परं त्विदमेकमनुस्मारयाम्यादिष्टं यदध्यक्षमेव नः समस्तानां संधानं कुरुतासुरैरिति शाङ्गधन्वना परमेष्ठिने, यदपि च तेन तुभ्यम् ।
शिष्टं यदत्र दुष्टं वा न विवेक्तुं क्षमामहे ।
स जानाति स जानीते त्वं जानीषे तदन्ततः ॥

विस्तारः सः विष्णुः जानाति । क्रियाफलस्य देवगामित्वात्परस्मैपदम् । सः ब्रह्मा जानीते। ब्रह्मणो विश्वाभिमानित्वात् क्रियाफलं कर्तृगामि, अतोऽत्रात्मने पदम् । त्वं जानीषे । बृहस्पतेर्देवगुरुत्वारिकत्याफलमत्र स्पष्ट कर्तृगामि ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.