Loading data... On slow networks this could take a few minutes.
100%

सितच्छदानामपदिश्य धावतां
रुतैरमीषां ग्रथिताः पतत्रिणाम् ।
प्रकुर्वते वारिदरोधनिर्गताः
परस्परालापमिवामला दिशः ॥

अन्वयः AI वारिदरोधनिर्गताः अमलाः दिशः, धावताम् अमीषां सितच्छदानां पतत्रिणां रुतैः ग्रथिताः (सत्यः), अपदिश्य परस्परम् आलापम् इव प्रकुर्वते।
English Summary AI The clear quarters of the sky, now free from the obstruction of clouds, seem to be conversing with each other, using as their medium the calls of these flying white-winged birds (swans), which are strung together.
सारांश AI उड़ते हुए श्वेत हंसों की ध्वनियों के माध्यम से, बादलों के आवरण से मुक्त हुई ये निर्मल दिशाएं मानो परस्पर संवाद कर रही हैं।
घण्टापथव्याख्या (मल्लिनाथः) सितेति ॥ अपदिश्य धावतामिति पूर्वश्लोकत्रयोक्तं पयःप्रभृतिकमुद्दिश्य धावताममीषां सितच्छदानां पतत्रिणां हंसानाम् । हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसःइत्यमरः (अमरकोशः २.५.२६ ) । रुतैः शब्दैर्ग्रथिता दृब्धाः । ग्रथितं गुम्फितं दृब्धम् इत्यमरः। वारिदरोधनिर्गता मेघोपरोधनिर्मुक्ता अतएवामलाः प्रसन्ना दिशः परस्परालापं प्रकुर्वत इव । दिष्टया मेघोपरोघनिर्मुक्ताश्चिरादुच्छसिता इति हंसकूजितव्याजेन परस्परमालपन्तीवेत्युत्प्रेक्षा ॥
पदच्छेदः AI
सितच्छदानाम्सितछद (६.३) of the white-winged
अपदिश्यअपदिश्य (अप√दिश्+ल्यप्) using as a pretext
धावताम्धावत् (√धाव्+शतृ, ६.३) of the flying
रुतैःरुत (३.३) by the calls
अमीषाम्अदस् (६.३) of these
ग्रथिताःग्रथित (√ग्रथ्+क्त, १.३) strung together
पतत्रिणाम्पतत्त्रिन् (६.३) birds
प्रकुर्वतेप्रकुर्वते (प्र√कृ कर्तरि लट् (आत्मने.) प्र.पु. बहु.) engage in
वारिदरोधनिर्गताःवारिदरोधनिर्गत (१.३) freed from the obstruction of clouds
परस्परालापम्परस्परआलाप (२.१) a conversation with each other
इवइव as if
अमलाःअमल (१.३) clear
दिशःदिश् (१.३) The quarters of the sky
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
सि च्छ दा ना दि श्य धा तां
रु तै मी षां ग्र थि ताः त्रि णाम्
प्र कु र्व ते वा रि रो नि र्ग ताः
स्प रा ला मि वा ला दि शः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.