श्रीपराशर उवाच ।
२.३.१
उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः ॥
Summary
AI
The country that lies north of the ocean and south of the snowy mountains is called Bhāratam, where the descendants of Bharata reside.
२.३.२
नवयोजनसाहस्रो विस्तारोस्य महामुने ।
कर्मभूमिरियं स्वर्गमपवर्गं च गच्छताम् ॥
कर्मभूमिरियं स्वर्गमपवर्गं च गच्छताम् ॥
Summary
AI
O great sage, the extent of this land is nine thousand yojanas. It is the land of action (karmabhūmi) for those seeking to attain heaven or liberation.
२.३.३
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ।
विन्ध्यश्च पारीयात्रश्च सप्तात्र कुलपर्वताः ॥
विन्ध्यश्च पारीयात्रश्च सप्तात्र कुलपर्वताः ॥
Summary
AI
Mahendra, Malaya, Sahya, Śuktimān, Ṛkṣa, Vindhya, and Pāriyātra are the seven principal mountain ranges in this land.
२.३.४
अतः संप्राप्यते स्वर्गो सुक्तिमस्मात्प्रयान्ति वै ।
तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा मुने ॥
तिर्यक्त्वं नरकं चापि यान्त्यतः पुरुषा मुने ॥
Summary
AI
From here, O sage, heaven is attained and liberation is reached; from here, men also go to the state of animals or to hell.
२.३.५
इतः स्वर्गश्च मोक्षश्च मध्यं चान्तश्च गम्यते ।
न ख्लवन्यत्र मर्त्यानां कर्मभूमौ विधीयते ॥
न ख्लवन्यत्र मर्त्यानां कर्मभूमौ विधीयते ॥
Summary
AI
From this place, heaven, liberation, the middle state, and the end are reached; indeed, for mortals, there is no other land of action ordained anywhere else.
२.३.६
भारतस्यास्य वर्षस्य नवभादान्नशामय ।
इद्रद्वीपः कसेरुश्च ताम्रपर्णां गभस्तिमान् ॥
इद्रद्वीपः कसेरुश्च ताम्रपर्णां गभस्तिमान् ॥
Summary
AI
Hear the nine divisions of this land of Bhārata: Indradvīpa, Kaseru, Tāmraparṇī, and Gabhastimān.
२.३.७
नागद्वीपस्तथा साम्यो गन्धर्वस्त्वथ चारुणः ।
अयं तु नवमस्तषां द्वीपः सागारसंवृतः ॥
अयं तु नवमस्तषां द्वीपः सागारसंवृतः ॥
Summary
AI
Also Nāgadvīpa, Saumya, Gandharva, and Vāruṇa; this ninth division among them is the island surrounded by the ocean.
२.३.८
योजनानां सहस्रं तु द्वीपोयं दक्षिणोत्तरात् ।
पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥
पूर्वे किराता यस्यान्ते पश्चिमे यवनाः स्थिताः ॥
Summary
AI
This island extends for a thousand yojanas from south to north; at its eastern limit dwell the Kirātas and at its western limit, the Yavanas.
२.३.९
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शब्द्राश्च भागशः ।
इज्यायुधवणिज्याद्यैर्वर्तयन्तो व्यवस्थिताः ॥
इज्यायुधवणिज्याद्यैर्वर्तयन्तो व्यवस्थिताः ॥
Summary
AI
In the center, Brāhmaṇas, Kṣatriyas, Vaiśyas, and Śūdras are settled in their respective divisions, subsisting through sacrifice, arms, trade, and other occupations.
२.३.१०
शतद्रूचन्द्रभागाद्या हिमयत्पादनिर्गताः ।
वेदस्मृतिमुखाद्याश्च पारीयात्रोद्भवा मुने ॥
वेदस्मृतिमुखाद्याश्च पारीयात्रोद्भवा मुने ॥
Summary
AI
O sage, the Śatadrū, Candrabhāgā, and others flow from the foothills of the Himavat, while the Vedasmṛti and others originate from the Pāriyātra mountains.
