Loading data... On slow networks this could take a few minutes.
100%

वपुरन्वलिप्त परिरम्भसुख-
व्यवधानभीरुकतया न वधूः
क्षमस्य वाढमिदमेव हि
यत्प्रियसंगमेष्वनवलेपमद्-
अः

मल्लिनाथः वपुरिति ॥ वधूः स्त्री परिरम्भसुखव्यवधानभीरुकतया आलिङ्गनसुखविच्छेदभीरुत्वेन । `क्रुकन्नपि वक्तव्यः` (वा०) इति क्रुकन्प्रत्ययः । वपुर्नान्वलिप्त नानुलिप्तवती । अङ्गरागमात्रव्यवधानमपि न सहत इत्यर्थः । लिम्पतेः कर्तरि लुङि तङ् । तथा हिअदो वपुः प्रियसंगमेषु अनवलेपमचन्दनमगर्वं चेति यत् । `अवलेपस्तु गर्वे स्याल्लेपने भूषणेऽपि च` इति विश्वः । इदमनवलेपनत्वमेवास्य वपुषो बाढं भृशं क्षमं युक्तम् । श्लेषानुप्राणितोऽयमर्थान्तरन्यासः
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
पु न्व लि प्त रि म्भ सु
व्य धा भी रु या धूः
क्ष स्य वा मि मे हि
त्प्रि सं मे ष्व ले दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.