Loading data... On slow networks this could take a few minutes.
100%

अधरीचकार च विवेकगुणा-
दगुणेषु तस्य धियमस्तवतः ।
प्रतिघातिनीं विषयसङ्गरतिं
निरुपप्लवः शमसुखानुभवः ॥

अन्वयः AI निरुपप्लवः शमसुखानुभवः विवेकगुणात् अगुणेषु अस्तवतः तस्य धियम् प्रतिघातिनीम् विषयसङ्गरतिम् च अधरीचकार ।
English Summary AI The undisturbed experience of the bliss of tranquility, born from the virtue of discernment, subordinated his mind's attachment to sensual pleasures, which he was casting away from the realm of non-virtues.
सारांश AI विवेक के कारण अर्जुन की बुद्धि में विषयों के प्रति आसक्ति समाप्त हो गई। उनके मन में स्थिर शांति के सुख का अनुभव इतना गहरा था कि उसने चंचल इच्छाओं को दबा दिया और उन्हें विचलित होने से बचा लिया।
घण्टापथव्याख्या (मल्लिनाथः) अधरीचंकारेति ॥ किं चेति चार्थः । विवेकस्तत्त्वावधारणं स एव गुणस्तस्मात् । तेन हेतुनेत्यर्थः । विभाषा गुणेऽस्त्रियाम् (अष्टाध्यायी २.३.२५ ) इति पञ्चमी । अगुणेषु कामक्रोधादिदोषेषु विषये। तद्विरोधेन नञ्समासः । धियं चित्तवृत्तिमस्तवतो निवारितवतस्तस्यार्जुनस्य निरुपप्लवो निर्बाधः शमसुखानुभवःशान्त्यानन्दानुभवः प्रतिघातिनीं सोपप्लवां विषयसङ्गरतिं शब्दाद्युपभोगरुचिमधरीचकार । विषयनिःस्पृहं चकारेत्यर्थः । उत्कृष्टसुखलाभस्य प्रकृष्टवैराग्यहेतुत्वादिति भावः ॥
पदच्छेदः AI
अधरीचकारअधरीचकार (√कृ +च्वि कर्तरि लिट् (परस्मै.) प्र.पु. एक.) subordinated
and
विवेकगुणात्विवेकगुण (५.१) from the virtue of discrimination
अगुणेषुअगुण (७.३) in the non-virtues
तस्यतद् (६.१) his
धियम्धी (२.१) mind
अस्तवतःअस्तवत् (√अस्+क्तवतु, ६.१) of him who was casting away
प्रतिघातिनीम्प्रतिघातिन् (प्रति√हन्+णिनि, २.१) the opposing
विषयसङ्गरतिम्विषयसङ्गरति (२.१) attachment to sensual pleasures
निरुपप्लवःनिरुपप्लव (१.१) The undisturbed
शमसुखानुभवःशमसुखअनुभव (१.१) experience of the bliss of tranquility
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१० ११ १२
री का वि वे गु णा
गु णे षु स्य धि स्त तः
प्र ति घा ति नीं वि ङ्ग तिं
नि रु प्ल वः सु खा नु वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.