सुता न यूयं किमु तस्य राज्ञः
सुयोधनं वा न गुणैरतीताः ।
यस्त्यक्तवान्वः स वृथा बलाद्वा
मोहं विधत्ते विषयाभिलाषः ॥

अन्वयः AI यूयं तस्य राज्ञः सुताः न किम् उ? वा गुणैः सुयोधनम् न अतीताः (किम्)? यः विषय-अभिलाषः वः त्यक्तवान्, सः वृथा वा बलात् मोहं विधत्ते ।
English Summary AI Are you not the sons of that king (Pandu)? Or have you not surpassed Suyodhana in virtues? The desire for worldly objects, which has caused you to be abandoned, creates delusion, whether it is in vain or by force.
सारांश AI क्या आप उस महाराज पाण्डु के पुत्र नहीं हैं? क्या आप श्रेष्ठ गुणों में दुर्योधन से बढ़कर नहीं हैं? जिसने आप जैसों का परित्याग किया, वह विषयों की लालसा के कारण मोहग्रस्त हो गया है।
घण्टापथव्याख्या (मल्लिनाथः) सुता इति ॥ यूयं तस्य राज्ञो धृतराष्ट्रस्य सुताः पुत्रा न किमु । अपि तु सुता एवेत्यर्थः । गुणैः शान्तिदानदाक्षिण्यादिभिः सुयोधनं नातीता नातिक्रान्ता वा । अतीता एवेत्यर्थः । कर्तरि क्तः। असुतत्वममगुणत्वं च त्यागे हेतुः। युष्मासु तन्नास्तीत्यर्थः। उपालम्भे कारणमाह-य इति। यो धृतराष्ट्रो वो युष्मान्वृथा निष्कारणमेव त्यक्तवान् । यदि वयं सुता गुणाधिकाश्च तर्हि कथमत्याक्षीत्तत्राह-वलादिति । स विषयामिलाषो भोगतृष्णा बलाद्वा बलादिव । 'वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये (अष्टाध्यायी ३.४.५ ) इति विश्वः । मोहमविवेकं विधत्ते । विषयाभिलाषातिरिक्तो न कश्चिद्युष्मत्त्यागहे तुरस्तीत्यर्थः । अत्र कार्यकारणसमर्थनरूपोऽर्थान्तरन्यासः ॥ . अथ राज्ञ उत्सहवर्धनाय शत्रोर्हानिं सूचयतिजहातु नेनं कथमर्थसिद्धिः संशय्य कर्णादिषु तिष्ठते यः। असाधुयोगा हि जयान्तरायाःप्रमाथिनीनां विपदां पदानि
पदच्छेदः AI
सुताःसुत (१.३) sons
not
यूयम्युष्मद् (१.३) you
किमुकिम् is it that?
तस्यतद् (६.१) of that
राज्ञःराजन् (६.१) of the king
सुयोधनंसुयोधन (२.१) Suyodhana
वावा or
not
गुणैःगुण (३.३) in virtues
अतीताःअतीत (अति√इ+क्त, १.३) surpassed
यःयद् (१.१) which
त्यक्तवान्त्यक्तवत् (√त्यज्+क्तवतु, १.१) has caused to be abandoned
वःयुष्मद् (२.३) you
सःतद् (१.१) that
वृथावृथा in vain
बलात्बल (५.१) by force
वावा or
मोहंमोह (२.१) delusion
विधत्तेविधत्ते (वि√धा कर्तरि लट् (आत्मने.) प्र.पु. एक.) causes
विषयाभिलाषःविषयअभिलाष (१.१) desire for worldly objects
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
सु ता यू यं कि मु स्य रा ज्ञः
सु यो नं वा गु णै ती ताः
स्त्य क्त वा न्वः वृ था ला द्वा
मो हं वि त्ते वि या भि ला षः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.