श्रीपराशर उवाच ।
२.४.१
क्षारोदेन यथा द्वीपो जम्बूसंज्ञो ऽभिवेष्टितः ।
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस्तथा स्थितः ॥
Summary
AI
Just as the island named Jambūdvīpa is surrounded by the salt ocean, Plakṣadvīpa is situated surrounding the salt ocean in a similar manner.
२.४.२
जम्बूद्वीपस्य विस्तारः शतसाहस्रसंमितः ।
स एवं द्विगुणो ब्रह्मन्प्लक्षद्वीप उदाहृतः ॥
स एवं द्विगुणो ब्रह्मन्प्लक्षद्वीप उदाहृतः ॥
Summary
AI
O Brahman, the extent of Jambūdvīpa is measured at one hundred thousand yojanas; Plakṣadvīpa is declared to be twice that size.
२.४.३
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै ।
ज्येष्ठ शान्तहयो नाम शिशिरस्तदनन्तरः ॥
ज्येष्ठ शान्तहयो नाम शिशिरस्तदनन्तरः ॥
Summary
AI
Medhātithi, the lord of Plakṣadvīpa, had seven sons. The eldest was named Śāntahaya, followed by Śiśira.
२.४.४
सुखोदयस्तथानन्दः शिवः क्षेमक एव च ।
ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥
ध्रुवश्च सप्तमस्तेषां प्लक्षद्वीपेश्वरा हि ते ॥
Summary
AI
The other sons were Sukhodaya, Ānanda, Śiva, Kṣemaka, and the seventh was Dhruva. They were the rulers of the regions of Plakṣadvīpa.
२.४.५
पूर्वं शान्तहयं वर्षं शिशिरं च सुखं तथा ।
आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥
आनन्दं च शिवं चैव क्षेमकं ध्रुवमेव च ॥
Summary
AI
The regions, named after them, are Śāntahaya, Śiśira, Sukha, Ānanda, Śiva, Kṣemaka, and Dhruva.
२.४.६
मर्यादाकारकास्तेषां तथान्ये वर्षपर्वताः ।
सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम ॥
सप्तैव तेषां नामानि शृणुष्व मुनिसत्तम ॥
Summary
AI
O best of sages, there are seven boundary mountains for those regions. Listen now to their names.
२.४.७
गोमदेश्चैव चन्द्रश्च नारदौ दुन्दुभिस्तथा ।
सोमकः मुमनाश्चैव वैभ्राजश्चैव सप्तमः ॥
सोमकः मुमनाश्चैव वैभ्राजश्चैव सप्तमः ॥
Summary
AI
These mountains are Gomeda, Candra, Nārada, Dundubhi, Somaka, Sumanas, and the seventh is Vaibhrāja.
२.४.८
वर्षाचलेषु रम्येषु वर्षेष्वेतेषु चानघाः ।
वसंति देवगन्धर्वसहिताः सततं प्रजाः ॥
वसंति देवगन्धर्वसहिताः सततं प्रजाः ॥
Summary
AI
O sinless one, in these beautiful mountain ranges and regions, the people constantly dwell along with devas and gandharvas.
२.४.९
तेषु पुण्या जनपदाश्चिराच्च म्रियते जनः ।
नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥
नाधयो व्याधयो वापि सर्वकालसुखं हि तत् ॥
Summary
AI
Those districts are holy, and the people live for a very long time. There are no mental or physical ailments, and the land is happy at all times.
२.४.१०
तेषां नद्यस्तु सप्तैव वर्षाणां च समुद्रगाः ।
नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥
नामतस्ताः प्रवक्ष्यामि श्रुताः पापं हरन्ति याः ॥
Summary
AI
There are seven main rivers in those regions that flow to the ocean. I shall name them, for hearing of them removes sins.
२.४.११
अनुतप्ता शिखी चैव विपाशा त्रिदिवाक्लमः ।
अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥
अमृता सुकृता चैव सप्तैतास्तत्र निम्नगाः ॥
Summary
AI
The seven rivers there are the Anutaptā, Śikhī, Vipāśā, Tridivā, Klama, Amṛtā, and Sukṛtā.
