बद्धकोशमपि तिष्ठति क्षणं
सावशेषविवरं कुशेशयम् ।
षट्पदाय वसतिं ग्रहीष्यते
प्रीतिपूर्वमिव दातुमन्तरम् ॥

अन्वयः AI बद्धकोशम् अपि कुशेशयम् सावशेषविवरम् सत् क्षणम् तिष्ठति, ग्रहीष्यते षट्पदाय वसतिम् दातुम् प्रीतिपूर्वम् अन्तरम् इव।
सञ्जीविनीटीका (मल्लिनाथः) बद्धकोशमिति । बद्धकोशमपि । मुकुलितमपीत्यर्थः । कुशेशयं कर्तृ । `शतपत्रं कुशेशयम्` इत्यमरः (अमरकोशः १.१०.४० ) । वसतिं ग्रहीष्यते । स्थितिं करिष्यत इत्यर्थः । `लृटः सद्वा` इति शतृप्रत्ययः । षट्पदाय प्रीतिपूर्वमन्तरमवकाशं दातुमिव क्षणं सावशेषविवरं तिष्ठति
Summary AI 'Even though its petals are closing, the lotus remains with a slight opening for a moment, as if to lovingly give space for the bee, who is about to take up lodging, to enter.'
सारांश AI संकुचित होता हुआ कमल भी क्षण भर के लिए थोड़ा खुला है, मानो वह प्रेमवश भ्रमर को रात्रि में निवास के लिए भीतर स्थान दे रहा हो।
पदच्छेदः AI
बद्धकोशम्बद्ध (√बन्ध्+क्त)कोश (१.१) Though its petals are closing,
अपिअपि even
तिष्ठतितिष्ठति (√स्था कर्तरि लट् (परस्मै.) प्र.पु. एक.) waits
क्षणम्क्षण (२.१) for a moment,
सावशेषविवरम्अवशेषविवर (१.१) with a slight opening remaining,
कुशेशयम्कुशेशय (१.१) the lotus,
षट्पदायषट्पद (४.१) for the bee
वसतिम्वसति (२.१) lodging
ग्रहीष्यतेग्रहीष्यते (√ग्रह् कर्तरि लृट् (आत्मने.) प्र.पु. एक.) who will take,
प्रीतिपूर्वम्प्रीतिपूर्वम् lovingly
इवइव as if,
दातुम्दातुम् (√दा+तुमुन्) to give
अन्तरम्अन्तर (२.१) space.
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
द्ध को पि ति ष्ठ ति क्ष णं
सा शे वि रं कु शे यम्
ट्प दा तिं ग्र ही ष्य ते
प्री ति पू र्व मि दा तु न्त रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.