वृद्धगोपालकः—गावो मे अहीणवच्छा होन्तु । अविहवा अ गोवजुवदीओ होन्तु । णो लाआ विलाडो एक्कच्छत्तप्पुहुवीपदी होदु । महालाअष्ष विलाडष्ष वष्षवड्ढणगोप्पदाणणिमित्तं इमष्षिं णअलोववणवीहीए आअन्तु गोधणं षव्वे च किदमङ्गलमोदआ गोवदालआ दालिआ अ दाव । एषु ज्जेट्ठं गच्छिअ अणुभविष्षम् । (विलोक्य) किण्णु हु एषो वाअषो षुक्खलुक्खं आलुहिअ षुक्खषाहाणिघट्टिअतुण्डं आदिच्चाहिमुहं विष्षलं विलवगदि । षन्ती होदु षन्ती होदु अम्हाणं गोधणष्ष अ । जाव एषु ज्जेट्ठं गच्छिअ गोवदालआणं दालिआणं वाहलामि । गोमित्तअ ! गोमित्तअ ! [गावो मेऽहीनवत्सा भवन्तु । अविधवाश्च गोपयुवतयो भवन्तु । अस्माकं राजा विराट एकच्छत्रपृथिवीपतिर्भवतु । महाराजस्य विराटस्य वर्षवर्धनगोप्रदाननिमित्तमस्यां नगरोपवनवीथ्यामायान्तुं गोधनं सर्वे च कृतमङ्गलमोदका गोपदारका दारिकाश्च तावत् । एषु ज्यैष्ठ्यं गत्वानुभविष्यामि । (विलोक्य) किन्नु खल्वेष वायसः शुष्कवृक्षमारुह्य शुष्कशाखानिघट्टिततुण्डमादित्याभिमुखं विस्वरं विलपति । शान्तिर्भवतु शान्तिर्भवतु अस्माकं गोधनस्य च । यावदेषु ज्यैष्ठ्यं गत्वा गोपदारकान् दारिका व्याहरामि (परिक्रम्य) अरे गोमित्रक ! गोमित्रक !]
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.