२.४.१२
एते शैलास्तथा नद्यः प्रधानाः कथितास्तव ।
क्षुद्रशैलास्तथा नद्यस्तत्र सन्ति सहस्रशः ।
ताः पिबन्दि सदाहृष्टा नदीर्जनपदास्तुते ॥
क्षुद्रशैलास्तथा नद्यस्तत्र सन्ति सहस्रशः ।
ताः पिबन्दि सदाहृष्टा नदीर्जनपदास्तुते ॥
Summary
AI
I have described the principal mountains and rivers to you; however, there are thousands of minor hills and streams. The inhabitants joyfully drink from those rivers.
२.४.१३
अपसर्पिणी न तेषां वै न चैवोत्सर्पिणी द्विज ।
न त्वेवास्ति युगावस्था तेषु स्तानेषु सप्तसु ॥
न त्वेवास्ति युगावस्था तेषु स्तानेषु सप्तसु ॥
Summary
AI
O twice-born, for them there is neither decline nor increase of vitality. In those seven regions, the state of changing yugas does not exist.
२.४.१४
त्रेतायुगसमः कालः सर्वदैव महामते ।
प्लक्षद्वीपादिषु ब्रह्मञ्शाकद्वीपान्तिकेषु वै ॥
प्लक्षद्वीपादिषु ब्रह्मञ्शाकद्वीपान्तिकेषु वै ॥
Summary
AI
O wise Brahman, in the islands from Plakṣadvīpa to Śākadvīpa, the time is eternally equivalent to the Tretāyuga.
२.४.१५
पञ्च वर्षसहस्राणि जना जीवन्त्यनामयाः ।
धर्मः पञ्चस्वथैतेषु वर्णाश्रमविभागशः ॥
धर्मः पञ्चस्वथैतेषु वर्णाश्रमविभागशः ॥
Summary
AI
People live for five thousand years free from disease. In these five islands, righteousness is practiced according to the divisions of caste and stage of life.
२.४.१६
वर्णाश्च तत्र चत्वार- ।
स्तान्निबोध वदामि ते ॥
स्तान्निबोध वदामि ते ॥
Summary
AI
There are four castes there; listen as I describe them to you.
२.४.१७
आर्यकाः कुरारश्चैव विदिश्या भाविनश्चे ते । विप्रक्षत्रिवैश्यास्ते शूद्राश्च मुनिसत्तम ॥
Summary
AI
O best of sages, the castes are the Āryakas, Kuraras, Vidiśyas, and Bhāvins, who correspond to the Vipras, Kṣatriyas, Vaiśyas, and Śūdras.
२.४.१८
ज्मबूवृक्षप्रमाणस्तु तन्मध्ये सुमहांस्तरुः ।
प्लक्षस्तन्नामसंज्ञोयं प्लक्षद्वीपो द्विजोत्तम ॥
प्लक्षस्तन्नामसंज्ञोयं प्लक्षद्वीपो द्विजोत्तम ॥
Summary
AI
O best of the twice-born, in the center of that island is a massive Plakṣa tree, equal in size to the Jambū tree. The island is named Plakṣadvīpa after it.
२.४.१९
इज्यते तत्र भगवांस्तैर्वर्णैरार्यकादिभिः ।
सीमरूपि जगत्स्त्रष्टा सर्वः सर्वेश्वरो हरिः ॥
सीमरूपि जगत्स्त्रष्टा सर्वः सर्वेश्वरो हरिः ॥
Summary
AI
There, Lord Hari, the creator of the universe and the Lord of all, is worshipped in the form of Soma by the Āryakas and other castes.
२.४.२०
प्लक्षद्वीपप्रमाणेन प्लक्षद्वीपः समावृतः ।
तथैवेक्षुरमोदेन परिवेषानुकारिणा ॥
तथैवेक्षुरमोदेन परिवेषानुकारिणा ॥
Summary
AI
Plakṣadvīpa is surrounded by the ocean of sugarcane juice, which is equal in extent to the island and encircles it like a perimeter.
