Loading data... On slow networks this could take a few minutes.
100%
॥ अथ तृतीयाश्वासः ॥
सन्धिर्नाम ऋजूपायः साधुष्वेवायमायतते न पृथग्जनेषु । दूरे पुनर्दुरहंकारदूषितेषु दानवेषु । किंच । दूतवाङ्मुखकौशल- साधनीयोऽयमर्थः कथं नाम दूतदर्शनमप्यसहमानेषु संघटते । श्रूयत एव हि वैश्रवणेन प्रहितो दूतः सद्य एव समापितः सदसि लङ्कापतेः । अपिच । प्रवृत्ताः समरकर्मणि भग्नोद्यमाः सर्वतोऽपि संधित्सन्ते दूरदर्शिनो लब्धं कथंचिदपि लिप्सितं, नतु लब्धमपि नाशयितुम् । पश्यत-
अपि च—
इति युक्तियुक्तमुपपाद्य विरमति देवगुरौ, विहस्तेषु च समस्तेषु दैवतेषु कृतमुखः स्वयं शतमखः किंचिदिदमाचचक्षे।
'भगवन्ने- वमेवैतद्यदभिहितं भवता । किंतु-
अनितरशरणत्वमात्मनस्तदृढमुपपादयताथ देवभर्त्रा । प्रतिहतवचनो गुरुः सुराणां प्रकटयितुं धियमात्मनः प्रतस्थे ॥
ततश्च तमतर्कितोपनतमभिगम्य सह शिष्यैः, अभ्यर्च्य विधिवदर्घ्यादिभिः सपर्याभिः, आसयन्महति मणिविष्टरे, भार्गवः स्वयमासीनस्तदनुज्ञया सविनयमिदमाचचक्षे---- 'अद्य मे सफलं जीवितं, अद्य हुतं विधिवदग्निषु, अद्य दत्तमतिथिष्वभ्यागतेषु,
अपि च—
इत्यभिदधानो गुरुरलमतिवात्सल्यादतिलालनेनेत्यभिधाय, विसृज्य सामाजिकान् , विविक्ते पृष्टः कविना समागमनकारण- मुदाजहारैनमुपपत्तिगर्भया गिरा । 'आवेदनीयं किमखिलवेदिषु भवादृशेषु । तथा हि-
तदस्तु यथातथा वा संमुखीकरिष्यामि दानवान् , संभावयिष्यामि च भवन्तं, ततो यथामनोरथमभिधीयतां' इत्युपच्छन्द्य, समानीय बलेः सभां, सभाजयन्विविधैरुपचारैः, सल्लापयामास वासवगुरुम् । 'भगवन् दिष्टयासि दृष्टश्विराय । किमागमन कारणं, कि कुशली मे भ्राता पुरंदरः, स किं करोति, किमावसति, नामापि तस्य न शृणुमहे तदाप्रभृति' इत्यनुयुञ्जाने बलौ सोत्प्रासमाददे गिरमाङ्गिरसः ॥
तदभिगम्यापि सुदूरमवलोकयितव्यः पुण्यश्लोको जा(??) इत्यागतोऽस्मि । भ्रातुरपि ते वृत्तान्तमावेदयामि ॥
यस्यैवं भूर्भुवस्स्वर्भुवनपरिबृढो वर्तसे पूर्वजस्त्वं दुर्दान्तध्वान्तभानुः स भवति भगवानेव यस्यानुजन्मा। संप्राप्तो यः शरण्यं त्रिभिरपि करणैर्देवदेवं त्रिणेत्रं प्रष्टव्यं तस्य कस्मिन् कुशलमकुशलं तस्य जिष्णोः कुतः स्यात् ॥ स यदैव सङ्गररङ्गमारूढो योद्धकामोऽवतस्थे तदैव तमशरीरिण्या गिरा निवर्तयिष्यन्नाहवान्निर्मार्ष्टुं मुनिशापर(??) लिन्यमभ्युदयेन च योक्तुमधिकेन परमे तपसि परमेश्वरे नियुयुजे ॥ यः शक्यो न दृशापि गोचरयितुं सत्वैस्तमोगन्धिभि- र्यत्र ब्रह्म सनातनं गिरिजया स्वैरं परिक्रीडते । अध्यारुह्य तमेव मन्दरमभिध्यायन्य आस्ते शिवं कस्तं द्रक्ष्यति कः प्रवक्ष्यति कथां देवोऽपि वा दानवः ॥
तदत्र महाकुलप्रसूतस्य भवतो महदनुशिष्टस्य किमावेदनीयमन्यैः । स्वयमेव महाभागः स्वरूपं पर्यालोचयतु कार्यस्य ॥
