भटः—को कालो अहं भट्टिदारिआए वासवदत्ताए उदए कीलिदुकामाए भद्दवदीपरिचारअं गत्तसेवअं ण पेक्खामि । भाव पुप्फदन्तअ ! गत्तसेवअं ण पेक्खसि । किं भणासि---एसो गत्तसेवओ कण्डिलसुण्डिगिणीए गेहं पविसिअ सुरं पिबदि त्ति । गच्छदु भावो । (परिक्रम्य) इदं कण्डिलसुण्डिगिणीए गेहं । जाव णं सद्दावेमि । भो गत्तसेवअ ! गत्तसेवअ ! [कः कालोऽहं भर्तृदारिकायाः वासवदत्तायाः उदके क्रीडितुकामायाः भद्रवतीपरिचारकं गात्रसेवकं न प्रेक्षे । भावः पुष्पदन्तक ! गात्रसेवकं न प्रेक्षसे । किं भणसि---एष गात्रसेवकः कण्डिलशौण्डिक्या गेहं प्रविश्य सुरां पिबतीति । गच्छतु भावः । इदं कण्डिलशौण्डिक्या गेहम् । यावदेनं शब्दयामि । भो गात्रसेवक ! गात्रसेवक !]
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.