदभिषेकोदकं मुखोदकं नाम ।]
(ततः प्रविशति रामः)
रामः—हन्त भोः !
१.५
आरब्धे पटहे स्थिते गुरुजने भद्रासने लङ्घिते
स्कन्धोच्चारणनम्यमानवदनप्रच्योतितोये घटे ।
राज्ञाहूय विसर्जिते मयि जनो धैर्येण मे विस्मितः
स्वः पुत्रः कुरुते पितुर्यदि वचः कस्तत्र भो विस्मयः ॥
Summary AI When the drums began, elders stood, the throne was approached, and water dripped from jars tilted for the bath, the King called and then dismissed me. People are amazed at my composure, but what wonder is there if a son obeys his father's command?
सारांश AI नगाड़े बजने लगे थे और अभिषेक का जल बस गिरने ही वाला था कि पिता के बुलावे पर मेरे लौटने से लोग चकित हैं। पुत्र यदि पिता की आज्ञा माने, तो इसमें आश्चर्य क्या है?
रामः—विश्रम्यतामिदानीं पुत्रेति स्वयं राज्ञा विसर्जितस्यापनीतभारोच्छ्वसितमिव मे मनः । दृष्ट्या स एवास्मि रामः, महाराज एव महाराजः । यावदिदानीं मैथिलीं पश्यामि ।
अवदातिका—भट्टिणि ! भट्टिदारओ खु आअच्छइ । णावणीदं वक्कलं । [भर्त्रि ! भर्तृदारकः खल्वागच्छति । नापनीतं वल्कलम् ।]
रामः—मैथिलि ! किमास्यते ।
सीता—हं अय्यउत्तो । जेदु अय्यउत्तो । [हं आर्यपुत्रः । जयत्वार्यपुत्रः ।]
रामः—मैथिलि ! आस्यताम् । (उपविशति)
सीता—जं अय्यउत्तो आणवेदि । (उपविशति) [यद् आर्यपुत्र आज्ञापयति ।]
अवदातिका—भट्टिणि ! सो एव्व भट्टिदारअस्स वेसो । अलिअं विअ एदं भवे । [भर्त्रि ! स एव भर्तृदारकस्य वेषः । अलीकमिवैतद् भवेत् ।]
सीता—तादिसो जणो अलिअं ण मन्तेदि । अहव बहुवुत्तन्ताणि राअउलाणि णाम । [तादृशो जनोऽलीकं न मन्त्रयते । अथवा बहुवृत्तान्तानि राजकुलानि नाम ।]
रामः—मैथिलि किमिदं कथ्यते ।
सीता—न खलु किञ्चित् । इयं दारिका भणति अभिषेकोऽभिषेक इति ।
रामः—अवगच्छामि ते कौतूहलम् । अस्त्यभिषेकः । श्रूयताम् । अद्यास्मि महाराजेनोपाध्यायामात्यप्रकृतिजनसमक्षमेकप्रकारसंक्षिप्तं कोसलराज्यं कृत्वा, बाल्याभ्यस्तमङ्कमारोप्य मातृगोत्रं स्निग्धमाभाष्य---पुत्र राम प्रतिगृह्यतां राज्यमित्युक्तः ।
सीता—तदाणीं अय्यउत्तेण किं भणिदं । [तदानीमार्यपुत्रेण किं भणितम् ।]
रामः—मैथिलि त्वं तावत् किं तर्कयसि ।
सीता—तक्केमि अय्यउत्तेण अभणिअ किञ्चि दिग्घं णिस्ससिअ महाराअस्स पादमूलेसु पडिअं त्ति । [तर्कयाम्यार्यपुत्रेणाभणित्वा किञ्चित् दीर्घं निःश्वस्य महाराजस्य पादमूलयोः पतितमिति ।]
रामः—सुष्ठु तर्कितम् । अल्पं तुल्यशीलानि द्वन्द्वानि सृज्यन्ते । तत्र हि पादयोरस्मि पतितः ।
१.६
समं बाष्पेण पतता तस्योपरि ममाप्यधः ।
पितुर्मे क्लेदितौ पादौ ममापि क्लेदितं शिरः ॥
Summary AI As his tears fell upon me and mine fell downwards, my father’s feet were moistened by my tears, and my head was drenched by his.
