तथापि निघ्नं नृप तावकीनैः
प्रह्वीकृतं मे हृदयं गुणौघैः ।
वीतस्पृहाणामपि मुक्तिभाजां
भवन्ति भव्येषु हि पक्षपाताः ॥

अन्वयः AI नृप, तथापि तावकीनैः गुण-ओघैः मे निघ्नं हृदयं प्रह्वीकृतम् । हि वीत-स्पृहाणाम् मुक्ति-भाजाम् अपि भव्येषु पक्षपाताः भवन्ति ।
English Summary AI Nevertheless, O king, my firm heart has been won over by your host of virtues. For indeed, even in those who are free from desire and possess liberation, feelings of affection arise towards the virtuous.
सारांश AI हे राजन्! आपके सद्गुणों ने मेरे हृदय को जीत लिया है। सांसारिक इच्छाओं से रहित और मोक्ष की कामना करने वाले महापुरुषों का भी भाग्यशाली और गुणवान व्यक्तियों के प्रति स्वाभाविक पक्षपात होता है।
घण्टापथव्याख्या (मल्लिनाथः) तथापीति ॥ तथापि तुल्यवृत्तौ चित्तेऽपि । हे नृप, तावकीनैस्त्वदीयैः। युष्मदस्मदोरन्यतरस्यां खञ्च इति खञ्प्रत्ययः । तवकममकावेकवचने (अष्टाध्यायी ४.३.३ ) इति तवकादेशः। गुणोधैः प्रह्वीकृतमावर्जितं मे हृदयं निघ्नं त्वदायत्तम् । अधीनो निघ्न आयत्तः इत्यमरः (अमरकोशः ३.१.१६ ) । ननु निःस्पृहस्य कोऽयं पक्षपात इत्यत्राह-वीतेति । वीतस्पृहाणां विरक्तानां मुक्तिभाजाम् । मुमुक्षूणामपीत्यर्थः । भवन्तीति भव्याः साधवः । भव्यगेय— (अष्टाध्यायी ३.४.६८ ) इत्यादिना कर्तरि निपातः । तेषु पक्षपाताः स्नेहा भवन्ति । न तु साध्वनुग्रहो महतां माध्यस्थ्यभञ्जक इति भावः॥ अथ नृपस्य गुणवत्तं प्रकटयितुं धृतराष्ट्रस्य दुश्चेष्टामुद्घाटयति
पदच्छेदः AI
तथापितथापि Nevertheless
निघ्नंनिघ्न (१.१) firm
नृपनृप (८.१) O king
तावकीनैःतावकीन (३.३) by your
प्रह्वीकृतंप्रह्वीकृत (प्रह्वी√कृ+च्वि+क्त, १.१) has been made humble
मेअस्मद् (६.१) my
हृदयंहृदय (१.१) heart
गुणौघैःगुणओघ (३.३) by the multitude of virtues
वीतस्पृहाणाम्वीतस्पृहा (६.३) of those who are free from desire
अपिअपि even
मुक्तिभाजांमुक्तिभाज् (६.३) of those who possess liberation
भवन्तिभवन्ति (√भू कर्तरि लट् (परस्मै.) प्र.पु. बहु.) arise
भव्येषुभव्य (७.३) towards the virtuous
हिहि for indeed
पक्षपाताःपक्षपात (१.३) feelings of affection
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
था पि नि घ्नं नृ ता की नैः
प्र ह्वी कृ तं मे हृ यं गु णौ घैः
वी स्पृ हा णा पि मु क्ति भा जां
न्ति व्ये षु हि क्ष पा ताः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.