स हत्वा लवणं वीरस्तदा मेने महौजसः ।
भ्रातुः सोदर्यमात्मानमिन्द्रजिद्वधशोभिनः ॥

अन्वयः AI तदा वीरः सः लवणम् हत्वा महा-ओजसः इन्द्रजित्-वध-शोभिनः भ्रातुः आत्मानम् सोदर्यम् मेने ।
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ स वीरः शत्रुघ्नो लवणं हत्वा तदाऽऽत्मानं महौजसो महाबलस्येन्द्रजिद्वधेन शोभिनो भ्रातुर्लक्ष्मणस्य समानोदरे शयितं सोदर्यमेकोदरं मेने। सोदराद्यः (अष्टाध्यायी ४.४.१०९ ) इति यप्रत्ययः ॥
Summary AI Then the hero Shatrughna, having killed Lavana, considered himself a worthy brother to the mighty Lakshmana, who was renowned for slaying Indrajit.
सारांश AI लवण राक्षस का वध करके उस वीर शत्रुघ्न ने स्वयं को इन्द्रजित का वध करने वाले अपने प्रतापी भाई लक्ष्मण का सच्चा सहोदर माना।
पदच्छेदः AI
तद् (१.१) He
हत्वाहत्वा (√हन्+क्त्वा) having killed
लवणंलवण (२.१) Lavana
वीरःवीर (१.१) the hero
तदातदा then
मेनेमेने (√मन् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) considered
महौजसःमहत्ओजस् (६.१) of the very mighty
भ्रातुःभ्रातृ (६.१) brother (Lakshmana)
सोदर्यम्सोदर्य (२.१) a worthy brother
आत्मानम्आत्मन् (२.१) himself
इन्द्रजिद्वधशोभिनःइन्द्रजित्वधशोभिन् (६.१) of him who was glorious by the slaying of Indrajit
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्वा णं वी
स्त दा मे ने हौ सः
भ्रा तुः सो र्य मा त्मा
मि न्द्र जि द्व शो भि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.