सारांश AI पिता के चरणों पर गिरते हुए मेरे आँसुओं ने उनके पैर भिगो दिए और ऊपर से गिरते उनके आँसुओं ने मेरे सिर को गीला कर दिया।
सीता—तदो तदो । [ततस्ततः ।]
रामः—ततोऽप्रतिगृह्यमाणेष्वनुनयेषु आसन्नजरादोषैः स्वैः प्राणैरस्मि शापितः ।
सीता—तदो तदो । [ततस्ततः ।]
रामः—ततस्तदानीं,
१.७
शत्रुघ्नलक्ष्मणगृहीतघटेऽभिषेके
छत्रे स्वयं नृपतिना रुदता गृहीते ।
सम्भ्रान्तया किमपि मन्थरया च कर्णे
राज्ञः शनैरभिहितं च न चास्मि राजा ॥
Summary AI During the consecration, while Śatrughna and Lakṣmaṇa held the jars and the weeping King himself held the umbrella, the agitated Mantharā whispered something into the King's ear. And now, I am no longer to be King.
सारांश AI लक्ष्मण-शत्रुघ्न ने कलश और राजा ने स्वयं छत्र पकड़ा था, तभी मन्थरा ने व्याकुल होकर राजा के कान में कुछ कहा और अब मैं राजा नहीं हूँ।
सीता—पिअं मे । महाराओ एव्व महाराओ, अय्यउत्तो एव्व अय्यउत्तो । [प्रियं मे । महाराज एव महाराजः, आर्यपुत्र एवार्यपुत्रः ।]
रामः—मैथिलि, किमर्थं विमुक्तालङ्कारासि ।
सीता—ण खु दाव, आवज्झामि । [न खलु तावत्, आबध्नामि ।]
रामः—न खलु । प्रत्यग्रावतारितैर्भूषणैर्भवितव्यम् । तथाहि---
१.८
कर्णौ त्वरापहृतभूषणभुग्नपाशौ
संस्रंसिताभरणगौरतलौ च हस्तौ ।
एतानि चाभरणभारनतानि गात्रे
स्थानानि नैव समतामुपयान्ति तावत् ॥
Summary AI My ears have loops bent from the hurried removal of ornaments, and my hands have palms pale from discarded jewelry. The indentations on my body caused by the weight of the ornaments have not even regained their normal state yet.
सारांश AI जल्दबाजी में आभूषण उतारने से कानों के छेद मुड़ गए हैं और कंगन हटने से कलाई गोरी दिख रही है। शरीर के वे स्थान जहाँ भारी गहने थे, अभी सामान्य नहीं हुए हैं।
सीता—पारेदि अय्यउत्तो अलिअं पि सच्चं विअ मन्तेदुं । [पारयत्यार्यपुत्रोऽलीकमपि सत्यमिव मन्त्रयितुम् ।]
रामः—तेन हि अलंक्रियताम् । अहमादर्शं धारयिष्ये । (तथा कृत्वा निर्वर्ण्य) तिष्ठ ।
१.९
आदर्शे वल्कलानीव किमेते सूर्यरश्मयः ।
हसितेन परिज्ञातं क्रीडेयं नियमस्पृहा ॥
Summary AI Are these sunbeams appearing like bark garments in the mirror? By your smile, I realize this is a playful desire for the discipline of an ascetic life.
सारांश AI दर्पण में ये सूर्य की किरणों जैसे वल्कल वस्त्र क्या हैं? तुम्हारी हँसी से ज्ञात हुआ कि यह सन्यास के वेश में किया गया कोई परिहास है।
रामः—अवदातिके, किमेतत् ।
अवदातिका—भट्टा ! किण्णु हु सोहदि ण सोहदि त्ति सोदूहलेण आवज्झका । [भर्तः किं नु खलु शोभते न शोभते इति कौतूहलेनाबद्धानि ।]
रामः—मैथिलि ! किमिदम् । किमिदम् । इक्ष्वाकूणां वृद्धालङ्कारस्त्वया धार्यते । अस्त्यस्माकं प्रीतिः । आनय ।
सीता—मा खु मा खु अय्यउत्तो अमङ्गलं भणादु । [मा खलु मा खल्वार्यपुत्रोऽमङ्गलं भणतु ।]
रामः—मैथिलि, किमर्थं वारयसि ।
सीता—उज्झिदाहिसेअस्स अय्यउत्तस्स अमङ्गलं विअ मे पडिभादि । [उज्झिताभिषेकस्यार्यपुत्रस्यामङ्गलमिव मे प्रतिभाति ।]
१.१०
मा स्वयं मन्युमुत्पाद्य परिहासे विशेषतः ।
शरीरार्धेन मे पूर्वमाबद्धा हि यदा त्वया ॥
Summary AI Do not stir up anger within yourself, especially during a joke; for you were previously bound to me as half of my body.
