Loading data... On slow networks this could take a few minutes.
100%

विहारभूमेरभिघोषमुत्सुकाः
शरीरजेभ्यश्च्युतयूथपङ्क्तयः ।
असक्तमूधांसि पयः क्षरन्त्यमू-
रुपायनानीव नयन्ति धेनवः ॥

अन्वयः AI विहारभूमेः अभिघोषम् उत्सुकाः, शरीरजेभ्यः च्युतयूथपङ्क्तयः अमूः धेनवः, असक्तं पयः क्षरन्त्यः ऊधांसि उपायनानि इव नयन्ति।
English Summary AI Eager to return to the cow-pen from the pasture, these cows, separated from their calves and with their rows broken from the herd, bring their udders, which are continuously dripping milk, as if they were bringing offerings.
सारांश AI चरागाहों से लौटती हुई गायें, बछड़ों के स्नेह में स्तनों से स्वतः झरते दूध के रूप में मानो उपहार लेकर अपने निवास स्थान की ओर आ रही हैं।
घण्टापथव्याख्या (मल्लिनाथः) विहारेति ॥ विहारभूमेः । अपररात्रगोचरादित्यर्थः आगच्छन्त्य इति शेषः । अभिघोषमुत्सुका व्रजं प्रत्युत्कण्ठिताः । वत्सप्रेम्णेति भावः । घोष आभीरपल्ली स्यात् इत्यमरः (अमरकोशः २.२.२१ ) । च्युता त्रुटिता यूथानां कुलानां पङ्क्तिः श्रेणीबन्धो यासां तास्तथोक्ताः । सजातीयैः कुलं यूथम् इत्यमरः (अमरकोशः २.५.४४ ) । अमूर्धेनवोऽसक्तमप्रतिबन्धं पयः क्षीरं क्षरन्ति स्रवन्ति । वत्सस्मरणात्प्रस्रवन्तीत्यर्थः । क्षरतेः शतृप्रत्ययः । ऊधांसि शरीरजेभ्योऽपत्येभ्य उपायनानीवातितोषकारीणीवेत्युत्प्रेक्षा । नयन्ति प्रापयन्ति । यथा लोके कुतश्चित्प्रवासादेत्य मातरः किंचित्खाद्यमानयन्ति तद्वदिति भावः ॥
पदच्छेदः AI
विहारभूमेःविहारभूमि (५.१) from the pasture
अभिघोषम्अभिघोषम् towards the cow-pen
उत्सुकाःउत्सुक (१.३) eager
शरीरजेभ्यःशरीरज (४.३) for their calves
च्युतयूथपङ्क्तयःच्युतयूथपङ्क्ति (१.३) with rows broken from the herd
असक्तम्असक्तम् continuously
ऊधांसिऊधस् (२.३) udders
पयःपयस् (२.१) milk
क्षरन्त्यःक्षरन्ती (√क्षर्+शतृ, १.३) dripping
अमूःअदस् (१.३) these
उपायनानिउपायन (२.३) offerings
इवइव as if
नयन्तिनयन्ति (√नी कर्तरि लट् (परस्मै.) प्र.पु. बहु.) bring
धेनवःधेनु (१.३) cows
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि हा भू मे भि घो मु त्सु काः
री जे भ्य श्च्यु यू ङ्क्त यः
क्त मू धां सि यः क्ष न्त्य मू
रु पा ना नी न्ति धे वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.