वनद्विपानां नववारिदस्वनै-
र्मदान्वितानां ध्वनतां मुहुर्मुहुः ।
कपोलदेशा विमलोत्पलप्रभाः
सभृङ्गयूथैर्मदवारिभिश्चिताः ॥

अन्वयः AI नववारिदस्वनैः मुहुः मुहुः ध्वनतां मदान्वितानां वनद्विपानां विमलोत्पलप्रभाः कपोलदेशाः सभृङ्गयूथैः मदवारिभिः चिताः भवन्ति।
Summary AI Aroused by the rumbling of new clouds, forest elephants, filled with rut, trumpet again and again. Their temple regions, lustrous like clear blue lotuses, are covered with streams of rut-fluid and the swarms of bees attracted to it.
सारांश AI बादलों की गर्जना सुनकर वन के हाथी मदमस्त होकर चिंघाड़ रहे हैं। उनके कपोलों से बहते हुए सुगंधित मदजल पर भौरों के झुण्ड मंडरा रहे हैं, जिससे उनके कपोल नीले कमल की भांति सुंदर दिख रहे हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) वनद्विपानामिति ॥ वनद्विपानां काननहस्तिनाम् । कपोलदेशाः गल्लोपरिभागाः । नवतोयदस्वनैः नवाः प्रत्यग्राश्च तोयदा मेघाश्च नवतोयदास्तेषां स्वना गर्जितशब्दास्तथा तैः कृत्वा मदवारिभिः मदा एव वारीणि जलानि तैः श्रिताः क्षरन्मदा जाता इत्यर्थः । किं भूतानां — मदान्वितानां मदावस्थायुक्तानाम् । मुहुर्मुहुर्वारं वारं ध्वनतां बृंहताम् । शब्दं कुर्वतामित्यर्थः । कथं भूताः कपोलदेशाः — विमलञ्च तदुत्पलं च विमलोत्पलं तद्वत्प्रभा कान्तिर्येषां ते । कथं भूतैः — भृङ्गयुथैः सहितानि सभृङयूथानि तैः भ्रमरनिकरसहितैः ॥
चन्द्रिकाटीका (मणिरामः) वनद्विपानामिति ॥ नवाः सद्यः सम्भृतसलिला ये वारिदा जलदास्तेषां स्वनैर्निनादैः । शब्दे निनादनिनदध्वनिध्वानरवस्वनाः इत्यमरः (अमरकोशः १.६.२४ ) । कृत्वा मदान्वितानाम् अपवारणगर्जनशङ्कयेति भावः । अत एव मुहुर्मुहुर्वारं वारं ध्वनतां गर्जतां वनद्विपानामारण्यगजानाम् द्विपः मतङ्गजो गजो नागः इत्यमरः (अमरकोशः २.८.३४ ) । विमलानि निर्मलानि यान्युत्पलानि कुवलयानि तेषां प्रभेव प्रभा येषां ते तथोक्ताः। स्यादुत्पलं कुवलयम् इत्यमरः (अमरकोशः १.१०.३७ ) । कपोलदेशा गण्डप्रदेशाः सभृङ्गयूथैर्भ्रमरसमुदायसहितैर्मेदवारिभिर्दानोदकैश्चिताः व्याप्ता इत्यर्थः । सौगन्ध्यातिशयाद्भ्रमरैरप्यागत्य तत्र स्थितमिति भावः ॥
पदच्छेदः AI
वनद्विपानाम्वनद्विप (६.३) of forest elephants
नववारिदस्वनैःनववारिदस्वन (३.३) by the sounds of new clouds
मदान्वितानाम्मदअन्वित (६.३) who are filled with rut
ध्वनताम्ध्वनत् (√ध्वन्+शतृ, ६.३) of the trumpeting
मुहुर्मुहुःमुहुर्मुहुः again and again
कपोलदेशाःकपोलदेश (१.३) the temple regions
विमलोत्पलप्रभाःविमलउत्पलप्रभा (१.३) having the lustre of a clear blue lotus
सभृङ्गयूथैःसभृङ्गयूथ (३.३) with swarms of bees
मदवारिभिःमदवारि (३.३) by the rut-fluid
चिताःचित (√चि+क्त, १.३) are covered
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
द्वि पा नां वा रि स्व नै
र्म दा न्वि ता नां ध्व तां मु हु र्मु हुः
पो दे शा वि लो त्प प्र भाः
भृ ङ्ग यू थै र्म वा रि भि श्चि ताः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.