२.४.२१
इत्येवं तव मैत्रेय प्लक्षद्वीप उदाहृतः ।
संक्षेपेण मया भूयः शाल्मलं मे निसामय ॥
संक्षेपेण मया भूयः शाल्मलं मे निसामय ॥
Summary
AI
O Maitreya, thus have I briefly described Plakṣadvīpa to you. Now, listen to my account of Śālmaladvīpa.
२.४.२२
शाल्ममस्येश्वरोःवीरो वपुष्मांस्तत्सुताञ्छृणु ।
तेषां तु नामसंज्ञानि सप्तवर्षाणि तानि वै ॥
तेषां तु नामसंज्ञानि सप्तवर्षाणि तानि वै ॥
Summary
AI
Vapuṣmān was the heroic ruler of Śālmaladvīpa. Hear now the names of his sons, after whom the seven regions (varṣas) of that island are named.
२.४.२३
श्वेतोथ हरितश्चैव जीमूतो रोहितस्तथा ।
वैद्युतो मानसश्चैव सुप्रभश्च महामुने ॥
वैद्युतो मानसश्चैव सुप्रभश्च महामुने ॥
Summary
AI
O great sage, the sons (and their respective regions) are Śveta, Harita, Jīmūta, Rohita, Vaidyuta, Mānasa, and Suprabha.
२.४.२४
शाल्मलेन समुद्रोसौ द्वीपेनेक्षुरसोदकः ।
विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः ॥
विस्तारद्विगुणेनाथ सर्वतः संवृतः स्थितः ॥
Summary
AI
The ocean of sugarcane juice (Ikṣurasoda) is completely surrounded by the island of Śālmaladvīpa, which is twice the extent of the sea.
२.४.२५
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः ।
वर्षाभिव्यञ्जका ये तु तथा सप्त च निम्नगाः ॥
वर्षाभिव्यञ्जका ये तु तथा सप्त च निम्नगाः ॥
Summary
AI
In that island, there are seven mountains known as sources of gems, which mark the boundaries of the regions, as well as seven rivers.
२.४.२६
कुमुदश्चेन्नतश्चैव तृतीयश्च बलाहकः ।
द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥
द्रोणो यत्र महौषध्यः स चतुर्थो महीधरः ॥
Summary
AI
The mountains are Kumuda, Unnata, and Valāhaka as the third. The fourth is Droṇa, where great medicinal herbs are found.
२.४.२७
कङ्कस्तुपञ्चमः षष्ठी महिषः सप्तमस्तथा ।
ककुद्मान्पर्वतवरः सरिन्नामानि मे शृणु ॥
ककुद्मान्पर्वतवरः सरिन्नामानि मे शृणु ॥
Summary
AI
Kaṅka is the fifth, Mahiṣa is the sixth, and the seventh is the excellent mountain Kakudmān. Now listen to the names of the rivers.
२.४.२८
योनितोयो वितृष्णा च चन्द्रा मुक्ता विमोचनी ।
निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥
निवृत्तिः सप्तमी तासां स्मृतास्ताः पापशान्तिदाः ॥
Summary
AI
The rivers are Yonitoyā, Vitṛṣṇā, Candrā, Muktā, Vimocanī, and Nivṛtti as the seventh. These rivers are remembered for removing sins.
२.४.२९
श्वेतञ्च हरितं चैव वैद्युतं मानसं तथा ।
जीमूतं रोहितं चैव सुप्रभं चापि शोभनम् ।
सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि वै ॥
जीमूतं रोहितं चैव सुप्रभं चापि शोभनम् ।
सप्तैतानि तु वर्षाणि चातुर्वर्ण्ययुतानि वै ॥
Summary
AI
The seven beautiful regions are Śveta, Harita, Vaidyuta, Mānasa, Jīmūta, Rohita, and Suprabha. These divisions are inhabited by the four castes.
२.४.३०
शाल्मले ये तु वर्णाश्च वसन्त्येते महामुने ।
कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक्पृथक् ॥
कपिलाश्चारुणाः पीताः कृष्णाश्चैव पृथक्पृथक् ॥
Summary
AI
O great sage, the castes residing in Śālmaladvīpa are known respectively as the Kapilās, Āruṇas, Pītas, and Kṛṣṇas.