२.३.११
नर्मदा मुरसाद्याश्च नद्यो विन्ध्याद्रिनिर्गताः ।
तापीपयोष्णीनिर्विन्ध्या प्रसूखा ऋक्षसंभवाः ॥
तापीपयोष्णीनिर्विन्ध्या प्रसूखा ऋक्षसंभवाः ॥
Summary
AI
Rivers such as the Narmadā and Murasā flow from the Vindhya range, while the Tāpī, Payoṣṇī, and Nirvindhyā originate from the Ṛkṣa mountains.
२.३.१२
गोदावरी भीमरथी कृष्णवेण्यादिकास्तथा ।
सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥
सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ॥
Summary
AI
The Godāvarī, Bhīmarathī, Kṛṣṇaveṇī, and others flowing from the foothills of the Sahya mountains are known to remove the fear of sin.
२.३.१३
कृतमाला ताम्रपर्णिप्रसुखा मलयोद्भवाः ।
त्रिसामा चर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥
त्रिसामा चर्षिकुल्याद्या महेन्द्रप्रभवाः स्मृताः ॥
Summary
AI
The Kṛtamālā, Tāmraparṇī, and others originate from the Malaya mountains, while the Trisāmā, Ṛṣikulyā, and others are known to rise from the Mahendra range.
२.३.१४
ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ।
आसां नद्य उपानद्यः सन्त्यन्याश्च सहस्रशः ॥
आसां नद्य उपानद्यः सन्त्यन्याश्च सहस्रशः ॥
Summary
AI
The Ṛṣikulyā, Kumāra, and others originate from the foothills of the Śuktimān mountains; there are thousands of other secondary rivers and streams connected to these.
२.३.१५
तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः ।
पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥
पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥
Summary
AI
Along these rivers dwell the people of Kuru, Pāñcāla, and other central regions, as well as the inhabitants of eastern lands like Kāmarūpa.
२.३.१६
पुण्ड्राः कलिङ्गा मगधा दक्षिणाद्याश्च सर्वशः ।
तथापरान्ताः सौराष्ट्राः शूराभीरास्तथार्बुदाः ॥
तथापरान्ताः सौराष्ट्राः शूराभीरास्तथार्बुदाः ॥
Summary
AI
Also the Puṇḍras, Kaliṅgas, Magadhas, and all those in the south; likewise the people of the western borders, the Saurāṣṭras, the Śūras, the Ābhīras, and the Arbudas.
२.३.१७
कारूषा मालबाश्चैव पारियात्र निवासिनः ।
सौवीराः सैन्धवा हूणाः साल्वाः कोसलवासिनाः ॥
सौवीराः सैन्धवा हूणाः साल्वाः कोसलवासिनाः ॥
Summary
AI
The Kārūṣas, the Mālavas, and the inhabitants of the Pāriyātra range; the Sauvīras, Saindhavas, Hūṇas, Sālvas, and the dwellers of Kosala.
२.३.१८
माद्रारामास्तथाम्बष्ठा पारसीकादयस्तथा ।
आसां पिबन्ति सलिलं वसन्ति सहिताः सदा ।
समीपतो महाभाग हृष्टपुष्टजनाकुलाः ॥
आसां पिबन्ति सलिलं वसन्ति सहिताः सदा ।
समीपतो महाभाग हृष्टपुष्टजनाकुलाः ॥
Summary
AI
O noble one, the Madras, Ārāmas, Ambaṣṭhas, Pārasīkas, and others, abounding with healthy and contented people, dwell together nearby and always drink the water of these rivers.
२.३.१९
चत्वारि भारते वर्षे युगान्यत्र महामुने ।
कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् ॥
कृतं त्रेता द्वापरञ्च कलिश्चान्यत्र न क्वचित् ॥
Summary
AI
O great sage, in this land of Bhārata exist the four ages—Kṛta, Tretā, Dvāpara, and Kali; they are found nowhere else.
