॥ अथ चतुर्थोऽङ्कः ॥
अन—(ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ ।
प्रि—हला प्रियंवदे यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा शकुन्तलानुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयं तथाप्येतावच्चिन्तनीयम् ।
अन—कथमिव ।
प्रि—अद्य स राजर्षिरिष्टिं परिसमाप्य ऋषिभिर्विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरसमागत इतो गतं वृत्तान्तं स्मरति वा न वेति ।
अन—विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ।
प्रि—यथाहं पश्यामि तथा तस्यानुमतं भवेत् ।
अन—कथमिव ।
प्रि—गुणवते कन्यका प्रतिपादनीया इत्ययं तावत्प्रथमः संकल्पः । तं यदि दैवमेव संपादयति नन्वप्रयासेन कृतार्थो गुरुजनः ।
अन—(पुष्पभाजनं विलोक्य) सखि अवचितानि बलिकर्मपर्याप्तानि कुसुमानि ।
प्रि—ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया ।
युज्यते । (इति तदेव कर्माभिनयतः)
(नेपथ्ये)
अन—अयमहं भोः ।
प्रि—(कर्णं दत्त्वा) सखि अतिथीनामिव निवेदितम् ।
अन—ननूटजसंनिहिता शकुन्तला ।
अद्य पुनर्हृदयेनासंनिहिता । अलमेतावद्भिः कुसुमैः । (इति प्रस्थिते) (नेपथ्ये)
आः अतिथिपरिभाविनि
हा धिग्घा धिक् । अप्रियमेव संवृत्तम् । कस्मिन्नपि पूजार्हेऽपराद्धा शून्यहृदया शकुन्तला । (पुरोऽवलोक्य)
अन—न खलु यस्मिन्कस्मिन्नपि । एष दुर्वासाः सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः ।
प्रि—कोऽन्यो हुतवहाद्दग्धुं प्रभवति । गच्छ । पादयोः प्रणम्य निवर्तय एनं यावदहमर्घोदकमुपकल्पयामि ।
अन—तथा (इति निष्क्रान्ता)
(पदान्तरे स्खलितं निरूप्य)अहो आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात्पुष्पभाजनम् । (इति पुष्पोच्चयं रूपयति)
प्रि—(प्रविश्य)
अन—सखि प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति । किमपि पुनः सानुक्रोशः कृतः ।
प्रि—(सस्मितम्तस्मिन्बह्वेतदपि । कथय ।
यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया ।
अन—भगवन्प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षयितव्य इति ।
प्रि—ततस्ततः ।
अन—ततो न मे वचनमन्यथा भवितुमर्हति किं त्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयमाण एवान्तर्हितः ।
प्रि—शक्यमिदानीमाश्वसितुम् । अस्ति तेन राजर्षिणा संप्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम् । तस्मिन्स्वाधीनोपाया शकुन्तला भविष्यति ।
सखि एहि । देवकार्यं तावदस्या निर्वर्तयावः ।
प्रि—(इति परिक्रामतः)
अन—(विलोक्यानसूये पश्य तावत् । वामहस्तोपहितवदना आलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति । किं पुनरागन्तुकम् ।
प्रि—प्रियंवदे द्वयोरेव नौ मुखे एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी ।
को नाम उष्णोदकेन नवमालिकां सिञ्चति ।
(इति निष्क्रान्ते)
विष्कम्भकः ।
शिष्य—(ततः प्रविशति सुप्तोत्थितः शिष्यः)
वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति । (परिक्रम्यावलोक्य च) हन्त प्रभातम् । तथा हि ।
४.२
यात्येकतोऽस्तशिखरं पतिरोषधीनाम्
आविष्कृतारुणपुरःसर एकतोऽर्कः ।
तेजोद्वयस्य युगपद्व्यसनोदयाभ्याम्
लोको नियम्यत इवात्मदशान्तरेषु ॥
Summary AI On one side, the lord of herbs (the moon) goes to the sunset mountain; on the other, the sun appears, preceded by its herald, the dawn. Through the simultaneous setting and rising of these two luminaries, the world seems to be instructed in its own changing states of fortune.
अन—(प्रविश्यापटीक्षेपेण)
शिष्य—यद्यपि नाम विषयपराङ्मुखस्य जनस्यैतन्न विदितं तथापि तेन राज्ञा शकुन्तलायामनार्यमाचरितम् ।
यावदुपस्थिता होमवेलां गुरवे निवेदयामि ।
अन—(इति निष्क्रान्तः)
प्रतिबुद्धा अपि किं करिष्यामि । न म उचितेष्वपि निजकरणीयेषु हस्तपादं प्रसरति । काम इदानीं सकामो भवतु येनासत्यसंधे जने शुद्धहृदया सखी पदं कारिता । अथवा दुर्वासः शाप एष विकारयति ।
अन्यथा कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावतः कालस्य लेखमात्रमपि न विसृजति ।
तदितोऽभिज्ञानमङ्गुलीयकं तस्य विसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम् । ननु सखीगामी दोष इति व्यवसिता अपि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्त्वां शकुन्तलां निवेदयितुम् । इत्थं गतेऽस्माभिः किं करणीयम् ।
प्रि—(प्रविश्य)
॥ इति चतुर्थोऽङ्कः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.