द्वितीयः—अघो भट्टिदारिआए वासवदत्ताए अवणअणविब्भमदाए विरुवन्तस्स मे वअणं कोच्चि ण सुणादि । अघो किं भणह---किण्णिमित्तं उस्सारणा वत्तदि त्ति । गहीदो अय्यजोअन्धराअणो । किं भणह---कहं गहीद त्ति । सुणन्तु अय्या । अय्यजोअन्धराअणेण असिदुदीएण अक्खोहिणीए अग्गवेगो मुहुत्तअं धारिदो । विजयसुन्दरस्स हत्थिणो दन्तन्तचोदिदो असी विवण्णो । असिदोसेण गहीदो, ण पुरुसदोसेण । [अघो भर्तृदारिकायाः वासवदत्तायाः अपनयनविभ्रमतया विरुवतो मे वचनं कश्चिन्न शृणोति । अघो किं भणथ---किंनिमित्तमुत्सारणा वर्तत इति । गृहीत आर्यो यौगन्धरायणः । किं भणथ---कथं गृहीत इति । शृण्वन्त्वार्याः । आर्ययौगन्धरायणेनासिद्वितीयेनाक्षौहिण्या अग्रवेगो मुहूर्तं धारितः । विजयसुन्दरस्य हस्तिनो दन्तान्तचोदितोऽसिर्विपन्नः । असिदोषेण गृहीतः, न पुरुषदोषेण ।]
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.