सारांश AI स्वयं क्रोध उत्पन्न न करो, विशेषकर परिहास में; क्योंकि तुमने पहले ही मेरे आधे शरीर को अपने प्रेमपूर्ण व्यवहार से वश में कर लिया है।
(नेपथ्ये)
हा हा महाराजः । [हा हा महाराजः ।]
सीता—अय्यउत्त ! किं एदं । [आर्यपुत्र, किमेतत् ।]
रामः—(आकर्ण्य)
१.११
नारीणां पुरुषाणां च निर्मर्यादो यदा ध्वनिः ।
सुव्यक्तं प्रभवामीति मूले दैवेन ताडितम् ॥
Summary AI When the unrestrained cry of men and women was heard, it became clear that Fate had struck at the very root of my thought, "I am powerful."
सारांश AI जब नर-नारियों का आर्तनाद मर्यादा तोड़कर सुनाई दे रहा है, तो स्पष्ट है कि भाग्य ने जड़ पर ही प्रहार किया है, जिससे मेरा सामर्थ्य डगमगा रहा है।
रामः—तूर्णं ज्ञायतां शब्दः ।
(प्रविश्य)
कञ्चुकीयः—परित्रायतां परित्रायतां कुमारः ।
रामः—आर्य ! कः परित्रातव्यः ।
कञ्चुकीयः—महाराजः ।
रामः—महाराज इति । आर्य ननु वक्तव्यम्, एकशरीरसंक्षिप्ता पृथिवी रक्षितव्येति । अथ कुत उत्पन्नोऽयं दोषः ।
कञ्चुकीयः—स्वजनात् ।
रामः—स्वजनादिति । हन्त नास्ति प्रतीकारः ।
१.१२
शरीरेऽरिः प्रहरति हृदये स्वजनस्तथा ।
कस्य स्वजनशब्दो मे लज्जामुत्पादयिष्यति ॥
Summary AI An enemy strikes the body, but a kinsman strikes the heart. To whom will my use of the word svajana (kinsman) now cause shame?
सारांश AI शत्रु शरीर पर प्रहार करता है, किन्तु स्वजन हृदय पर। अब 'स्वजन' शब्द मेरे लिए लज्जा का कारण बन गया है।
कञ्चुकीयः—तत्रभवत्याः कैकेय्याः ।
रामः—किमम्बायाः । तेन हि उदर्केण गुणेनात्र भवितव्यम् ।
कञ्चुकीयः—कथमिव ।
रामः—श्रूयताम्,
१.१३
यस्याः शक्रसमो भर्ता मया पुत्रवती च या ।
फले कस्मिन् स्पृहा तस्या येनाकार्यं करिष्यति ॥
Summary AI She whose husband is equal to Indra and who is a mother through me—what fruit could she possibly desire that would drive her to commit such an unworthy act?
सारांश AI जिनके पति इन्द्र के समान हों और जो मुझ जैसे पुत्र वाली हों, उन्हें भला किस फल की इच्छा होगी जिसके लिए वे ऐसा अनुचित कार्य करेंगी?
कञ्चुकीयः—कुमार ! अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्षेप्तुम् । तस्या एव खलु वचनाद् भवदभिषेको निवृत्तः ।
रामः—आर्य, गुणाः खल्वत्र ।
कञ्चुकीयः—कथमिव ।
रामः—श्रूयताम्---
१.१४
वनगमननिवृत्तिः पार्थिवस्येव ताव-
न्मम पितृपरवत्ता बालभावः स एव ।
नवनृपतिविमर्शे नास्ति शङ्का प्रजाना-
मथ च न परिभोगैर्वञ्चिता भ्रातरो मे ॥
Summary AI My retirement to the forest is like that of a king. I remain dependent on my father, just as in childhood. There is no anxiety among the people regarding the transition to a new ruler, and my brothers have not been deprived of their enjoyments.
