श्रीमैत्रेय उवाच ।
२.२.१
कथितो भवता ब्रह्मन्सर्गः स्वायम्भुवश्च मे ।
श्रोतुमिच्छाम्यहं त्वत्तः सकलं मण्डलं भुवः ॥
श्रोतुमिच्छाम्यहं त्वत्तः सकलं मण्डलं भुवः ॥
Summary
AI
O Brahman, the Svāyambhuva creation has been described by you to me. Now, I wish to hear from you about the entire sphere of the Earth.
२.२.२
यावन्तः सागर द्वीपास्तथा वर्षाणि पर्वताः ।
वनानि सतितः पुर्यो देवादीनां तथा मुने ॥
वनानि सतितः पुर्यो देवादीनां तथा मुने ॥
Summary
AI
O sage, I desire to know about all the oceans, islands, regions, mountains, forests, rivers, and the cities of the deities.
२.२.३
यत्प्रमाणमिदं सर्वं यदाधारं यदात्मकम् ।
संस्थानमस्य च मुने यथाबद्वक्तुमर्हसि ॥
संस्थानमस्य च मुने यथाबद्वक्तुमर्हसि ॥
Summary
AI
O sage, you should describe as it is the extent, the support, the nature, and the configuration of all this.
श्रीपराशर उवाच ।
२.२.४
मैत्रेय श्रूयतामेतत्संक्षेपाद्गदतो मम ।
नास्य वर्षशतेनापि वक्तुं शक्यो हि विस्तरः ॥
नास्य वर्षशतेनापि वक्तुं शक्यो हि विस्तरः ॥
Summary
AI
O Maitreya, listen to this as I speak in brief. Indeed, its full detail cannot be described even in a hundred years.
२.२.५
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो द्विज ।
कुशः क्रैञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥
कुशः क्रैञ्चस्तथा शाकः पुष्करश्चैव सप्तमः ॥
Summary
AI
O twice-born, the islands are named Jambū and Plakṣa, followed by Śālmali, Kuśa, Krauñca, Śāka, and the seventh is Puṣkara.
२.२.६
एते द्वीपाः समुद्रैस्तु सप्तसप्तभिरावृताः ।
लवणेक्षुसुरासर्पिर्दधिगुग्धजलैः समम् ॥
लवणेक्षुसुरासर्पिर्दधिगुग्धजलैः समम् ॥
Summary
AI
These seven islands are surrounded by seven oceans of salt water, sugarcane juice, wine, clarified butter, curds, milk, and fresh water, respectively.
२.२.९
प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्रि विस्तृत ।
मूले षोडशसाहस्रो विस्तारस्तस्य सर्वशः ॥
मूले षोडशसाहस्रो विस्तारस्तस्य सर्वशः ॥
Summary
AI
Mount Meru extends sixteen thousand yojanas below the surface and is thirty-two thousand wide at the summit. Its breadth at the base is sixteen thousand yojanas.
२.२.१०
भूपद्मस्यास्य शैलोसौ ।
कर्णिकाकारसंस्थितः ॥
कर्णिकाकारसंस्थितः ॥
Summary
AI
This mountain is situated like the pericarp of the lotus-shaped Earth.
२.२.११
हिमावान्हेमकूटश्च विषधश्चस्य दक्षिणे ।
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ॥
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ॥
Summary
AI
To the south of Meru lie the regional mountains Himavān, Hemakūṭa, and Niṣadha. To the north are Nīla, Śveta, and Śṛṅgī.
२.२.१२
लक्षप्रमाणो द्वौ मध्यौ दशहीनास्तथापरे ।
सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥
सहस्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥
Summary
AI
The two central mountains are one hundred thousand yojanas in extent, while the others are ten thousand less. They are two thousand yojanas high and equally wide.
२.२.१३
भारतं प्रथमं वर्षं ततः किपुरुषं स्मृतम् ।
हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विज ॥
हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विज ॥
Summary
AI
O twice-born, to the south of Mount Meru, the first region is Bhāratam, then Kimpuruṣam, and another is Harivarṣam.
२.२.१४
रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् ।
उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥
उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥
Summary
AI
To the north of Meru is Ramyakam, followed by Hiraṇmayam and Uttara-kuravaḥ, just as Bhāratam is situated to the south.
२.२.१५
नवसाहस्रमैकैकमेतेषां द्विजसत्तम ।
इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥
इलावृतं च तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥
Summary
AI
O best of the twice-born, each of these regions measures nine thousand yojanas. In the center is Ilāvṛtam, where the golden Mount Meru rises.