तदप्रदाय परेभ्योऽवकाशमन्योन्यसमवेतेषु युष्मासु-
अहं तु भवतः सार्वज्ञादविशङ्कमवादिषम् । न खल्वात्मनः सचिवोक्तमित्येवादरणीयं परसचिवोक्तमिति वा परिहरणीयं, धीमतां धीरेव सचिवः शासिता' इत्यभिधाय विरमति देवगुरौ, अवलोकितो बलिना, भार्गवः सामाजिकाननुमोदयन्निदमाचचक्षे-~-'भो भो सकलाशयमर्मज्ञाः,समयज्ञाः संधिविग्रहयोः, परीणा नीतिपथे भवन्त एव प्रमाणमर्थेषु ॥
यद्यप्यद्य गतश्रियः सुमनसो यद्यप्यसौ तद्गुरु- र्यद्यप्यस्ति फलं न किंचिदपि नः संधाय साध्यं सुरैः। पर्यालोच्यमथापि किंचिदुदधिं निर्मथ्य लब्ध्वा सुधां पास्यामो वयमित्यसौ रहसि मां यत्ग्राह दिव्यो मुनिः ॥
इति । ततः साधु साध्वित्यनुमोद्यमानाः सचिवेन, प्रस्थाप्य बाचस्पतिं, प्रथमतः संधास्यन्तः प्रतस्थिरे दानवाः सद्य एव मन्दरम् । पूर्णमनोरथश्च गुरुः पुनरुपावर्तमानः संददर्श मन्दरमेत्य संततशिवध्याननिर्धूतकल्मषान् शिवार्चनव्रतिनः शिवार्पितप्राणान् शिवनामकीर्तनपवित्रितमुखान् शिवकथापा- रायणपरायणान् शिवाहंभावभावितान् शिवाद्वैतवादकोविदन् भस्मदिग्धतनूरुहान् भसितत्रिपुण्ड्रमण्डितपञ्चाष्टादिस्थानमनोहरान् प्रालम्बिजटाजूटवलयावलम्बितशकुनिकुलनादशकुनावेदितसंनिहि- तशांभवप्रसादान् शुद्धाध्ववर्तिनो विज्ञानकलमानिव शुनासीरमुखान् बहिर्मुखान् ॥
ततो महता बलेन महता संनाहेन महता चावधानेन संधातुमागताः सर्वेऽपि दानवाः, प्रकृतिकुटिला अपि परिणत
३.२८
तपोविशेषेण परिक्षीणकल्मषतया दुर्दर्शान् मध्याह्नभास्करानिव, दुरासदान् युगान्तपावकानिव, विनम्भणीयान् विश्वसृज इव, पुनः पुनदर्शनीयान् पूर्णसुधाकरानिव, संलक्ष्य गीर्वाणान् , संत्यज्य दुर्विशङ्कितानि, प्रतिषिध्यानुयात्रिकान् , परिहृत्य शस्त्रास्त्राणि, निर्मलेन मनसा निरन्तरं परिरेभिरे ।
संक्रन्दनोऽपि यथान्यायं समागम्य दानवैः, अभिवन्ध पुरोधसं भार्गवं, अनुमतो वाचस्पतिना, किरन्निव सुधारसं, किंचिदिदमाचचक्षे- 'साफल्यं तपसामिदं सुमहतां साफल्यमक्ष्णामिदं साफल्यं पितुराशिषामिदमिदं साफल्यमस्यायुषः ।
श्रीमत्काश्यपतातपादचरणस्थानोचितैर्भ्रतृभि- र्ज्यायोभिर्यदहं विरोचनमुखैर्वात्सल्यपात्रीकृतः ॥
अपि च—
इति वदन्तं भ्रातरमिन्द्रमिदमाहुरसुरेश्वराः 'मैवमाखण्डल मैवम् ।
तदाख्यातु भवानर्णवमथनोपायमादिष्टं नारायणेन' इत्यनुयुञ्जानेषु दानवेषु, यथाश्रुतमाख्याय पुरन्दरस्तमेव मन्दरमुत्पाट्य सागरे निपातयितुमुत्साहयामास बलिम् । ततः कियदेतदुत्पाटनं नाम गिरेः, विधमामो मुखमारुतेन, विक्षिपामोऽङ्गुलिस्फोटेन, समुद्धरामो वामहस्तेन, संक्रमयामः सायकेनैकन' इति बलोत्सेकादुच्चावचं गर्जत्सु दानवेषु, बलिरिदमवादीत्---'हन्त कथमर्भका इव यूथमकृतप्रज्ञा इव निरङ्कुशं प्रतिजानीध्वे ।
॥ इति तृतीयाश्वासः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.