सारांश AI वन जाने से पिता के ऋण से मुक्ति मिलेगी, मेरा आज्ञापालन बना रहेगा, प्रजा को नए राजा से कोई शंका नहीं होगी और मेरे भाई भी सुखों से वंचित नहीं रहेंगे।
कञ्चुकीयः—अथ च तयानाहूतोपसृतया भरतोऽभिषिच्यतां राज्य इत्युक्तम् । अत्राप्यलोभः ।
रामः—आर्य ! भवान् खल्वस्मत्पक्षपातादेव नार्थमवेक्षते । कुतः,
१.१५
शुल्के विपणितं राज्यं पुत्रार्थे यदि याच्यते ।
तस्या लोभोऽत्र नास्माकं भ्रातृराज्यापहारिणाम् ॥
Summary AI If the kingdom, bartered as a marriage-dowry, is claimed for her son, then the greed is not hers; rather, the greed would be ours if we were to usurp a brother's rightful kingdom.
सारांश AI यदि विवाह शुल्क के रूप में पुत्र के लिए राज्य माँगा गया है, तो यह माता का लोभ नहीं है; बल्कि हमारा दोष होगा यदि हम भाई के राज्य को छीनें।
कञ्चुकीयः—अथ---
रामः—अतः परं न मातुः परिवादं श्रोतुमिच्छामि । महाराजस्य वृत्तान्तस्तावदभिधीयताम् ।
कञ्चुकीयः—ततस्तदानीं,
१.१६
शोकादवचनाद् राज्ञा हस्तेनैव विसर्जितः ।
किमप्यभिमतं मन्ये मोहं च नृपतिर्गतः ॥
Summary AI Due to grief and speechlessness, the King dismissed me with only a gesture of his hand. I believe something desired has occurred, and the King has fallen into a swoon.
सारांश AI शोक के कारण मौन रहकर राजा ने हाथ के संकेत से ही मुझे विदा किया और फिर वे मूर्छित हो गए, शायद यही उन्हें अभीष्ट था।
रामः—कथं मोहमुपगतः ।
(नेपथ्ये)
कथं कथं मोहमुपगत इति । यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दया ।
रामः—(आकर्ण्य पुरतो विलोक्य)
१.१७
अक्षोभ्यः क्षोभितः केन लक्ष्मणो धैर्यसागरः ।
येन रुष्टेन पश्यामि शताकीर्णमिवाग्रतः ॥
Summary AI Who has agitated Lakṣmaṇa, an unshakeable ocean of patience? Seeing him enraged, I feel as if the space before me is crowded with hundreds of enemies.
सारांश AI धैर्य के सागर लक्ष्मण को किसने क्रोधित किया है? उनके कोप के कारण मुझे सामने का दृश्य सैकड़ों शत्रुओं से घिरा हुआ सा प्रतीत हो रहा है।
(ततः प्रविशति धनुर्बाणपाणिर्लक्ष्मणः)
लक्ष्मणः—(सक्रोधम्) कथं कथं मोहमुपगत इति ।
१.१८
यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दया
स्वजननिभृतः सर्वोऽप्येवं मृदुः परिभूयते ।
अथ न रुचितं मुञ्च त्वं मामहं कृतनिश्चयो
युवतिरहितं लोकं कर्तुं यतश्छलिता वयम् ॥
Summary AI If you cannot bear the King's delusion, then take up your bow and show no mercy. Everyone who is restrained by kinship and gentleness is thus insulted. If this displeases you, leave me; I am resolved to rid the world of young women, since we have been cheated by one.
सारांश AI यदि राजा का मोह असह्य है तो धनुष उठाओ। विनम्र व्यक्ति का तिरस्कार होता है। यदि यह उचित नहीं लगता, तो मुझे जाने दो, मैं इस कपटपूर्ण संसार को स्त्रियों से रहित कर दूँगा।
सीता—अय्यउत्त ! रोदिदव्वे काले सोमित्तिणा धणू गहीदं । अपुव्वो खु से आआसो । [आर्यपुत्र ! रोदितव्ये काले सौमित्रिणा धनुर्गृहीतम् । अपूर्वः खल्वस्यायासः ।]
रामः—सुमित्रामातः ! किमिदम् ।
लक्ष्मणः—कथं कथं किमिदं नाम ।
१.१९
क्रमप्राप्ते हृते राज्ये भुवि शोच्यासने नृपे ।
इदानीमपि सन्देहः किं क्षमा निर्मनस्विता ॥
Summary AI When the kingdom obtained by rightful succession is snatched away and the King lies on the ground in a pitiable state, is there still room for doubt? Forgiveness now is nothing but cowardice.