२.३.२०
तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्वनः ।
दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥
दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥
Summary
AI
Here, sages perform penance, sacrificers offer oblations, and gifts are reverently bestowed for the sake of the next world.
२.३.२१
पुरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते ।
यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥
यज्ञैर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥
Summary
AI
In Jambūdvīpa, Viṣṇu, the embodiment and Lord of sacrifice, is constantly worshiped by men through rituals; in other islands, He is worshiped in a different manner.
२.३.२२
अत्रापि भारतं श्रेष्ठं जन्बूद्वीपे महामुने ।
यतो हि कर्मभूरेषा ह्यतोन्या भोगभूमयः ॥
यतो हि कर्मभूरेषा ह्यतोन्या भोगभूमयः ॥
Summary
AI
O great sage, even within Jambūdvīpa, Bhārata is the most excellent because it is the land of action (karmabhūmi), whereas other regions are merely lands of enjoyment (bhogabhūmi).
२.३.२३
अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसंचयात् ॥
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसंचयात् ॥
Summary
AI
O virtuous one, a living being attains human birth in this land only after thousands of thousands of births through the accumulation of great merit.
२.३.२४
गायन्ति देवाः किल गीतकानि
धन्यास्तु ते भारत भूमिभागे ।
स्वर्गापवर्गास्पदमार्गभूते
भवन्ति भूयः पुरुषाः सुरत्वात् ॥
धन्यास्तु ते भारत भूमिभागे ।
स्वर्गापवर्गास्पदमार्गभूते
भवन्ति भूयः पुरुषाः सुरत्वात् ॥
Summary
AI
The gods sing songs of praise: "Truly blessed are those men who, after their divine existence, are reborn in the land of Bhārata, which is the path leading to heaven and final liberation (apavarga)."
२.३.२५
कर्माण्यसंकल्पिततत्फलानि
संन्यस्य विष्णो परमात्म्भूते ।
अवाप्य तां कर्ममहीमनन्ते
तस्मिल्लयं ये त्वमलाः प्रयान्ति ॥
संन्यस्य विष्णो परमात्म्भूते ।
अवाप्य तां कर्ममहीमनन्ते
तस्मिल्लयं ये त्वमलाः प्रयान्ति ॥
Summary
AI
Those stainless ones are blessed who, having reached this land of action, renounce the fruits of their deeds unto Viṣṇu, the Supreme Soul, and attain dissolution in that Infinite Being.
२.३.२६
जानीम नैतत्क्व वयं विलीने
स्वर्गप्रदे कर्मणि देहबन्धम् ।
प्राप्स्याम धन्याः खलु ते मनुष्या
ये भारते नेन्द्रियविप्रहीनाः ॥
स्वर्गप्रदे कर्मणि देहबन्धम् ।
प्राप्स्याम धन्याः खलु ते मनुष्या
ये भारते नेन्द्रियविप्रहीनाः ॥
Summary
AI
We do not know where we shall be reborn once the merit of our heaven-bestowing deeds is exhausted; truly blessed are those humans in Bhārata who are not deprived of their senses.
२.३.२७
नववर्षं तु मैत्रेय जम्बुद्वीपमिदं मया ।
लक्षयोजनविस्तारं संक्षेपात्कथितं तव ॥
लक्षयोजनविस्तारं संक्षेपात्कथितं तव ॥
Summary
AI
O Maitreya, I have briefly described to you this Jambūdvīpa, which consists of nine regions (varṣas) and extends over a hundred thousand yojanas.
२.३.२८
जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः ।
मैत्रेय वलयाकारः स्थितः क्षारोदधिर्बहिः ॥
मैत्रेय वलयाकारः स्थितः क्षारोदधिर्बहिः ॥
Summary
AI
O Maitreya, surrounding Jambūdvīpa is the salty ocean (Kṣārodadhi), which is a hundred thousand yojanas in breadth and encompasses the island like a ring.
इति श्रिविष्णुमहापुराणे द्वितीयेऽंशे तृतीयोध्यायः ।
॥ इति द्वितीयांशे तृतीयोऽध्यायः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.