२.२.१६
मेरोश्चतुर्दिशं तत्तु नवसाहस्रविस्तृतम् ।
इलावृतं महाभाग चत्वारश्चात्र पर्वताः ॥
इलावृतं महाभाग चत्वारश्चात्र पर्वताः ॥
Summary
AI
O noble one, the region of Ilāvṛtam extends nine thousand yojanas on all four sides of Mount Meru, and there are four mountains here.
२.२.१७
विष्कंभारचिता मेरोर्योजनायुतमुच्छ्रितः ।
नवैः सरोभिश्च समं दिक्ष्वेते केशवाचलाः ॥
नवैः सरोभिश्च समं दिक्ष्वेते केशवाचलाः ॥
Summary
AI
These mountains, serving as buttresses to Meru, are ten thousand yojanas high. Along with nine lakes, these Keśava mountains stand in the four directions.
२.२.१८
पुर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ।
विप्ललः पश्चिमे पार्श्वे मुपार्श्वश्चोत्तर स्मृतः ॥
विप्ललः पश्चिमे पार्श्वे मुपार्श्वश्चोत्तर स्मृतः ॥
Summary
AI
To the east is Mandara, to the south is Gandhamādana, on the western side is Vipula, and to the north is Supārśva.
२.२.१९
कदम्बस्तेषु जम्बूश्च पिप्पलो वट एव च ।
एकादशशतायामाः पादपा गिरिकेतवः ॥
एकादशशतायामाः पादपा गिरिकेतवः ॥
Summary
AI
On these mountains stand the Kadamba, Jambū, Pippala, and Vaṭa trees, respectively, measuring eleven hundred yojanas in height like mountain banners.
२.२.२०
जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महामुने ।
महागजप्रमामानि जम्ब्वास्तस्याः फलनि वै ।
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥
महागजप्रमामानि जम्ब्वास्तस्याः फलनि वै ।
पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥
Summary
AI
O great sage, that Jambū tree is the reason for the name of Jambūdvīpa. Its fruits, as large as great elephants, fall upon the mountain's back and shatter everywhere.
२.२.२१
रसेन तेषां प्रख्याता तत्र जाम्बूनदीति वै ।
सरित्प्रवर्तते चापि पीयते तन्निवासिभिः ॥
सरित्प्रवर्तते चापि पीयते तन्निवासिभिः ॥
Summary
AI
From the juice of those fruits, the famous river named Jāmbūnadī flows there, and its water is drunk by the inhabitants.
२.२.२२
न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः ।
तत्पानात्स्वच्छमनासांजनानां तत्र जायते ॥
तत्पानात्स्वच्छमनासांजनानां तत्र जायते ॥
Summary
AI
By drinking that juice, the pure-minded people there do not experience perspiration, foul odor, old age, or decay of the senses.
२.२.२३
तीरमृत्तद्रसं प्राप्य सुखवायुविशोषिता ।
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥
जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥
Summary
AI
The mud on the banks, having absorbed that juice and being dried by the pleasant breeze, becomes the gold known as Jāmbūnada, which serves as the ornament of the Siddhas.
२.२.२४
भद्राश्वं पूर्वतो मेरोः केतुमालं च पश्चिमे ।
वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्यमिलावृतः ॥
वर्षे द्वे तु मुनिश्रेष्ठ तयोर्मध्यमिलावृतः ॥
Summary
AI
O best of sages, Bhadrāśva lies to the east of Mount Meru, and Ketumāla to the west. Between these two regions lies Ilāvṛta.
२.२.२५
वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् ।
वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥
वैभ्राजं पश्चिमे तद्वदुत्तरे नन्दनं स्मृतम् ॥
Summary
AI
To the east is the Caitraratha forest; to the south is Gandhamādana; to the west is Vaibhrāja; and to the north is Nandana.
२.२.२६
अरुणोदं महाभद्रमसितोदं समानसम् ।
सरांस्योतानि चत्वारि देवभोग्यानि सर्वदा ॥
सरांस्योतानि चत्वारि देवभोग्यानि सर्वदा ॥
Summary
AI
Aruṇoda, Mahābhadra, Asitoda, and Mānasa are the four lakes always enjoyed by the gods.
२.२.२७
शीताम्भश्च कुमुन्दश्च कुररी माल्यवांस्तथा ।
वैकङ्कप्रसुखा मेरोः पूर्वतः केसराचलाः ॥
वैकङ्कप्रसुखा मेरोः पूर्वतः केसराचलाः ॥
Summary
AI
Śītāmbhas, Kumunda, Kurarī, Mālyavān, Vaikaṅka, and others are the filament-like mountains situated to the east of Mount Meru.
२.२.२८
त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा ।
निषदाद्या दक्षिणतस्तस्य केसरपर्वतः ॥
निषदाद्या दक्षिणतस्तस्य केसरपर्वतः ॥
Summary
AI
Trikūṭa, Śiśira, Pataṅga, Rucaka, and the Niṣadha range are the filament-like mountains to its south.