सारांश AI जब न्यायपूर्ण प्राप्त राज्य छीन लिया गया हो और पिता शोकाकुल हों, तब भी क्या क्षमा और धैर्य का विचार करना उचित है? क्या यह पुरुषार्थहीनता नहीं है?
रामः—सुमित्रामातः ! अस्मद्राज्यभ्रंशो भवत उद्योगं जनयति । आः, अपण्डितः खलु भवान् ।
१.२०
भरतो वा भवेद् राजा वयं वा ननु तत् समम् ।
यदि तेऽस्ति धनुःश्लाघा स राजा परिपाल्यताम् ॥
Summary AI Whether Bharata becomes King or I do, it is surely the same. If you take pride in your bow, then use it to protect that King.
सारांश AI भरत राजा बनें या मैं, दोनों एक ही बात है। यदि तुम्हें अपने धनुष पर इतना ही गर्व है, तो उसी धनुष से राजा भरत की रक्षा करो।
लक्ष्मणः—न शक्नोमि रोषं धारयितुम् । भवतु भवतु । गच्छामस्तावत् । (प्रस्थितः)
१.२१
त्रैलोक्यं दग्धुकामेव ललाटपुटसंस्थिता ।
भ्रुकुटिर्लक्ष्मणस्यैषा नियतीव व्यवस्थिता ॥
Summary AI This furrowed brow of Lakṣmaṇa, situated on his forehead, appears as if it desires to incinerate the three worlds, standing firm like destiny itself.
सारांश AI लक्ष्मण के ललाट पर स्थित यह भ्रुकुटि तीनों लोकों को भस्म करने की इच्छा रखने वाली नियति के समान अटल प्रतीत हो रही है।
रामः—सुमित्रामातः ! इतस्तावत् ।
लक्ष्मणः—आर्य ! अयमस्मि ।
रामः—भवतः स्थैर्यमुत्पादयता मयैवमभिहितम् । उच्यतामिदानीम् ।
१.२२
ताते धनुर्नमयि सत्यमवेक्षमाणे
मुञ्चानि मातरि शरं स्वधनं हरन्त्याम् ।
दोषेषु बाह्यमनुजं भरतं हनानि
किं रोषणाय रुचिरं त्रिषु पातकेषु ॥
Summary AI Should I bend my bow against my father who is observing the truth? Should I release an arrow at my mother who is seizing my inheritance? Or should I slay my younger brother Bharata, who is free from fault? Which of these three sins would be pleasing to a man in anger?
सारांश AI सत्य का पालन करने वाले पिता पर धनुष तानूँ, अपना अधिकार छीनने वाली माता पर बाण चलाऊँ या निर्दोष छोटे भाई भरत का वध करूँ? क्रोध में इन तीनों पापों में से कौन सा कार्य उचित है?
लक्ष्मणः—(सबाष्पम्) हा धिक् । अस्मानविज्ञायोपालभसे ।
१.२३
यत्कृते महति क्लेशे राज्ये मे न मनोरथः ।
वर्षाणि किल वस्तव्यं चतुर्दश वने त्वया ॥
Summary AI Because of this great distress, I have no desire for the kingdom. Indeed, you must dwell in the forest for fourteen years.
सारांश AI जिस राज्य के कारण इतना बड़ा क्लेश उत्पन्न हुआ है, उसमें मेरी कोई रुचि नहीं है। आपको चौदह वर्षों तक वन में निवास करना होगा।
रामः—अत्र मोहमुपगतस्तत्रभवान् । हन्त निवेदितमप्रभुत्वम् । मैथिलि !
१.२४
मङ्गलार्थेऽनया दत्तान् वल्कलांस्तावदानय ।
करोम्यन्यैर्नृपैर्धर्मं नैवाप्तं नोपपादितम् ॥
Summary AI Bring those bark garments given by her for the sake of an auspicious occasion. I shall practice a dharma that has neither been attained nor performed by other kings.