२.४.३१
ब्रह्मणाः क्षत्रया वैश्याः शुद्राश्चैव यजन्तितम् ।
भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् ।
वायुभूतं मखश्रेष्ठैर्यज्वनो यज्ञसंस्थितिम् ॥
भगवन्तं समस्तस्य विष्णुमात्मानमव्ययम् ।
वायुभूतं मखश्रेष्ठैर्यज्वनो यज्ञसंस्थितिम् ॥
Summary
AI
The Brāhmaṇas, Kṣatriyas, Vaiśyas, and Śūdras there worship Lord Viṣṇu, the imperishable soul of all, in the form of Vāyu (wind) through excellent sacrifices.
२.४.३२
देवानामत्र सान्नध्यमतीव सुमनोहरे ।
शाल्मलिः सुमहान्वृक्षो नाम्ना निर्वृतिकारकः ॥
शाल्मलिः सुमहान्वृक्षो नाम्ना निर्वृतिकारकः ॥
Summary
AI
In this extremely beautiful land, the gods are ever present. There stands a massive Śālmali tree, which gives the island its name and provides delight.
२.४.३३
एष द्वीपः समुद्रेण सुरोदेन समावृतः ।
विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः ॥
विस्ताराच्छाल्मलस्यैव समेन तु समन्ततः ॥
Summary
AI
This island of Śālmala is surrounded on all sides by the Suroda ocean (the sea of wine), which is equal in extent to the island itself.
२.४.३४
सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ।
शाल्मलस्य तु विस्तराद्द्विगुणेन समन्ततः ॥
शाल्मलस्य तु विस्तराद्द्विगुणेन समन्ततः ॥
Summary
AI
The Suroda ocean is, in turn, surrounded on all sides by Kuśadvīpa, which is twice the breadth of Śālmaladvīpa.
२.४.३५
ज्योतिष्मतः कुशद्वीपे ।
सप्त पुत्राञ्छृणुष्व तान् ॥
सप्त पुत्राञ्छृणुष्व तान् ॥
Summary
AI
Now hear about the seven sons of Jyotiṣmat, the ruler of Kuśadvīpa.
२.४.३६
उद्भिदो वेणुमांश्चैव वेरथो लम्बनो धृतिः ।
प्रभाकरोतिकपिलस्तन्नामा वर्षपद्धतिः ॥
प्रभाकरोतिकपिलस्तन्नामा वर्षपद्धतिः ॥
Summary
AI
The sons are Udbhid, Veṇumān, Vairatha, Lambana, Dhṛti, Prabhākara, and Atikapila. The regions of the island bear the same names.
२.४.३७
तस्मिन्वसन्ति मनुजाः सह दैते यदानवैः ।
तथैव देवगन्धर्वयक्षकिंपुरुषादयः ॥
तथैव देवगन्धर्वयक्षकिंपुरुषादयः ॥
Summary
AI
In that island, human beings dwell together with Daityas, Dānavas, Devas, Gandharvas, Yakṣas, and Kimpuruṣas.
२.४.३८
वर्णास्तत्रापि चत्वारो निजानुष्ठानतत्पराः ।
दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने ॥
दमिनः शुष्मिणः स्नेहा मन्देहाश्च महामुने ॥
Summary
AI
O great sage, there too the four castes are devoted to their respective duties. They are called the Damins, Śuṣmiṇs, Snehas, and Mandehas.
२.४.३९
ब्रह्मणाः क्षत्रिया वैश्याः ।
शूद्राश्चानुक्रमोदिताः ॥
शूद्राश्चानुक्रमोदिताः ॥
Summary
AI
These four groups correspond respectively to the Brāhmaṇas, Kṣatriyas, Vaiśyas, and Śūdras.
२.४.४०
यथोस्ककर्मकर्तृत्वात्स्वाधिकारोक्षयाय ते ।
तत्रैव तं कुशद्वीपे ब्रह्मरूपं जनार्दनम् ।
यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् ॥
तत्रैव तं कुशद्वीपे ब्रह्मरूपं जनार्दनम् ।
यजन्तः क्षपयन्त्युग्रमधिकारफलप्रदम् ॥
Summary
AI
By performing their prescribed duties to ensure the continuity of their status, the inhabitants of Kuśadvīpa worship Janārdana in the form of Brahmā. Through this devotion, they exhaust the results of their actions.
