भीमसेनः—कथं मायापाशेन बद्धोऽस्मि । किमिदानीं करिष्ये । भवतु दृष्टम् । अस्ति मे महेश्वरप्रसादाल्लब्धो मायापाशमोक्षो मन्त्रः । तं जपामि । कुतः खल्वापः । भो ब्राह्मणकुमार ! आनय कमण्डलुगता आपः ।
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.