२.२.२९
शिखिवासाः सवैडूर्यः कपिलो गन्धमादनः ।
जारुधिप्रमुखास्तद्वत्पश्चिमे केसराचलाः ॥
जारुधिप्रमुखास्तद्वत्पश्चिमे केसराचलाः ॥
Summary
AI
Śikhivāsa, Vaidūrya, Kapila, Gandhamādana, Jārudhi, and others are the filament-like mountains to the west.
२.२.३०
मेरोरनन्तराङ्गेषु जठरादिष्ववस्थिताः ।
शंशकूटोथ ऋषभो हंसो नागस्तथा परः ।
कालञ्जनाद्याश्च तथा उत्तरे केसराचलाः ॥
शंशकूटोथ ऋषभो हंसो नागस्तथा परः ।
कालञ्जनाद्याश्च तथा उत्तरे केसराचलाः ॥
Summary
AI
Situated on the immediate flanks of Mount Meru, such as Jaṭhara and others, are Śaṃśakūṭa, Ṛṣabha, Haṃsa, Nāga, and Kālañjana, which are the filament-like mountains to the north.
२.२.३१
चतुर्दशसहस्राणि योजनानां महापुरी ।
मेरोरुपरि मैत्रेय ब्रह्मणः प्रथिता दिवि ॥
मेरोरुपरि मैत्रेय ब्रह्मणः प्रथिता दिवि ॥
Summary
AI
O Maitreya, on the summit of Mount Meru in the sky is the renowned great city of Brahmā, extending fourteen thousand yojanas.
२.२.३२
तस्याःसमन्ततश्चाष्टौ दिशासु विदिशासु च ।
इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः ॥
इन्द्रादिलोकपालानां प्रख्याताः प्रवराः पुरः ॥
Summary
AI
Surrounding it in the eight cardinal and intermediate directions are the famous and excellent cities of the world-guardians, starting with Indra.
२.२.३३
विष्णुपादविनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् ।
समन्ताद्ब्रह्यणः पुर्यां गङ्ग पतति वै दिवः ॥
समन्ताद्ब्रह्यणः पुर्यां गङ्ग पतति वै दिवः ॥
Summary
AI
Issuing from the foot of Viṣṇu and washing the orb of the moon, the Gaṅgā falls from the sky all around into the city of Brahmā.
२.२.३४
सा तत्र पतिता दिक्षु चतुर्धा प्रतिपद्यते ।
सीता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात् ॥
सीता चालकनन्दा च चक्षुर्भद्रा च वै क्रमात् ॥
Summary
AI
Having fallen there, she divides into four directions, becoming the Sītā, Alakanandā, Cakṣu, and Bhadrā respectively.
२.२.३५
पूर्वेण शैलाच्छीता तु शैलं यात्यन्तरीक्षगा ।
ततश्च पूर्ववर्षैण भद्राश्वैनैति सार्णवम् ॥
ततश्च पूर्ववर्षैण भद्राश्वैनैति सार्णवम् ॥
Summary
AI
Traveling through the sky, the Sītā flows from mountain to mountain in the east, and then passing through the eastern region of Bhadrāśva, she reaches the ocean.
२.२.३६
तथैवालकनन्दापि दक्षिणेनैत्य भारतम् ।
प्रयाति सागरं भूत्वा सप्तभेदा महामुने ॥
प्रयाति सागरं भूत्वा सप्तभेदा महामुने ॥
Summary
AI
Similarly, O great sage, the Alakanandā flows to the south, enters Bhārata, and after dividing into seven branches, reaches the ocean.
२.२.३७
चक्षुश्चं पश्चिमगिरीनतीत्य सकलांस्ततः ।
पश्चिमं केतुमालाख्य वर्षं गत्वैति सागरम् ॥
पश्चिमं केतुमालाख्य वर्षं गत्वैति सागरम् ॥
Summary
AI
The Cakṣu, crossing all the western mountains and passing through the western region called Ketumāla, flows into the ocean.
२.२.३८
भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् ।
अतीत्योत्तरमम्भोधिं समभ्येति महामुने ॥
अतीत्योत्तरमम्भोधिं समभ्येति महामुने ॥
Summary
AI
Likewise, O great sage, the Bhadrā crosses the northern mountains and the region of Uttarakuru to reach the northern ocean.
२.२.३९
आनीलनिषधायामौ माल्यवद्गन्धमादनौ ।
तयोर्मध्यगतो मेरूः कर्णिकाकारसंस्थितः ॥
तयोर्मध्यगतो मेरूः कर्णिकाकारसंस्थितः ॥
Summary
AI
Mālyavān and Gandhamādana extend as far as the Nīla and Niṣadha ranges; between them stands Mount Meru, situated like the pericarp of a lotus.
