Loading data... On slow networks this could take a few minutes.
100%

विपत्त्रपुष्पां नलिनीं समुत्सुका
विहाय भृङ्गाः श्रुतिहारिनिस्वनाः ।
पतन्ति मूढाः शिखिनां प्रनृत्यतां
कलापचक्रेषु नवोत्पलाशया ॥

अन्वयः AI श्रुतिहारिनिस्वनाः भृङ्गाः विपत्त्रपुष्पां समुत्सुकां नलिनीं विहाय, मूढाः सन्तः नवोत्पलाशया प्रनृत्यतां शिखिनां कलापचक्रेषु पतन्ति।
Summary AI Bees, with their ear-pleasing hum, abandon the lotus plants which are now without leaves or flowers. Deluded, they alight upon the circular, spread-out tails of dancing peacocks, mistaking them for fresh blue lotuses.
सारांश AI कमल के फूलों के नष्ट हो जाने से व्याकुल हुए भ्रमर मधुर गुंजन करते हुए नाचते मोरों के पंखों पर जा गिर रहे हैं। वे भ्रमवश पंखों के नीले रंग को नीलकमल समझ रहे हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) विपन्नेति ॥ च पुनः भृङ्गाः भ्रमराः । शिखिनां मयुराणाम् । कलाप चक्रेषु बहिर्मण्डलेषु पतन्ति । कथं भूतः — नृत्यतां नृत्यं कुर्वताम् । किं कृत्वा — नलिनीं कमलिनीं विहाय त्यक्त्वा । कया — नवोत्पलाशया नवञ्च तदुत्पलञ्च नवोत्पलं तस्याशा नवोत्पलाशा तया । किं भूताः नलिनीम् — विपन्नानि नष्टानि पुष्पाणि कुसुमानि यस्याः सा विपन्नपुष्पा तां विपन्नपुष्पाम् । किं भूताः भृङ्गाः — समुत्सुकाः उत्कण्ठायुक्ताः । पुनः कथं भूताः — श्रुतिहारिनिःस्वनाः श्रुत्योः कर्णयोर्हारि मनोहरो निःस्वनो शब्दो येषां ते । पुनः कथं भूतः — मूढा उद्विग्नचित्ताः । अत्र नृत्यन्मयुराणां कलापाः प्रत्यग्रपद्मवन्मनोहरा भवन्तीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः) विपत्रेति ॥ समुत्सुका उत्कण्ठिताः श्रुतेः श्रवणस्य हारी मनाह्लादकर इति यावत् । निःस्वनः शब्दो येषां ते तथोक्ता मूढा इदं न त्विदं तन्नलिनमिति विचाररहिता भृङ्गा भ्रमराः । द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः इत्यमरः (अमरकोशः २.५.३२ ) । विगतानि पत्राणि दलानि यस्य तादृशं पुष्पं यस्या सा तां तथोक्तां नलिनीम् विहाय त्यक्त्वा प्रनृत्यतां नृत्यं कुर्वताम् शिखिनां मयूराणां कलापचक्रेषु बर्हमण्डलेषु नवोत्पलस्य नूतनकुवलयस्याशया । भ्रमणेति भावः । पतन्ति निपतन्तीत्यर्थः ॥
पदच्छेदः AI
विपत्त्रपुष्पाम्विपत्त्रपुष्प (२.१) which is without leaves and flowers
नलिनीम्नलिनी (२.१) the lotus plant
समुत्सुकाम्समुत्सुक (२.१) eagerly awaiting
विहायविहाय (वि√हा+ल्यप्) having left
भृङ्गाःभृङ्ग (१.३) the bees
श्रुतिहारिनिस्वनाःश्रुतिहारिन्निस्वन (१.३) with sounds captivating to the ear
पतन्तिपतन्ति (√पत् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they alight
मूढाःमूढ (√मुह्+क्त, १.३) deluded
शिखिनाम्शिखिन् (६.३) of peacocks
प्रनृत्यताम्प्रनृत्यत् (प्र√नृत्+शतृ, ६.३) of the dancing
कलापचक्रेषुकलापचक्र (७.३) on the circular tails
नवोत्पलाशयानवउत्पल–आशया (३.१) with the hope of a new blue lotus
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि त्त्र पु ष्पां लि नीं मु त्सु का
वि हा भृ ङ्गाः श्रु ति हा रि नि स्व नाः
न्ति मू ढाः शि खि नां प्र नृ त्य तां
ला क्रे षु वो त्प ला या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.