Loading data... On slow networks this could take a few minutes.
100%

सितोत्पलाभाम्बुदचुम्बितोपलाः
समाचिताः प्रस्रवणैः समन्ततः ।
प्रवृत्तनृत्यैः शिखिभिः समाकुलाः
समुत्सुकत्वं जनयन्ति भूधराः ॥

अन्वयः AI सितोत्पलाभाम्बुदचुम्बितोपलाः, समन्ततः प्रस्रवणैः समाचिताः, प्रवृत्तनृत्यैः शिखिभिः समाकुलाः भूधराः समुत्सुकत्वं जनयन्ति।
Summary AI The mountains create a sense of longing. Their peaks are kissed by clouds that resemble white lotuses, they are covered on all sides with waterfalls, and they are filled with peacocks that have commenced their dance.
सारांश AI बादलों से घिरे पर्वत शिखर, बहते झरने और नाचते हुए मोर मन में व्याकुलता और प्रेम जगा रहे हैं। पर्वतों की शिलाएं श्वेत बादलों के स्पर्श से अत्यंत मनोहर लग रही हैं।
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः) सितेति ॥ भूधराः पर्वताः प्रवासिनां पथिकजनानां समुत्सुकस्य भावः समुत्सुकत्वं जनयन्त्युत्पादयन्ति । किं भूताः भूधराः — अम्बुधरोक्षितोपलाः अम्बुधरैर्मेघैरुक्षिताः सिक्ता उपलाः पाषाणा येषां ते । पुनः किं भूतैः — प्रस्रवणैः निर्झरैः । समन्ततः सर्वतः । व्याप्ताः समाचिताः । पुनः किंभूतैः — प्रवृत्तनृत्यैः प्रवृत्तं प्रारब्धं नृत्यं नाटकं यैस्ते तैः । शिखिभिर्मयूरैः समाकुला व्याप्ताः ॥
चन्द्रिकाटीका (मणिरामः) सितेति ॥ सितानि शुभ्राणि यान्युत्पलानि कुवलयानि तेषामाभेवाभा कान्तिः सलिलवर्षणे येषां तादृशा येऽम्बुदा जलदास्तैश्चुम्बिता उत्पला: पाषाणां येषां ते तथोक्ताः । पाषाणप्रस्तरग्रावोपलाश्मानः इत्यमरः (अमरकोशः २.३.४ ) । समन्तत इतस्ततः प्रस्रवर्णैर्निर्झरैः । उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः इत्यमरः (अमरकोशः २.३.५ ) । समाचिता व्याप्ताः । प्रवृत्तमारब्धं नृत्यं नर्तनं यैस्तथोक्तैः । लास्यं नृत्यञ्च नर्तने` इत्यमरः (अमरकोशः १.७.११ ) । शिखिभिर्मयूरैः समाकुला व्याकुलाः भूधराः समुत्सुकत्वं चित्तस्येति शेषः । जनयन्त्युत्पादयन्तीत्यर्थः ॥
पदच्छेदः AI
सितोत्पलाभाम्बुदचुम्बितोपलाःसितउत्पलआभअम्बुदचुम्बित (√चुम्ब्+क्त)उपल (१.३) whose rocks are kissed by clouds resembling white lotuses
समाचिताःसमाचित (सम्+आ√चि+क्त, १.३) covered
प्रस्रवणैःप्रस्रवण (३.३) by waterfalls
समन्ततःसमन्ततः on all sides
प्रवृत्तनृत्यैःप्रवृत्त (प्र√वृत्+क्त)नृत्य (३.३) by those who have commenced dancing
शिखिभिःशिखिन् (३.३) by peacocks
समाकुलाःसमाकुल (१.३) filled with
समुत्सुकत्वम्समुत्सुकत्व (२.१) longing
जनयन्तिजनयन्ति (√जन् +णिच् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they generate
भूधराःभूधर (१.३) the mountains
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
सि तो त्प ला भा म्बु चु म्बि तो लाः
मा चि ताः प्र स्र णैः न्त तः
प्र वृ त्त नृ त्यैः शि खि भिः मा कु लाः
मु त्सु त्वं न्ति भू राः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.