२.२.४०
भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ।
पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ॥
पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ॥
Summary
AI
Beyond the boundary mountains, the regions of Bhārata, Ketumāla, Bhadrāśva, and Kuru are the petals of the world-lotus.
२.२.४१
जठरो हेमकूटश्च मर्यादापर्वतावुभौ ।
तौ दक्षिमोत्तरायामावानीलनिषधायतौ ॥
तौ दक्षिमोत्तरायामावानीलनिषधायतौ ॥
Summary
AI
Jaṭhara and Hemakūṭa are two boundary mountains stretching north and south as far as the Nīla and Niṣadha ranges.
२.२.४२
गन्धमादनकैलासौ पूर्ववच्चायतावुभौ ।
आशीति योजनायामावर्णवान्तव्यवस्थितौ ॥
आशीति योजनायामावर्णवान्तव्यवस्थितौ ॥
Summary
AI
Gandhamādana and Kailāsa also extend similarly, spanning eighty yojanas in length and reaching as far as the ocean.
२.२.४३
निषधः परियात्रश्च मर्यादापर्वतावुभौ ।
मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ ॥
मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ ॥
Summary
AI
Niṣadha and Pariyātra are two boundary mountains located on the western side of Meru, positioned just as those on the eastern side.
२.२.४४
त्रिशृङ्गो जारुधिश्चैव उत्तरौ वर्षपर्वतौ ।
पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥
पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥
Summary
AI
Triśṛṅga and Jārudhi are the northern regional mountains. Stretching from east to west, these two mountains are situated within the ocean.
२.२.४५
इत्येते मुनिवर्योक्ता मर्यादापर्वतास्तव ।
जठराद्याः स्थिता मेरोस्तेषां द्वौद्वौ चतुर्दिशम् ॥
जठराद्याः स्थिता मेरोस्तेषां द्वौद्वौ चतुर्दिशम् ॥
Summary
AI
O best of sages, these boundary mountains have been described to you. Jaṭhara and others are situated around Meru, with two positioned in each of the four directions.
२.२.४६
मेरो श्चतुर्दिशं येतु प्रोक्ताः केसरपर्वताः ।
शीतान्ताद्या मुने तेषामतीव हि मनोरमाः ।
शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः ॥
शीतान्ताद्या मुने तेषामतीव हि मनोरमाः ।
शैलानामन्तरे द्रोण्यः सिद्धचारणसेविताः ॥
Summary
AI
O Sage, the Kesara mountains mentioned in the four directions of Meru, such as Śītānta and others, are exceedingly delightful. Between these mountains lie valleys frequented by Siddhas and Cāraṇas.
२.२.४७
सुरम्याणि तथा तासु काननानि पुराणि च ।
लक्ष्मीविष्ण्वग्निसूर्यादिदेवानां मुनि सत्तम ।
तास्वायतनवर्याणि जुष्टानि वरकिन्नरैः ॥
लक्ष्मीविष्ण्वग्निसूर्यादिदेवानां मुनि सत्तम ।
तास्वायतनवर्याणि जुष्टानि वरकिन्नरैः ॥
Summary
AI
O best of sages, in those valleys are enchanting forests and cities, as well as the magnificent temples of deities like Lakṣmī, Viṣṇu, Agni, and Sūrya, which are attended by noble Kinnaras.
२.२.४८
गन्धर्वयक्षरक्षांसि तथा दैतेयदानवाः ।
क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निसम् ॥
क्रीडन्ति तासु रम्यासु शैलद्रोणीष्वहर्निसम् ॥
Summary
AI
Gandharvas, Yakṣas, Rākṣasas, as well as Daiteyas and Dānavas, sport day and night within those beautiful mountain valleys.
२.२.४९
भौमा ह्येते स्मृताः स्वर्गा धर्मिणामालया मुने ।
नैतुषु पापकर्माणो यान्ति जन्मशतैरपि ॥
नैतुषु पापकर्माणो यान्ति जन्मशतैरपि ॥
Summary
AI
O Sage, these regions are regarded as terrestrial heavens and abodes of the righteous. Sinners cannot reach these places even after hundreds of births.
२.२.५०
भद्राश्वे भगवान्विष्णुरास्ते हयशिरा द्विज ।
वराजः केतुमाले तु भारते कूर्मरूपधृक् ॥
वराजः केतुमाले तु भारते कूर्मरूपधृक् ॥
Summary
AI
O Dvija, in Bhadrāśva, Lord Viṣṇu resides as the horse-headed Hayagrīva; in Ketumāla, he is in the form of the boar (Varāha); and in Bhārata, he assumes the form of the tortoise (Kūrma).
॥ इति द्वितीयांशे द्वितीयोऽध्यायः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.