२.४.४१
विद्रुमो हेमशैलश्च द्यतिमान्पुष्पवांस्तथा ।
कुशशयो हरिश्चैव सप्तमो मन्दराचलः ॥
कुशशयो हरिश्चैव सप्तमो मन्दराचलः ॥
Summary
AI
The seven mountain ranges of this island are Vidruma, Hemaśaila, Dyatimān, Puṣpavān, Kuśāśaya, Hari, and the seventh is Mandarācala.
२.४.४२
वर्षाचलास्तु सप्तैते तत्र द्वीपे महामुने ।
नद्यश्च सप्त तासां तु शृणु नामान्यनुक्रमात् ॥
नद्यश्च सप्त तासां तु शृणु नामान्यनुक्रमात् ॥
Summary
AI
O great sage, these are the seven mountain ranges of that island. There are also seven rivers; listen to their names in order.
२.४.४३
धूतपापा शिवा चैव पवित्रा संमतिस्तथा ।
विद्युदम्भा मही चान्या सर्वपाप हरास्त्विमाः ॥
विद्युदम्भा मही चान्या सर्वपाप हरास्त्विमाः ॥
Summary
AI
Dhūtapāpā, Śivā, Pavitrā, Saṃmati, Vidyudambhā, and Mahī are the rivers there, all of which remove all sins.
२.४.४४
अन्याः सहस्रशस्तत्र क्षुद्रनद्यस्तथाचलाः ।
कुशद्वीपे गुशस्तम्बः संज्ञया तस्य तत्स्मृतम् ॥
कुशद्वीपे गुशस्तम्बः संज्ञया तस्य तत्स्मृतम् ॥
Summary
AI
There are thousands of other small rivers and mountains. Kuśadvīpa is so named because of the clump of Kuśa grass (Kuśastamba) found there.
२.४.४५
तत्प्रमाणेन स द्वीपो घृतोदेन समावृतः ।
घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः ॥
घृतोदश्च समुद्रो वै क्रौञ्चद्वीपेन संवृतः ॥
Summary
AI
That island is surrounded by the ocean of clarified butter (Ghṛtoda), which is equal to it in size. The Ghṛtoda ocean is, in turn, surrounded by Krauñcadvīpa.
२.४.४६
क्रौञ्चद्वीपो महाभाग श्रुयताञ्चापरो महान् ।
कुशद्वीपस्य विस्तारा द्द्विगुणो यस्य विस्तरः ॥
कुशद्वीपस्य विस्तारा द्द्विगुणो यस्य विस्तरः ॥
Summary
AI
O noble one, now hear about the great Krauñcadvīpa, whose extent is twice the size of Kuśadvīpa.
२.४.४७
क्रौञ्चद्वीपे द्युतिमतः पुत्रास्तस्य महात्मनः ।
तन्नामानि च वर्षाणि तेषां चक्रे महीपतिः ॥
तन्नामानि च वर्षाणि तेषां चक्रे महीपतिः ॥
Summary
AI
The high-souled king Dyutimān had sons in Krauñcadvīpa, and he named the various regions (varṣas) after them.
२.४.४८
कुशलो मल्लगश्चोष्णः पीवरोथान्धकारकः ।
मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता मुने ॥
मुनिश्च दुन्दुभिश्चैव सप्तैते तत्सुता मुने ॥
Summary
AI
O sage, his seven sons were Kuśala, Mallaga, Uṣṇa, Pīvara, Andhakāraka, Muni, and Dundubhi.
२.४.४९
तत्रापि देवगन्धर्वसेविताः सुमनोहराः ।
वर्षाचला महाबुद्धे तेषां नामानि मे शृणु ॥
वर्षाचला महाबुद्धे तेषां नामानि मे शृणु ॥
Summary
AI
O wise one, in that island also are beautiful mountain ranges frequented by gods and Gandharvas; hear their names from me.
॥ इति द्वितीयांशे चतुर्थोऽध्यायः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.