सारांश AI माता द्वारा मंगल के लिए दिए गए इन वल्कल वस्त्रों को ले आओ। मैं उस धर्म का पालन करूँगा जिसे अन्य राजाओं ने न कभी प्राप्त किया और न ही सिद्ध किया है।
सीता—गण्हदु अय्यउत्तो । [गृह्णात्वार्यपुत्रः ।]
रामः—मैथिलि ! किं व्यवसितम् ।
सीता—णं सहधम्मआरिणी क्खु अहं । [ननु सहधर्मचारिणी खल्वहम् ।]
रामः—मयैकाकिना किल गन्तव्यम् ।
सीता—अतो णु खु अणुगच्छामि । [अतो नु खल्वनुगच्छामि ।]
रामः—वने खलु वस्तव्यम् ।
सीता—तं खु मे पासादो । [तत् खलु मे प्रासादः ।]
रामः—श्वश्रूश्वशुरशुश्रूषापि च ते निर्वर्तयितव्या ।
सीता—णं एदे उद्दिसिअ देवदाणं पणामो करीअदि । [एतानुद्दिश्य देवतानां प्रणामः क्रियते ।]
रामः—लक्ष्मण वार्यतामियम् ।
लक्ष्मणः—आर्य नोत्सहे श्लाघनीये काले वारयितुमत्रभवतीम् । कुतः,
१.२५
अनुचरति शशाङ्कं राहुदोषेऽपि तारा
पतति च वनवृक्षे याति भूमिं लता च ।
त्यजति न च करेणुः पङ्कलग्नं गजेन्द्रं
व्रजतु चरतु धर्मं भर्तृनाथा हि नार्यः ॥
Summary AI A star follows the moon even during an eclipse; a creeper falls to the ground when the forest tree falls. A female elephant does not abandon the lord of elephants stuck in the mud. Let her go and practice dharma, for husbands are the sole protectors of women.
सारांश AI ग्रहण लगने पर भी तारा चन्द्रमा का साथ नहीं छोड़ती, वृक्ष के गिरने पर लता भी भूमि पर गिर जाती है और हथिनी कीचड़ में फँसे हाथी को नहीं त्यागती। पति ही स्त्रियों के स्वामी हैं, अतः सीता को साथ चलकर पत्नी-धर्म का पालन करना चाहिए।
(प्रविश्य)
चेटी—जेदु भट्टिणी । णेवच्छपालिणी अय्यरेवा पणमिअ विण्णवेदि---ओदादिआए सङ्गीदसालाओ अच्छिन्दिअ वक्कला आणीदा । इमा अवरा अणणुहूदा वक्कला । णिव्वत्तीअदु दाव किल पओअणं त्ति । [जयतु भर्त्री । नेपथ्यपालिन्यार्यरेवा प्रणम्य विज्ञापयति---अवदातिकया सङ्गीतशालाया आच्छिद्य वल्कला आनीताः । इमेऽपरा अननुभूता वल्कलाः । निर्वर्त्यतां तावत् किल प्रयोजनमिति ।]
रामः—भद्रे ! आनय, संतुष्टैषा । वयमर्थिनः ।
चेटी—गह्णदु भट्टा । (तथा कृत्वा निष्क्रान्ता) [गृह्णातु भर्ता ।]
(रामो गृहीत्वा परिधत्ते)
लक्ष्मणः—प्रसीदत्वार्यः---
१.२६
निर्योगाद् भूषणान्माल्यात् सर्वेभ्योऽर्धं प्रदाय मे ।
चीरमेकाकिना बद्धं चीरे खल्वसि मत्सरी ॥
Summary AI After giving me half of all the ointments, ornaments, and garlands, you have put on the bark garment alone. You are indeed envious even regarding the bark garment!
सारांश AI आपने वस्त्रों और आभूषणों में तो मुझे आधा भाग दिया, किंतु वल्कल वस्त्र अकेले ही धारण कर लिया। वल्कल वस्त्र के विषय में आप वास्तव में ईर्ष्यालु हो गए हैं।
रामः—मैथिलि ! वार्यतामयम् ।
सीता—सोमित्ते ! णिवत्तीअदु किल । [सौमित्रे ! निवर्त्यतां किल ।]
लक्ष्मणः—आर्ये !
१.२७
गुरोर्मे पादशुश्रूषां त्वमेका कर्तुमिच्छसि ।
तवैव दक्षिणः पादो मम सव्यो भविष्यति ॥
Summary AI You wish to perform the service to the feet of my elder alone. Your right foot and my left foot shall serve together.
