अद्याधीतमागमेषु सरहस्येषु, अद्याराधिता गुरवः, अद्य फलिनो गृहाश्रमाः
किं बहुना ।
अद्यायमन्वयः प्रतिष्ठितो भृगोः यदनुल्लिखितं मनोरथैः, अनवाप्यं तपोभिरपि, आशासनीयं गृहमेधिनां, आसादितमनायासेन मया स्वयमागमनं भगवतोऽधुना' इत्युदाहरति भार्गवे पुनरिदमुवाच वाचस्पतिः – 'पुत्रावुभौ प्रथमजौ भृगुरङ्गिराश्च ख्यातौ कुले शमवतां ननु पद्मयोनेः
तद्भार्गवस्य कुलमाङ्गिरसः प्रपन्न- श्चित्रीयते किमिह सोदरसंप्रयोगे ॥

About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.