सारांश AI आप अकेले ही मेरे पूजनीय गुरुजनों के चरणों की सेवा करना चाहती हैं। आपकी सेवा के लिए उनका दाहिना पैर होगा और मेरे लिए बायां पैर; इस प्रकार हम दोनों मिलकर सेवा करेंगे।
सीता—दीअदु खु अय्यउत्तो । संतप्पदि सोमित्ती । [दीयतां खल्वार्यपुत्रः । संतप्यते सौमित्रिः ।]
रामः—सौमित्रे ! श्रूयताम् । वल्कलानि नाम,
१.२८
तपःसंग्रामकवचं नियमद्विरदाङ्कुशः ।
खलीनमिन्द्रियाश्वानां गृह्यतां धर्मसारथिः ॥
Summary AI Take this bark garment, which is the armor in the battle of penance, the goad for the elephant of self-restraint, the bit for the horses of the senses, and the charioteer of righteousness.
सारांश AI तपस्या रूपी युद्ध के कवच, अनुशासन रूपी हाथी के अंकुश और इंद्रिय रूपी अश्वों की लगाम स्वरूप इस धर्म-रूपी सारथि को स्वीकार करें।
लक्ष्मणः—अनुगृहीतोऽस्मि । (गृहीत्वा परिधत्ते)
रामः—श्रुतवृत्तान्तैः पौरैः संनिरुद्धो राजमार्गः । उत्सार्यतामुत्सार्यतां तावत् ।
लक्ष्मणः—आर्य ! अहमग्रतो यास्यामि । उत्सार्यतामुत्सार्यताम् ।
रामः—मैथिलि अपनीयतामवगुण्ठनम् ।
सीता—जं अय्यउत्तो आणवेदि । (अपनयति) [यदार्यपुत्र आज्ञापयति ।]
रामः—भो भो पौराः ! शृण्वन्तु शृण्वन्तु भवन्तः ।
१.२९
स्वैरं हि पश्यन्तु कलत्रमेतद्
बाष्पाकुलाक्षैर्वदनैर्भवन्तः ।
निर्दोषदृश्या हि भवन्ति नार्यो
यज्ञे विवाहे व्यसने वने च ॥
Summary AI May you all look freely upon this wife with faces whose eyes are clouded with tears. Indeed, women may be seen without fault during a sacrifice, a wedding, a calamity, or in the forest.
सारांश AI आप सब अश्रुपूर्ण नेत्रों से मेरी पत्नी को निस्संकोच देखें। यज्ञ, विवाह, विपत्ति और वन-गमन के समय स्त्रियों को देखना दोषरहित माना गया है।
(प्रविश्य)
कञ्चुकीयः—कुमार न खलु न खलु गन्तव्यम् । एष हि महाराजः,
१.३०
श्रुत्वा ते वनगमनं वधूसहायं
सौभ्रात्रव्यवसितलक्ष्मणानुयात्रम् ।
उत्थाय क्षितितलरेणुरूषिताङ्गः
कान्तारद्विरद इवोपयाति जीर्णः ॥
Summary AI Having heard of your departure to the forest accompanied by your wife and followed by Lakṣmaṇa, who is resolved out of brotherly love, the aged king approaches, his body covered in the dust of the earth like an old wild elephant.
सारांश AI सीता और भ्रातृ-भक्त लक्ष्मण के साथ तुम्हारे वन जाने का समाचार सुनकर, धूल से सने अंगों वाले वृद्ध महाराज दशरथ किसी वन के बूढ़े हाथी के समान चले आ रहे हैं।
लक्ष्मणः—आर्य !
१.३१
चीरमात्रोत्तरीयाणां किं दृश्यं वनवासिनाम् ।
गतेष्वस्मासु राजा नः शिरःस्थानानि पश्यतु ॥
Summary AI What is there to be seen of us forest-dwellers who wear only bark garments as upper coverings? Once we have departed, let the king look upon the places where our heads used to rest.
सारांश AI केवल वल्कल वस्त्र धारण करने वाले हम वनवासियों में भला क्या देखने योग्य है? हमारे चले जाने के बाद महाराज हमारे इन रिक्त स्थानों को ही देखें।
(इति निष्क्रान्ताः सर्वे)
इति प्रथमोऽङ्कः ।
॥ इति प्रथमोऽङ्कः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.